भारतकोश
संग्रह पर लौटें

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

३३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां स्यादेतत् । यद्यपीश्वरो नावगतो, यद्यपि च नाभाससिद्धेन प्रमाणव्यवहारः शक्यसम्पादनः, तथाप्यात्मानः सिद्धास्तेषां सार्वज्ञ्यं निषिध्यते, क्षित्यादिकर्तृत्व- श्चेति। तथाहि। मदितरे न सर्वज्ञाश्चेतनत्वादहमिव, न च ते क्षित्यादिकर्त्तारः पुंस्त्व- त्वादहमिव। एवं, वस्तुत्वादेरपीति। तदेतदपि प्रागेव परिहृतम्। तथाहि— इष्टसिद्धिः प्रसिद्धेऽशे हेत्वसिद्धिरगोचरे ॥ नान्या सामान्यतः सिद्धिर्जातावपि तथैव सा ॥ ४ ॥ प्रमाणप्रतीतानां चेतनानां पक्षीकरणे सिद्धसाधनम्। ततोऽन्येषामसिद्धौ हे- तोराश्रयासिद्धत्वम्। आत्मत्वमात्रेण सोऽपि सिद्ध इति चेत्। कोऽस्यार्थः ?। किं बोधनी । प्रकृतेऽपि प्रमाणसिद्धं निषेधाधिकरणं दर्शयन्नाह । स्यादेतत्-इति । तस्यामेव प्रतिज्ञायां वस्तुत्वद्रव्यत्वादयोऽपि हेतव इत्याह एवम्-इति । यथाहुः— "प्रत्यक्षायविसंवादि प्रमेयंत्वादि यस्य च । अभावकरणे शक्तं को नु तं कथयिष्यति" ( श्लो० वा०, पृ० ८५ )। एतदप्याश्रयासिद्धत्वादिनो दत्तोत्तरमित्याह तदेतत्-इति । तदेव विकल्प्योपपादयति इष्टसिद्धिः-इति । उभयवादिसिद्धेषु पक्षीकृतेषु सिद्धसाधनं तेषाम- सर्वज्ञत्वासर्वकर्तृकत्वयोः अस्माकमपि सिद्धत्वात् भवतामगोचरेऽपीश्वरे पक्षीकृते हेतोराश्रयतोऽसिद्धिः। नन्वात्ममात्रे पक्षीकरणे सोऽपि तत्तया गृहीत इत्यस्ति सामान्यतः सिद्धिरित्यत उक्तम् नान्या सामान्यतः सिद्धिः-इति । उभयसिद्धयनुभयसिद्धिभ्यामन्यतः सिद्धिर्नाम न काचिदस्ति । न ह्युभयीमपि विधामतिक्रम्य विधान्तरमस्ति । आत्मत्वजातावपि पक्षीकृतायां यथेष्टसिद्ध्या पक्षत्वानिपातेनाश्रयासिद्धिः तथा सैवाश्रयासिद्धिः स्यात् । निषेध्यस्य सर्वज्ञत्वादेः क्वचिदप्यसिद्धेरप्रसिद्धविशेषणत्वात्पक्षस्येति व्याचष्टे प्रमाणेन-इति । तृतीयं पादं व्याचिख्यासुः शङ्कते आत्मत्वमात्रेण-इति । विकल्प्य दूषयति कोऽस्यार्थः-इति । भवतोऽसिद्धाप्यस्मदभिमतैव सर्वज्ञसर्वकर्तृव्यक्तिरात्मत्वेनोपलक्षिता किं पक्षीक्रियेत तस्या अप्यात्मत्वो- पलक्षितत्वेन वस्तुगत्या सिद्धत्वात् । अथ तदन्या संप्रतिपन्नैव व्यक्तिः, अथ वात्मत्वमात्रमेव । प्रथमे हेत्वसिद्धिरगोचर इति स्यात् । द्वितीये त्विष्टसिद्धिरिति स्यात् । तृतीयेऽपि सैव, आत्मत्वस्यासर्वज्ञ- प्रकाशः। न सर्वज्ञा इति। परेषां सर्वज्ञाप्रसिद्धेः । अत्र किञ्चिदनभिज्ञत्वमेव साध्यम् । तत इति ॥ सामान्यलक्षणप्रत्यासत्तेस्तैरनभ्युपगमान्नात्मत्वेनापि तदुपस्थितिरिति भावः॥ प्रकाशिका । त्वात् । न चैवं शुद्धरूपाभावप्रतीत्यापत्तिः कारणवाधाभावादिति वाच्यम्। शुद्धरूपविशिष्टघटप्रतीत्याप- त्तेस्त्वयापि समधेयत्वात् । न च विशिष्टधीसामग्री शुद्धव्यक्तिविशेषणज्ञानाजनिकेति तत्र समाधि- रिति वाच्यम् । इहाप्यभावज्ञानसामग्री शुद्धप्रतियोगिकाभावज्ञानाजनिकेति समाधेः सत्त्वात्, । ननु तथाप्याहार्यमेव प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानं व्यधिकरणधर्मावच्छिन्नाभावग्रहे कार- णमस्त्विति चेन्न। अनाहार्यस्यैव तस्य कारणत्वादित्यन्यत्र विस्तरः। वस्तुतो विरोधिशून्येऽभावप्रसं- ज्ञायाः पारिभाषिकतापत्तिः, विरोधि च प्रकृते न शृङ्गम्, तस्य तत्समानाधिकरणत्वात्, नापि शशीयत्वविशिष्टं शृङ्गम् । तस्यालीकतया विरोधाप्रतियोगित्वादिति नैतादृग्भावस्वीकार इति ॥ ३ ॥ परेषामिति । सर्वगोचरप्रत्यक्षाभाव एवात्र साध्यः, अन्यथा शब्दे सर्वगोचरज्ञानसत्त्वेन बाधापत्तेः, तथा सति प्रतियोग्यप्रसिद्धिरिति भावः । सामान्यलक्षणेति । इदमुपलक्षणम् । व- मकरन्दः। परेषामिति । यद्यपि शाब्दादिज्ञानमादाय तेषामपि तत्प्रसिद्धिरस्त्येव, तथापि तथा सति

