न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 364, कुल 608 में से
संदर्भ में पढ़ें३३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां स्यादेतत् । यद्यपीश्वरो नावगतो, यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः शक्यसम्पादनः, तथाप्यात्मानः सिद्धास्तेषां सार्वज्ञ्यं निषिध्यते, क्षित्यादिकर्तृत्व- श्चेति। तथाहि। मदितरे न सर्वज्ञाश्चेतनत्वादहमिव, न च ते क्षित्यादिकर्त्तारः पुंस्त्व- त्वादहमिव। एवं, वस्तुत्वादेरपीति। तदेतदपि प्रागेव परिहृतम्। तथाहि— इष्टसिद्धिः प्रसिद्धेऽशे हेत्वसिद्धिरगोचरे ॥ नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा ॥ ४ ॥ प्रमाणप्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम्। ततोऽन्येषामसिद्धौ हे- तोराश्रयासिद्धत्वम्। आत्मत्वमात्रेण सोऽपि सिद्ध इति चेत्। कोऽस्यार्थः ?। किं बोधनी । प्रकृतेऽपि प्रमाणसिद्धं निषेधाधिकरणं दर्शयन्नाह । स्यादेतत्-इति । तस्यामेव प्रतिज्ञायां वस्तुत्वद्रव्यत्वादयोऽपि हेतव इत्याह एवम्-इति । यथाहुः— "प्रत्यक्षायविसंवादि प्रमेयंत्वादि यस्य च । अभावकरणे शक्तं को नु तं कथयिष्यति" ( श्लो० वा०, पृ० ८५ )। एतदप्याश्रयासिद्धत्वादिनो दत्तोत्तरमित्याह तदेतत्-इति । तदेव विकल्प्योपपादयति इष्टसिद्धिः-इति । उभयवादिसिद्धेषु पक्षीकृतेषु सिद्धसाधनं तेषाम- सर्वज्ञत्वासर्वकर्तृकत्वयोः अस्माकमपि सिद्धत्वात् भवतामगोचरेऽपीश्वरे पक्षीकृते हेतोराश्रयतोऽसिद्धिः। नन्वात्ममात्रे पक्षीकरणे सोऽपि तत्तया गृहीत इत्यस्ति सामान्यतः सिद्धिरित्यत उक्तम् नान्या सामान्यतः सिद्धिः-इति । उभयसिद्धयनुभयसिद्धिभ्यामन्यतः सिद्धिर्नाम न काचिदस्ति । न ह्युभयीमपि विधामतिक्रम्य विधान्तरमस्ति । आत्मत्वजातावपि पक्षीकृतायां यथेष्टसिद्ध्या पक्षत्वानिपातेनाश्रयासिद्धिः तथा सैवाश्रयासिद्धिः स्यात् । निषेध्यस्य सर्वज्ञत्वादेः क्वचिदप्यसिद्धेरप्रसिद्धविशेषणत्वात्पक्षस्येति व्याचष्टे प्रमाणेन-इति । तृतीयं पादं व्याचिख्यासुः शङ्कते आत्मत्वमात्रेण-इति । विकल्प्य दूषयति कोऽस्यार्थः-इति । भवतोऽसिद्धाप्यस्मदभिमतैव सर्वज्ञसर्वकर्तृव्यक्तिरात्मत्वेनोपलक्षिता किं पक्षीक्रियेत तस्या अप्यात्मत्वो- पलक्षितत्वेन वस्तुगत्या सिद्धत्वात् । अथ तदन्या संप्रतिपन्नैव व्यक्तिः, अथ वात्मत्वमात्रमेव । प्रथमे हेत्वसिद्धिरगोचर इति स्यात् । द्वितीये त्विष्टसिद्धिरिति स्यात् । तृतीयेऽपि सैव, आत्मत्वस्यासर्वज्ञ- प्रकाशः। न सर्वज्ञा इति। परेषां सर्वज्ञाप्रसिद्धेः । अत्र किञ्चिदनभिज्ञत्वमेव साध्यम् । तत इति ॥ सामान्यलक्षणप्रत्यासत्तेस्तैरनभ्युपगमान्नात्मत्वेनापि तदुपस्थितिरिति भावः॥ प्रकाशिका । त्वात् । न चैवं शुद्धरूपाभावप्रतीत्यापत्तिः कारणवाधाभावादिति वाच्यम्। शुद्धरूपविशिष्टघटप्रतीत्याप- त्तेस्त्वयापि समधेयत्वात् । न च विशिष्टधीसामग्री शुद्धव्यक्तिविशेषणज्ञानाजनिकेति तत्र समाधि- रिति वाच्यम् । इहाप्यभावज्ञानसामग्री शुद्धप्रतियोगिकाभावज्ञानाजनिकेति समाधेः सत्त्वात्, । ननु तथाप्याहार्यमेव प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानं व्यधिकरणधर्मावच्छिन्नाभावग्रहे कार- णमस्त्विति चेन्न। अनाहार्यस्यैव तस्य कारणत्वादित्यन्यत्र विस्तरः। वस्तुतो विरोधिशून्येऽभावप्रसं- ज्ञायाः पारिभाषिकतापत्तिः, विरोधि च प्रकृते न शृङ्गम्, तस्य तत्समानाधिकरणत्वात्, नापि शशीयत्वविशिष्टं शृङ्गम् । तस्यालीकतया विरोधाप्रतियोगित्वादिति नैतादृग्भावस्वीकार इति ॥ ३ ॥ परेषामिति । सर्वगोचरप्रत्यक्षाभाव एवात्र साध्यः, अन्यथा शब्दे सर्वगोचरज्ञानसत्त्वेन बाधापत्तेः, तथा सति प्रतियोग्यप्रसिद्धिरिति भावः । सामान्यलक्षणेति । इदमुपलक्षणम् । व- मकरन्दः। परेषामिति । यद्यपि शाब्दादिज्ञानमादाय तेषामपि तत्प्रसिद्धिरस्त्येव, तथापि तथा सति