तृतीयस्तबके ] अनुपलब्धेर्बाधकत्वनिराकरणम् । ३३५ मात्मत्वेनोपलक्षिता सैव वस्तुगत्या सर्वज्ञविश्वकर्तृव्यक्तिः, अथ तदन्या, आत्मत्व- मेव वा पक्षः ? । सर्वत्र पूर्वदोषानतिवृत्तेः । अथायमाशयः । आत्मत्वं न सर्वज्ञसर्व- कर्तृव्यक्तिसमवेतं, जातित्वात्, गोत्ववदिति । तदसत् । निषेध्यासिद्धेर्निषे- ध्याशक्यत्वात् । तथा चाऽप्रसिद्धविशेषणः पक्ष इत्याश्रयासिद्धिरिति स एव दोषः ॥ ४ ॥ त्वदभ्युपगमैर्लोकप्रसिद्धया च प्रसिद्धस्येनेश्वरस्यासर्वज्ञत्वमकर्तृत्वञ्च साध्यते इति चेन्न । आगमादेः प्रमाणत्वे बाधनादानिषेधनम् ॥ आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता ॥ ५ ॥ बोधनी । त्यासर्वकर्तृकत्वयोः सिद्धत्वादिति । तुरीयपक्षव्यानिख्यासया शङ्कते अथायम्-इति । तन्नाश्रयासि- द्धिसिद्धसाध्यते न स्यातामिति भावः । तदसत्-इति । न हि मीमांसकस्य सर्वज्ञादिधर्मी प्रसिद्ध- द्धमिति । कियतोऽनुमानस्येत्यत आह तथा च-इति । साध्यविशिष्टस्य पक्षत्वाद् विशेषाप्रसिद्धावपि विशेषाप्रसिद्धानपि विशिष्टस्यासिद्धेराश्रयस्य पक्षस्याभावेन हेतोराश्रयासिद्धिरो भवतीति ॥ ४ ॥ त्वदभ्युपगमैः-इति । नैयायिकाम्युपगमैर्लोकप्रसिद्धया चाश्रयः सेत्स्यतीति । न-इति । किमाश्रयग्राहकोऽयमागम(दिः प्रमाणमाभासो वा ? प्रमाणत्वे तत एव धर्मिग्राहकमप्रमाणात् बाधितवि- षयं निषेधायुमानमात्मानमेव नासादयेत् । आभासे तु पूर्वोक्तैवाश्रयासिद्धिरागमदिपाङ्गाणोपङ्गारेण तिरोभूता तत्परित्यागे पुनरुद्भूता स्यादिति । प्रकाशः । सर्वज्ञेति ॥ आत्मत्वपक्षेऽप्यसर्वज्ञत्वे शित्वाद्यकर्तृकत्वे च साध्ये सिद्धसाधनमित्यर्थः । न चात्मत्व- मसर्वज्ञत्वव्याप्यं ज्ञानत्वमप्रानित्यत्वव्याप्यमिति वाच्यम् । विपक्षे बाधकाभावात् । अन्यथा, मूर्त्तत्वम- प्यणित्वव्याप्यमिति परमाणुरपि न सिद्ध्येदिति भावः ॥ तथा चेति ॥ जिज्ञासितधर्मिणो धर्मिणः पक्षत्वात्तदभावेनाश्रयासिद्धिरित्यर्थः ॥ ४ ॥ आगमादेरिति ॥ न चाऽऽगमादेर्धर्म्यंशे प्रामाण्येऽपि अन्यांशे न प्रामाण्यमिति वाच्यम् । तद्रूपेणाप्यस्मदादितदन्यपक्षत्वे सिद्धससिद्धिन्यायपातादिति भावः ॥ ५ ॥ प्रकाशिका । स्तुतस्त्वत्रापि तदुपस्थितौ तस्य सर्वज्ञत्वे बाधः, 'असर्वज्ञत्वे सिद्धसाधनमिति दूषणं द्रष्टव्यम् । जिज्ञा- सितेति प्राचीनमतेनेदम् ॥ ४ ॥ तद्रूपेणापीति । सर्वज्ञत्वादिधर्मांशेऽप्रामाण्येऽपि धर्मिणः सर्वज्ञस्य सिद्धिरसर्वज्ञस्य वा, मकरन्दः । व्यापारेत्तः, सर्वज्ञपदस्य सर्वविषयकप्रत्यक्षाश्रयपरतायामेव प्रसिद्धिरोच्या । जिज्ञासितेति । प्रा- चीनमतेनेदम् ॥ ४ ॥ तद्रूपेणेति । यद्यपि धर्मिमात्रसिद्धौ न सिद्धयसिद्धिव्यापातः, तथाप्याप्तोक्तताविशेषाद्- टिप्पणी । तद्रूपेणेति । आगमसिद्धधर्मिमात्ररूपेणेत्यर्थः । अभेदे तृतीया । यद्वा तद्रूपेणात्मत्वरूपेणा- स्मदाद्यसमदाद्यन्यपक्षत्य इत्यर्थः । आगमस्य प्रामाण्येऽलौकिकधर्मिण्यो लौकिकधर्मेऽपि तत्

३३४ व्याख्यात्रयोपेतप्रकाशबोधनयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां निगदव्याख्यातमेतत् ॥ ५ ॥ चार्वाकस्त्वाह, किं योग्यताविशेषाग्रहेण ? । यन्नोपलभ्यते तन्नास्ति, विपरीत- मस्ति । न चेश्वरादयस्तथा । ततो न सन्तीत्येतदेव ज्यायः । एवमनुमानादिविलोप इति चेत् । नेदम्‌ अनिष्टम् । तथा च लोकव्यवहारोच्छेद इति चेन्न । सम्भावनामात्रेण तत्सिद्धेः । संवादेन च प्रामाण्याभिमानादिति । अत्रोच्यते— दृष्ट्यदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् ॥ अदृष्टिबाधिते हेतौ प्रत्यक्षपि दुर्लभम् ॥ ६ ॥ सम्भावना हि सन्देह एव । तस्माच्च व्यवहारस्तस्मिन् सति स्यात् । स एव बोधनी । संग्रहस्याविवरणे कारणमाह—निगद-इति । निगदः पाठः, स एव व्याख्यानमस्येति ॥ ५ ॥ तदेवमनुपलब्धिमात्रं न बाधकं योग्यानुपलब्धिस्तु नास्तीति मीमांसके निरस्ते परमनास्तिकः चार्वाकः प्रत्यवतिष्ठत इत्याह—चार्वाकस्तु-इति । सिद्धान्ती शङ्कते एवम्-इति । इतर आह नेदम्- इति । प्रत्यक्षैकप्रमाणवादिनो हि वयमिति । तथा च-इति । प्रायशो व्यवहाराणामनुमानाधीनत्वादिति । न-इति । धूमादिदर्शनेऽग्निसंभावनामात्रेण व्यवहरन्ति न तु निश्चयात्, अतो न तदर्थमनुमानप्रा- माण्यमङ्गीकर्त्तव्यमिति । कथं तर्हि व्यवहर्तॄणां प्रमाणमूलोऽयं व्यवहार इत्यभिमान इत्यत्राह संवा- देन च-इति । संभावनामात्रेण प्रवर्त्तमाना यादृच्छिककार्यसंवादेन प्रवर्त्तकविज्ञानस्य प्रामाण्यमभि- मन्यन्ते न तु निश्चायकत्वादिति । अत्रोच्यते—इति । संदेहात् प्रवृत्तिरिति तावन्न संभवति, भवत्पक्षे संदेहस्यैवासंभवात् । दृष्टौ सत्यामदृष्टौ वा सत्यां क्व कस्मिन्विषये दृष्टेऽदृष्टे वा, संदेहः स्यादुभयोरप्युभयत्रापि न संभवति । संशयस्य हेतुर्विषयश्च नास्तीत्यर्थः । कुतः भावाभावनिश्चयात् दृष्टादृष्टयोरित्येव दर्शनदशायां भावा- वधारणादर्शनदशायां वाऽभावावधारणात् अतो व्यवहारार्थमनुमानादिकमेवाङ्गीकरणीयं, तच्चानुप- लम्भमात्रेणाभावनिश्चये दुर्लभम् । न केवलम् अनुमानादिकमेव, प्रत्यक्षपि तद्धेतौ चक्षुरादावनुपल- ब्धिमात्रेण बाधिते कारणाभावात् कार्याभाव इति न्यायेन दुर्लभमिति सर्वोपप्लव इति । ननु मा नाम भूत्संदेहः संभावनया व्यवहारमभ्युपगच्छतः किमायातमिति शङ्कामपनुदन्व्याचष्टे प्रकाशः । सम्भावनेति ॥ उत्कटकोटिकसंशयमात्रेणेत्यर्थः ॥ दृष्ट्यदृष्टयोरिति, सप्तमीद्विवचनान्तम् । दर्शने तत्सत्त्वनिश्चयाद् अदर्शने चाभावनिश्चयान्न सन्देहः प्रत्यक्षहेतौ गोलकादावदृष्ट्या अनुपलब्ध्या, बाधिते हेत्वभावात् प्रत्यक्षपि न स्यादित्यर्थः ॥ प्रकाशिका । असिद्धिरेव वा, आद्ये बाधो, द्वितीये सिद्धसानम्, तृतीय आश्रयासिद्धिरित्यर्थः । वस्तुत आप्तोक्त- त्वादेर्धर्म्म्यंशवद् धर्म्मांशेऽपि तस्य प्रामाण्यमिति भावः ॥ ५ ॥ मकरन्दः । र्म्मांशेऽपि प्रामाण्यमन्यथा न धर्म्म्यंशेऽपीत्याश्रयासिद्धिरेवेति भावः । अस्मदादिपक्षत्वे सिद्धसा- धनं बोध्यम् ॥ ५ ॥ टिप्पणी । स्यादिति सर्वज्ञत्वाभावसाधने व्याघातः, धर्म्यंशेऽप्रामाण्ये धर्मांशे तत्स्यादिति धर्मसिद्धौ व्याघात इति भावः ॥ ५ ॥

तु कुतः ? । दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावावधारणात् । तथा च गृहाद् बहिर्गतश्चार्वाको वराको न निवर्त्तेत । प्रत्युत, पुत्रदारधनाद्यभावावधार- णात् सोरस्ताडं शोकविकलो विक्रोशेत् । स्मरणानुभवान्नैवमिति चेन्न । प्रतियोगि- स्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति । सत्त्वादिति चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् । तदैवोत्पन्ना इति चेन्न । अनुपलभ्भेन हेतूनां बाधात् । अबाधे वा स एव दोषः । अत एव प्रत्य- क्षमपि न स्यात्, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् । उपलभ्यन्त एव

बोधनी । संभावना हि-इति । ततः किमित्यत आह तथा च-इति । गृहान्तर्वर्त्तिनोऽपि निर्गतस्याभावाव- धारणात् विलीयेयुरिति भावः । स्मरण-इति । बहिर्निर्गतेनापि पुत्रादीनां स्मरणेनोपलम्भात् नोक्तः प्रसङ्ग इति । न-इति । प्रतियोगिस्मरणसहकृतस्यैवानुपलम्भस्याभावविशेषपरिच्छेदहेतुत्वान्न स्मरणो- पलम्भो न केवलमभावपरिच्छेदं प्रतिबध्नाति प्रत्युतोन्मूलातीति यदृच्छया परावृत्तोऽपि न पुनः पुत्रादीनासादयेदित्याह परावृत्तोऽपि-इति । तेऽपि नासादयेयुरिति भावः । ननु परावृत्तिकाले तेषां सत्त्वादासादयिष्यन्तीत्याह सत्त्वात्-इति । अनुपलम्भकाल इति स्पष्टः परिहारः नानुपलम्भकाले- ऽपि सन्तः पुत्रादयः पुनरासाद्यन्ते । किन्तु यदोपलभ्यन्ते तदैवोत्पन्ना अन्य एवेत्याह तदैव-इति । न-इति । तदुत्पत्तिहेतूनां तदानीमनुपलम्भेन बाधितत्वात्तदुत्पत्तेरसम्भवाददुनुपलम्भेऽपि वा तेषामबाधे स एवानुपलम्भमात्रेण नाभावावधारणमिति दोषः स्यादिति संग्रहस्योत्तरमर्धं व्याचष्टे अत एव- इति । यत एवानुपलम्भमात्रेणासत्त्वाङ्गीकार इति । उपलभ्यन्ते-इति । स्पष्टम् । तन्मतमङ्गीकृत्यै-

प्रकाशः । तथा चेति ॥ पुत्रादिभिस्तस्यादर्शनात् स न स्यादिति गृहं न प्रत्यावर्त्तेतेत्यर्थः ॥ प्रत्युतेति ॥ पुत्रादेरदर्शनादित्यर्थः ॥ ननु नाप्रत्यक्षं प्रमाणमिति चार्वाकसिद्धान्तादनुपलब्धिः प्रत्यक्षसहकारिणी । न च गेहाद्बहिर्ग- मनेऽधिकरणेन सहेन्द्रियसन्निकर्षोऽस्तीति न पुत्राद्यभावनिश्चयः स्यात् । सन्निकृष्टे देशे चाभाव- निश्चयेऽपि ध्वंसानिश्चयान्न शोकः स्यात् । अत एव, पर्वते परभागेन सह इन्द्रियाऽसन्निकर्षाद् वह्न्यभावनिश्चय इति तत्र संशयादनुमानप्रवृत्तिः । अत्राहूः । अधिकरणज्ञानमात्रमभावधीहेतुर्न तु तदिन्द्रियसन्निकर्षोऽपि । अत एव, देवताद्यभावस्तदधिकरणसन्निकर्षेऽपि गृह्यते इति चार्वाक- सिद्धान्तमाश्रित्योक्तम् ॥ पुत्रादेः स्मरणान्नैवं करोतीत्याह ॥ २॥ स्मरणेति ॥ स्मरणादिति वक्तव्ये अनुभवग्रहणं तत्र प्रमाणसूचनार्थम् । पुत्रादिस्मरणं तदभावग्रहेऽनुकूलमेव, प्रतियोगिज्ञानं विना तदग्रहादित्याह ॥ प्रतियोगीति ॥ अनुपलम्भकाले इति ॥ तथा चानुपलब्धिमात्रमभावसंशये हेतुर्न तन्निश्चा- यकमित्यर्थः । हेतूनां पुत्राद्युत्पादकानामित्यर्थः ॥ स एवेति ॥ नानुपरूब्धिमात्रेणाभावनिश्चय इत्यर्थः ॥ अत एवेति ॥ हेतूनां बाधादेवेत्यर्थः । ननु चक्षुरादीनामपि स्वोपलब्धिक।ले सत्त्व-

प्रकाशिका । सप्तमोति । सति सप्तमीत्यर्थः । संशयादनुमानप्रवृत्तिरिति । भवतां नैयायिकानामिति

टिप्पणी । अनुमानप्रवृत्तिरिति । परैरभ्युपगतानुमानजन्यप्रवृत्तिः ।

३३६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ६ कारिकाव्याख्यायां गोलकादय इति चेन्न । तदुपलब्धेः पूर्वं तेषामनुपलम्भात् । न च यौगपद्यनियमः । कार्यकारणभावादिति ॥ एतेन, न परमाणवः सन्ति अनुपलब्धेः । न ते नित्या निरवयवा वा पार्थिव- त्वात् घटादिवत् । न पाथसीयपरमाणुरूपादयो नित्याः, रूपादित्वात्, दृश्यमानरू- पादिवत् । न रूपत्वपार्थिवत्त्वादि नित्याकार्यातीन्द्रियसमवायि जातित्वात् शृङ्ग- त्ववत् । नेन्द्रियाणि सन्ति, योग्यानुपलब्धेः । अयोग्यानि च शशशृङ्गप्रतिबन्दिनि- रसनीयानीत्येवं स्वर्गापूर्वदेवतानिराकरणं नास्तिकानां निरसनीयम् । मीमांसकश्च तोषयितव्यो भीषयितव्यश्चेति ॥ ६ ॥ यद्येवमनुपलम्भेनादृश्यप्रतिषेधो नेष्यते, अनुपलभ्योपाधिप्रतिषेधोऽपि तर्हि बोधनी । वाह न-इति । गोलकादयः स्वोपलब्धेः पूर्वमनुपलम्भेनासन्तः कथं स्वस्वविषयोपलब्धिमुत्पादयेयु- रिति । तर्हि स्वोपलम्भकाल एव सन्तः स्वविषयोपलम्भान्तरमारभेरन्नित्यत्राह न च-इति । न हि चक्षुरादीनां स्वविषयोपलम्भस्य च कार्यकारणभावायौगपद्यं भवतीति । एवं तावदनुपलम्भमात्रेण ईश्वरनिषेधोऽशक्य इत्युक्तम्, इदानीमनेनैव मार्गेण तेषां परमाण्वा- दिनियमोऽपि न सिध्यतीत्याह एतेन-इति । एतेन निरसनीयमिति संबन्धः । तत्र परमाणूनां पर- मेश्वरस्येव योग्यानुपलम्भाभावेन प्रत्यक्षेण बाधः, तत्सर्वज्ञत्वसर्वकर्तृत्वयोरिव तेषां नित्यत्वनिरवयव- त्वयोर्निषेधे धर्मिग्राहकप्रमाणबाधः । तज्ज्ञानं पक्षीकृत्य सर्वविषयत्वनिषेधवत् पाथःपरमाणुगतरूपा- दिविशेषगुणानां नित्यत्वनिषेधे चाश्रयासिद्धिः, आत्मत्वं पक्षयित्वा तस्य सर्वज्ञसर्वकर्तृव्यक्तिसमवाय- निषेधवद्रूपत्वादेरतीन्द्रियाश्रयत्वनिषेधे चाप्रसिद्धविशेषणः पक्षः, इन्द्रियासत्त्वहेतोर्योग्यानुपलम्भस्य विशेषणासिद्धिः । यद्ययोग्यानीन्द्रियाणि सन्ति तर्हि शशशृङ्गमप्ययोग्यमस्ति चेति प्रतिबन्दिग्रहणेने- मानि निरसनीयानि इत्येतदपि परमात्मयोग्यत्वप्रतिपादनेन निरसनीयम् । तथा स्वर्गादिनिराकरण- मपि निरसनीयम् । स्वर्गादिनिराकरणप्रदर्शनेन मीमांसको भीषयितव्यः, तन्निषेधं दर्शयित्वा च परितोषयितव्यः । यद्वा, ईश्वरनिराकरणनिषेधेन तस्य भीषणमितरनिराकरणनिषेधेन तोषणमिति ॥ ६॥ चार्वाकः सिद्धान्तिनं प्रत्याह यद्येवम्-इति । मा भूत्प्रत्यक्षानुपलभ्यपिशाचाद्युपाधिनिषेधः, ततः प्रकाशः । मन्यदा त्वसत्त्वमिष्यत एवेत्यत आह । न चेति । उपलम्भेन्द्रिययोर्युगपदुत्पत्तयोः पौर्वापर्या- भावादित्यर्थः । एतेनेति ॥ अनुपलब्धमात्रस्याऽसाधकत्वेन हेत्वन्तरस्य चाश्रयासिद्ध्यादिनेत्यर्थः॥ मीमांसकश्चेति । अनुपलब्धमात्रस्याभावासाधकत्वादपूर्वादिसिद्ध्या तोषणम् । योग्यानु- पलम्भस्य बाधकत्वेनाऽयोग्यपरमात्माऽबाध इति भीषणम् ॥ ६ ॥ यद्यनुपलम्भमात्रान्नाभावनिश्चयः, तदाऽतीन्द्रियोपाधिशङ्कया व्याप्तिनिश्चयान्नानुमानमिति न तत- ईश्वरसिद्धिरित्याह— यद्येवमिति । अनुमानाभावे तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमित्याह । प्रकाशिका । शेषः । मम तु चार्वाकस्यात एव तत्र संशय इति भावः । उपलम्भेन्द्रिययोरिति । प्रत्यक्षज्ञानस्य विषयजन्यत्वात्तदन्यज्ञानस्य च त्वयानभ्युपगमादिति भावः ॥ ६ ॥ मकरन्दः । उपलम्भेन्द्रिययोरिति । प्रत्यक्षस्य विषयजन्यत्वनियमात्तदन्यज्ञानस्य त्वयानभ्युगमादिति भावः ॥ ६ ॥ टिप्पणी । अयोग्यपरमात्माऽबाध इति भीषणमिति । ईश्वरसिद्धेरीश्वरानङ्गीकर्तुस्तस्य भयम् ॥ ६ ॥ तद्ग्राह्यप्रामाण्यं शब्दाद्यपि न तत्र मानमिति । अनुपलभ्यमानार्थे ॥

·तृतीयस्तवके ] अनुमानाप्रामाण्याशङ्कोपपादनम्। ३३७ नैपुण्यः। तथा च कथं तथाभूतार्थसिद्धिरपि अनुमानबीजप्रतिबन्धासिद्धेः । तद- भावे शब्दादेरप्यभावः । प्रामाण्यासिद्धेः । सेयमुभयतःपाशा रज्जुः ॥ अत्र कश्चिदाह । मा भूदुपाधिविधूननं, चतुःपञ्चरूपसम्पत्तिमात्रेणैव प्रतिबन्ध- निर्वाहात्। तस्याश्च सपक्षासपक्षदर्शनादर्शनमात्रप्रमाणकत्वात्। यत्र तु तद्भङ्गः, तत्र प्रमाणभङ्गो ऽप्यावश्यकः। न ह्यस्ति सम्भवो दर्शनादर्शनयोर्विप्लवे हेतुरूपप्लवत इति । अप्रयोजकोऽपि तर्हि हेतुः स्यादिति चेत्, भूयोदर्शनाविप्लवे कोऽयमप्रयो- जको नाम ? । न तावत् साध्यं प्रत्यकार्यमकारणं वा । सामान्यतो दृष्टानुमानस्वी- कारात् । नापि सामग्र्यां कारणैकदेशः। पूर्ववद्भवदुपगमात् । नापि व्यभिचारी । तदनुपलम्भात् । व्यभिचारोपलम्भे वा स एव दोषः। न च शङ्कितव्यभिचारः । बोधनी । किमित्यत्राह तथा च-इति । तथाभूतस्य = यथाज्ञानमवस्थितस्य । यद्वा, अनुमित्सितस्य । यद्वा अनुमित्सितस्य जगत्कर्तुरिति । कथमसिद्धिरित्यत्राह अनुमान-इति । निरुपाधिको हि संबन्धः प्रतिबन्ध इति । अनुमानाभावे शब्दादेरपि प्रमाणस्याभाव इत्याह तदभावे-इति । प्रामाण्यग्राहि- णस्तज्जातीयानुमानादेरपि प्रामाण्याभावापराधेन शब्दादिप्रामाण्यासिद्धेरिति । एवं चानुपलम्भ- मात्रस्यानिषेधकत्वेऽनुमानायुच्छेदादीश्वरो न सिध्येत्, निषेधकत्वे तु तत एव निषिध्येतेति । सेयं शिरोद्वयेऽपि पाशवती रज्जुरित्याह सेयम्-इति । अत्रैकदेशिनः परिहारं दूषयितुमुपन्यस्यति अत्र कश्चित्-इति । किमनेनोपाधिविधूननव्यस- नेन केवलान्वयिकेवलव्यतिरेकिणोश्च रूपसंपत्तिमात्रेण प्रतिबन्धसिद्धेर्न हि तयोर्विपक्षसपक्षाभावेन तद्व्यावृत्त्यनुवृत्ती संभवतः । अन्वयव्यतिरेकिणस्तु पञ्चरूपसंपत्तिमात्रेण तस्य सपक्षविपक्षयोरखिल तदनुवृत्तिव्यावृत्त्योः संभवादिति । न च रूपसंपत्त्यवधारणेऽप्युपाधिविधूननमुपयुज्यत इत्याह तस्या- श्च-इति । कथं तत्प्रमाणकत्वं तस्या इत्यत्राह यत्र तु-इति । तयोर्भङ्गे प्रमाणभङ्गस्यावश्यकत्वादि- ति । कस्मादेवमित्यत्राह न हि-इति । हेतोर्धतुःपञ्चानां रूपाणां विप्लवो हेतुरूपप्लवः । प्रमाणवि- प्लवाविप्लवयोर्र्हि प्रमेयविप्लवाविप्लवौ भवत इति भावः । यदि दर्शनादर्शनाभ्यामेव प्रतिबन्धसि- द्धिस्तर्हि मैत्रैीतनयत्वादिरपि हेतुः स्यादित्याह अप्रयोजकः-इति । तयोरविप्लवे तु नाप्रयोजको नाम कश्चिदस्तीत्याह भूयोदर्शन-इति । स एवाप्रयोजकत्वेन संभावितानाशङ्कय निराकरोति न तावत्-इति । अनुमानसूत्रे पूर्ववच्छेषवदिति कार्यकारणानुमाने परिगृह्य सामान्यतो दृष्टमित्य- कार्याकारणभूतस्य सलिलादिविषयवलाकाद्यनुमानस्यापि स्वीकारादिति । नापि-इति । सामग्री कार्यलिङ्गं तदेकदेशोऽप्रयोजकः स्यादित्यपि न युक्तम् । पूर्वं = कारणं यस्यास्ति लिङ्गत्वेन तत्पूर्वव- दिति । पूर्ववतोऽपि तत्र सूत्रेऽनुमानत्वेन स्वीकारादिति । नापि व्यभिचारी-इति । न हि मैत्री- तनयत्वादेर्व्यभिचार उपलभ्यते तदुपलम्भे वा व्यभिचार एव दोषः स्यान्नाप्रयोजकत्वमिति । न च- प्रकाशः । तदभाव इति । चतुःपञ्चेति । पक्षसत्त्वसपक्षसत्त्वाबाधितत्वासत्प्रतिपक्षितानि चत्वारि रूपाणि केव- लान्वयिनि, सपक्षसत्त्वाभावे विपक्षासत्त्वं केवलव्यतिरेकिणि, उभयन्तु रूपमन्वयव्यतिरेकिणीति तत्र पञ्चरूपाणि । तद्भङ्ग इति । यत्र उक्तरूपसम्पत्तिभङ्गस्तत्र दर्शनादर्शनात्मकप्रमाणभङ्गोऽप्यावश्यकः, अन्यथा तयोर्निर्विषयतापात इत्यर्थः । सामान्यत इति । रूपरसोयोरकार्यकारणभूतयोरपि व्या- प्त्यभ्युपगमादित्यर्थः । पूर्ववदिति । पूर्वं कारणं तद्यस्यास्ति विषयतया लिङ्गज्ञानस्य, तत्तथा । ४३ न्या० कु०

३३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां निर्बीजशङ्कायाः सर्वत्र सुलभत्वात्। नापि व्याप्यान्तरसहवृत्तिः। एकत्रोपि साध्ये- ऽनेकसाधनोपगमात्। नाप्यल्पविषयः, धूमादेस्तथाभावेऽपि हेतुत्वात्। ननु धूमो वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्द्रन्धनवन्तं वह्निविशेषं प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्ययुक्तम्। सामान्याप्रयोजक तायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धिनियमात्। सिद्धौ वा सामान्य- विशेषाभावानुपपत्तेः। नापि क्लृप्तसामर्थ्येऽन्यस्मिन् कल्पनीयसामर्थ्योऽप्रयोजकः, नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति ॥ बोधनी । इति। तथा च सर्वोऽपि हेतुरप्रयोजकः स्यादिति। नापि व्याप्यान्तर-इति। स्पष्टम्। नाप्यल्पविषय-इति। न हि धूमादिः सपक्षव्यापक इति। स एव तत्र किंचिदाशङ्क्य निराकरोति ननु-इति। न हि धूमः स्वनिवृत्तावप्यनिवर्त्तमाने वह्नौ प्रयोजको नामेति। कुत्र तर्हि प्रयोजक इत्यत्राह आर्द्रन्धनवन्तम् इति। तस्यैव वह्निविशेषस्यैवेति। कुतो युक्तमित्यत्राह सामान्य- इति। न हि संभवति वह्निविशेषं साधयति न तु सामान्यमिति सामान्यासिद्धौ विशेषस्यासिद्धेर्निय- तत्वात्। यदि वा तदापि विशेषः सिध्येन्न तर्हि सामान्यविशेषाभावः स्यात्, न हि तस्मिन्नसिद्धेऽपि सिध्यतस्तद्विशेषकत्वमिति। सकलसपक्षवर्त्तिनि हेत्वन्तरे सत्येकदेशवृत्तिरप्रयोजको यथा निषिद्धत्वे सति हिंसात्वम्। निषिद्धत्वं हि सकलभक्षणादेरप्यधर्मत्वसिद्धयर्थं क्लृप्तसामर्थ्यमिति। तदेव सर्वत्राधर्मत्वे प्रयोजकं हिंसात्वं च नैवंविधमप्रयोजकमित्याशङ्क्याह नापि क्लृप्त-इति। प्रकाशः। कारणैकदेशस्यापि तदितराशेषकारणव्याप्यस्यान्यतन्तुसंयोगादेः पटादौ लिङ्गत्वाङ्गीकारादित्यर्थः। निर्बीजेति। साध्याभावसहचारदर्शनस्य शङ्काबीजस्याभावात्, भावे वा व्यभिचार एव स्फुटो दोष इत्युक्तमित्यर्थः। अल्पविषय इति। व्यापकवनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः। तन्निवृत्ता- विति। धूमनिवृत्तावपि वह्नयनिवृत्तेरित्यर्थः। तस्यैवेति। आर्द्रन्धनप्रभववह्नेरित्यर्थः। सामा- न्येति। वह्निसामान्याव्याप्यत्वे तद्विशेषव्याप्यतैव न स्यात्, सामान्यस्य विशेषव्यापकत्वादित्यर्थः। तथा च, विशेषव्याप्यत्वे सामान्यव्याप्यत्वं ध्रुवमिति भावः। नाश इति। गुणादिनाशे भावकार्य- त्वस्य प्रयोजकत्वे क्लृप्तेऽपि द्रव्यनाशे तद्व्याप्यसावयवत्वस्यापि तत्त्वाङ्गीकारादित्यर्थः। प्रकाशिका। ननु कारणं व्यापकं तत्कथं व्याप्ये लिङ्गमत्त आह। कारणैकदेशस्यापीति। साध्या- भावसहचारदर्शनस्येति। यद्यपि साध्याभावसहचारो व्यभिचार एवेति तद्दर्शनं न तत्तच्छङ्का- बीजम्। तथाप्युपाधिशङ्काबीजं तत्, उपाधेर्व्याप्त्यभावात्मकत्वादिति मन्तव्यम्। ध्वंसेऽतिप्रसक्तं- कार्यत्वमिति भावपदेन पूरयित्वा व्याचष्टे। भावकार्यत्वस्येति। यद्यपि कल्पनायां पौर्वापर्य्यनियमे मकरन्दः। ध्वंसे व्यभिचारेण भावपदमन्तर्भावयति। भावकार्यत्वस्येति। यद्यप्यत्र पौर्वापर्य्यनियमे मानाभावः, तथापि सामान्यविशेषयोः प्रथममुत्सर्गंतः सामान्यस्योपस्थितिरित्याशयेन तथोक्तम्। टिप्पणी। साध्याभावसहचारदर्शनस्य शङ्काबीजस्येति। हेतुतावच्छेदकाश्रये यत्किञ्चिद्धर्मिणि साध्या- भावसहचारग्रहस्य व्यभिचारशङ्काप्रयोजककोटिद्वयसहचरितहेतुतावच्छेदकरूपसाधारणधर्मदर्शनसम्पा- दकतया पक्षदृष्टहेतौ व्यभिचारशङ्काप्रयोजकत्वमिति भावः॥ भावे वा व्यभिचार एवेति। पक्षधर्म्मि- हेत्वसाधारणधर्मेण हेतुत्वस्य सहचारग्रहाभावेनासम्भवात् सामान्यधर्मेणैव हेतुत्वमभ्युपेयं तत्र व्यभि-

४. चतुर्थ स्तबक: ज्ञान-नित्यत्व एवं सर्वज्ञ ईश्वर प्रतिपादन

तृतीयस्तबके ] अनुमानप्रामाण्याशङ्कोपादानम्। ३३६ तदेतदपेशलम्। कथं हि विशेषाभावात् कश्चिद्व्यभिचरति, कश्चिन्न नेति शक्यमवगन्तुम् । अतो निर्णयाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा । एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनो नोपालम्भाय । स्व- भावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिन्न नेति स्वभाव एव विशेष इति चेत् केन चिह्नेन पुनरसौ निर्णय इति निपुणेन भावनीयम् । भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् । यत्र भङ्गो न दृश्यते तत्र तत् तथेति चेत् । आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न दृश्यते इति को नियन्तेति । तस्मादुपा- धितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनं, तदवधारणाञ्चाशक्यमिति ॥ बोधनी। अत्र सामर्थ्यं व्याप्तिस्तस्या अनुमितिज्ञानोत्पादने लिङ्गसहकारित्वादिति तदेकदेशिमंतं पूर्वपक्षी दूषयति—तदेतत् इति । किमुपाधिविधूननेन भूयःसाहचर्यदर्शने सति कोऽयमप्रयोजको नामेत्येत- दशोभनं शङ्कितव्यभिचारस्याप्रयोजकत्वादुपाधिविधूननायत्तत्वाच्च शङ्कानिरासस्येति भावः । तदेवोप- पादयति—कथं हि इति । निश्चितोऽव्यभिचारो हि हेतुर्गमकः, अन्यथातिप्रसङ्गात् । तन्निश्चयश्च न साहचर्यमात्रात्सिध्यति भूयःसहचरितानामपि क्वचिद् व्यभिचारदर्शनात्, तस्माद् व्यभिचार्याव्यभिचा- रिणोः साहचर्ये विशेषाभावात्तन्मात्रेणाव्यभिचारनिश्चयानुपपत्तेर्व्यभिचारशङ्कानिरसनहेतुः कश्चिदन्वेष्ट- व्यः, स चोपाधिविधूननमेवेति भावः । तत्र यदुक्तं निर्बीजशङ्का न युक्तेति तदप्यत एव निरस्तमि- त्याह—अत इति । निर्णायकविशेषादर्शने सति साहचर्यमेव व्यभिचार्यव्यभिचारिणोः साधारणधर्म- त्वात्संशयहेतुर्भवतीति । एवं च यदि भूयोदर्शने सत्यपि शङ्का स्यात् सर्वत्रापि सा स्यादित्येकदेशिना चार्वाकं प्रत्यापादिताऽतिप्रसक्तिरनुमानप्रामाण्यमनिच्छतस्तस्य नोपालम्भाय भवति प्रत्युत नन्दना- येत्याह—एवं सति इति । यद्वा, अनुमानमिच्छतः सिद्धान्तिनो नोपालम्भाय तस्योपाधिविधूननेन शङ्कानिवारणाभ्युपगमादिति । एकदेश्याह—स्वभावादेव इति । तेनाव्यभिचारः स्वभावमात्राधीनः न तु तदर्थमन्योऽन्वेष्टव्य इति । इतर आह—केन इति । सत्यमेवं, स तु स्वभावो निर्णीत एव व्यभिचारशङ्कां निवर्तयतीति तन्निर्णयार्थमन्योऽन्वेष्टव्य इति । तर्हि भूयोदर्शनमेवास्तु निर्णायक- मित्यत्राह—भूयोदर्शनस्य इति । शङ्काया एव बीजमेतदित्युक्तमिति भावः । यत्र इति । तद् = अदृष्टभङ्गम् । तथा अव्यभिचारस्वभावम्—इति । आपाततः इति । सर्वत्र सर्वदा व्यभिचारो न भूयोदर्शनमात्रात्सिध्यतीति तत एवं वक्तव्यमित्याह—तस्मात् इति । तर्ह्यनुपलम्भे नोपाधिविर- होऽवधार्यत इत्यत्राह—तदवधारणम् इति । अनुपलब्भमात्रस्य निषेधकत्वाभ्युपगमादिति । प्रकाशः । कथं हीति । सहचारदर्शनस्य व्यभिचार्यव्यभिचारिसाधारणत्वात्तदेव विशेषादर्शनसहकृतं व्यभिचारशङ्काबीजमित्यर्थः । एवं सतीति । "अवश्यं शङ्कया भाव्यं नियामकम्पश्यताम्"* इति चार्वाकोक्तातिप्रसक्तिर्नोपालम्भाय, शङ्काबीजस्य सहचारदर्शनस्य सत्त्वादित्यर्थः । यथा किञ्चित् कस्यचित् कार्यं कारणं चेत्यत्र स्वभाव एव नियामकः, तथा किञ्चित् कस्यचिद्व्याप्यं व्या- पकं चेत्यत्रीत्याह । स्वभावादेवेति । स स्वभावविशेष एव कुतोऽवधार्य इत्याह । केनेति । भूयोदर्शनस्येति । पार्थिवत्वलोहलेख्यत्वयोरपि व्यभिचारदर्शनादित्यर्थः । अनन्यगतिकतयोपा- धिविरह एव तदुपायः । स च दुरवधारण इत्याह । तस्मादिति । प्रकाशिका । मानाभावः, तथापि गुणादिसाधारण्यार्थमवश्यक्लपनीयमेवात्र क्लृप्तत्वम् । सहचारदर्शनेति । मकरन्दः । सहचारदर्शनस्येति । शङ्कितव्यभिचार एवाप्रयोजक इति भावः । स उपाध्यभावः। नन्वनौ-

३४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां

ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मदादिभिर्यदृच्छया नोपलभ्यते नासौ तद्वान् । यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेन्न । अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् । “सर्वादृष्टेश्च सन्देहात् स्वादृष्टेर्व्य- भिचारतः” सर्वदृष्टेरसिद्धेः । तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये ।

बोधनी । बोधनी । तर्ह्यनुमानान्निश्चेष्यत इत्याह—ननु इति । वह्नौ=वह्निसंबन्ध इति । न इति । अस्याप्यनु- मानस्योपाध्यभावनिश्चयायानुमानान्तरापेक्षायां तस्य तस्यापीत्यनवस्थेति । किं च, सर्वैः सर्वदोपाधिम- तया धूमस्यानुपलम्भो नासर्वज्ञेन निश्चेतुं शक्यत इति संदिग्धासिद्धो हेतुरित्याह—सर्वादृष्टेश्च इति । अस्तु तर्हि स्वैनैकेनानुपलम्भो हेतुस्तत्राह—स्वादृष्टेः इति । न ह्येकेन तद्वत्तानुपलम्भस्त- दभावव्याप्त इति सर्वदा स्वादृष्टिरप्यसिद्धेत्याह—सर्वदा इति । असिद्धेः इति । कदाचिदपि न द्रक्ष्यत इति निश्चयासंभवादिति । तदेवमेकदेशिनं निराकृत्य बौद्धमतं दूषयितुमुपन्यस्यति— तादात्म्य इति । यस्य य आत्मा वा यत्कार्यं तयोस्तेनात्मना कारणेनाविनाभावः, अन्यथा तदात्म- कत्वव्याघातात् कार्यकारणभावभङ्गप्रसङ्गाच्च, ततोऽविनाभावनिश्चयार्थमुपाधिविधूननापेक्षेति । यथाह— कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो दर्शनान्न न दर्शनात् । इति ।

प्रकाशः । प्रकाशः । ननु सहचारदर्शनव्यभिचारादर्शने एव व्याप्तिग्राहके । न च तयोर्व्याप्तसाधारण्यम् । उपा- ध्यभावज्ञानस्याप्यव्याप्यसाधारणत्वात् । न च स्वरूपसन्नेव स तद्ग्राहकः व्याप्तिभ्रमानुपपत्तेः । नाऽपि वस्तुगत्या यत्रोपाध्यभावस्तत्र तज्ज्ञानाद्व्याप्तिप्रमाऽन्यत्र तु तद्भ्रम इति वाच्यम् । यत्र वस्तुसती व्याप्तिस्तत्र सहचारदर्शनादेरपि तत्त्वापत्तेः । अत्राहूः । व्यभिचारादर्शनस्य व्याप्तिनिश्चायकत्वे तस्मिन् सति व्याप्तिसन्देहानुपपत्तिः । अनौपाधिकत्वनिश्चये तु न सन्देह इति तदेव व्याप्तिग्राहकम् । किञ्च, यथा व्यभिचारादर्शनाद व्यभिचारनिश्चयः । एवमव्यभिचारादर्शनाद् व्यभिचारनिश्चयोऽपि स्यादविशेषात् । न च भावानुप- लब्धिरभावनिश्चायिका, न त्वभावानुपलब्धिर्भावनिश्चायिकेति वाच्यम् । अव्यभिचारस्यापि भावत्वात् । साधनसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यरूपत्वात् । क्षित्यादि द्विकर्तृकं का- र्यत्वात् पटवदित्यादेरपि गमकत्वापाताद्वा । तदपेक्षायामिति । उपाध्यभावापेक्षायामित्यर्थः । असिद्धेरिति । सर्वदा उपाधिमत्तयाऽनुप- लम्भस्येत्यर्थः । बौद्धोक्तं तद्ग्राहकमाह । तादात्म्येति । विपक्षबाधकश्च क्षणभङ्गप्रस्तावे व्याख्यातम् । प्रत्यक्षा- ऽनुपलम्भावन्वयव्यतिरेकौ । अपि चाग्नीन्धनादिसमवधानेऽप्यन्यस्य पिशाचादेः सन्निधिराराच्छङ्क्य- मानो नाग्नीन्धनादिव्यभिचारिणोऽन्यत्र धूमस्यादर्शनादिति नियतस्य तस्य वाच्यः । स च नेत्याह ।

प्रकाशिका । प्रकाशिका । तथा च शङ्कितव्यभिचार एवाप्रयोजक इति भावः । स्वरूपसन्नेव स इति । उपाध्यभाव इत्यर्थः । सन्दे- ह्यानुपपत्तिरिति । भवति च सत्यपि तस्मिन् कदाचित् सन्देह इति भावः । ननु अनौपाधिक- त्वस्यापि व्याप्तिव्याप्यत्वेनाऽनिश्चये सन्देहो भवेदेव । न चानौपाधिकत्वव्याप्तिपक्ष इदं, तस्य व्याप्ति ग्राहकत्वेनाभिधानादित्यरुचेराह किञ्चेति । अव्यभिचारेति । व्याप्तिनिश्चयवदित्यर्थः । अत एवाग्रे तथैव वक्ष्यति साधनेत्यादि । उपाध्यभावेति उपाध्यभावज्ञानेत्यर्थः । नियतस्येति । अग्नीन्ध-

मकरन्दः । मकरन्दः । पाधिकत्वं व्याप्तिव्याप्यमिति व्याप्यत्वेन तदनिश्चयदशायां तत्सन्देहः स्यादेव, न चानौपा- धिकत्वव्याप्तिमितेनेदं, तस्य व्याप्तिग्राहकत्वेनाभ्युपगमादित्यरुचेराह किञ्चेति । अव्यभिचारेति । व्याप्तिनिश्चय इत्यर्थः । अत एवाग्रे तथैव वक्ष्यति । उपाध्यभावेति । उपा- ध्यभावनिश्चयापेक्षायामित्यर्थः । नियतस्य=अग्नीन्धनादिनियतस्य । तस्य=तादात्म्यादेरित्यर्थः ।

तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४१ तत्र तादात्म्यं विपक्षे बाधकाद्भवति । तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् । न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, आशङ्क्यमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति । न । एवमप्युभयगामिनोऽव्य- भिचारनिबन्धनस्यैकस्याऽविवेचनात् , प्रत्येकं चाव्यापकत्वात् । कुतश्च कार्यात्मानौ कारणमात्मानञ्च न व्यभिचरत इति ॥ अत्रोच्यते— शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् ॥ बोधनी । तादात्म्यतदुत्पत्त्योरेव निश्चयः कुतस्त्य इत्यत्राह तत्र-इति । अवृक्षे शिलादौ शिंशपात्वस्यानु- पलब्धिबाधितत्वाद् वृक्षः शिंशपात्वेति निश्चीयते । तदुत्पत्तिस्तु पूर्वापरभावेन प्रत्यक्षानुपलम्भाभ्यां सिध्यति । “प्रत्यक्षानुपलम्भपञ्चकेन तदुत्पत्तिनिश्चयः” इति हि बौद्धाः । तत्र पौर्वापर्येण वह्निधूम- योरुपलम्भो प्रत्यक्षद्वयं वह्नयनुपलम्भे धूमानुपलम्भः अन्यस्मिन्पूर्वभावेनोपलब्धेऽपि धूमस्या- नुपलम्भ इत्यनुपलम्भत्रयमिति प्रत्यक्षानुपलम्भपञ्चकम् । अन्येषां तु वह्नेर्धूमस्य पौर्वापर्यस्य च त्रीणि प्रत्यक्षाणि वह्नेर्धूमस्य च द्वावनुपलम्भाविति । नन्वेवमप्यदृश्यभावः पिशाचादिर्धूमस्य कारणं, वह्निस्तु नान्तरीयकसंनिधिर्न वेति शङ्कायां न तदुत्पत्तिसिद्धिरित्यत्राह न ह्येवम्—इति । पिशाचा- देस्तु पौर्वापर्येण प्रत्यक्षानुपलम्भगोचरत्वरूपस्य कारणलक्षणस्य विरोधाभावेन तत्त्वस्य कारणत्वस्य निर्वाहान्न शङ्कावकाश इति नानेनापि प्रकारेणाविनाभावनिश्चय इत्याह नैवम्-इति । कुत इत्यत आह उभय-इति । किमत्र क्वचित्तादात्म्यमव्यभिचारनिबन्धनमन्यत्र तदुत्पत्तिरिति विषयव्यव- स्थयोच्यते किं वा स्वतन्त्रमुभयं तादात्म्यं तदुत्पत्तिर्वेति । नाद्यः, अनुवृत्तस्याव्यभिचारनिबन्ध- नस्यावचनात् , तद्वचने च तस्यालक्षितत्वात् । नाप्युत्तरः, तादात्म्यस्य तदुत्पत्तावभावात् तस्या- श्चेतरत्राभावाद्व्यापकत्वादत एव नापि संभूयेति भावः । कि च उपाधिविधूननापेक्ष एव ताभ्या- मप्यविनाभावनिश्चय इत्याह कुतश्च-इति । तदेवमनुमानस्याव्यभिचारनिश्चयापेक्षत्वात्तस्य चोपाधि- निषेधायतत्वात्तन्निषेधे योग्यानुपलम्भाभावादनुपलम्भमात्रस्य च निषेधकत्वानङ्गीकारादनुमानेन च तन्निषेधेऽनवस्थाप्रसङ्गात् । बौद्धानामपि निषेधाच्चानुमानादिविलोपप्रसङ्ग इति । चार्वाके प्रत्यवस्थिते परमसिद्धान्तीत्याह अत्रोच्यते-इति । उपाधिविरहस्य दुरवधारणत्वेना- नुमानकुलोत्सादाच्छङ्कास्ति चेत् तत एवानुमाऽस्त्येव तत्कालतद्देशयोः सहदृष्टस्य किं कालान्तरे देशान्तरे चाऽविनाभावो भविष्यति न वेत्येवं व्यभिचारस्य शङ्कनीयत्वात् कालान्तरभवनमसंनिहितं च देशमनाकलप्य शङ्कानुपपत्तेः तदाकलनस्य चानुमानमवधीर्याशक्यत्वादिति हृदयम् । तदनाकलने तु शङ्कैव न स्यान्निराश्रयत्वादित्यभिसंधायोक्तं न चेच्छङ्का ततस्तराम्-इति । न चेच्छङ्का, प्रकाशः । आशङ्क्यमानेति ॥ अग्निं विना पिशाचादेव धूमः स्यादिति पिशाचस्य कारणत्वशङ्काऽन्वयव्यति- रेकावादाय वाच्या तौ चाग्नेः प्रत्यक्षसिद्धस्येति नान्यकारणशङ्केत्यर्थः । दूषयति ॥ नैवमपीति ॥ तयोर्न मिलितयोर्व्याप्तिग्राहकत्वमसिद्धेरिति प्रत्येकं तत्त्वे व्याप्तिग्राहकतावच्छेदकानुगतरूपाभाव इत्यर्थः । ननु ज्ञापकस्याननुगमो न दोषः, एकस्याप्यनेकज्ञाप्यत्वादित्यत आह । कुतश्चेति ॥ विपक्षबाधकतर्कस्यापि व्याप्त्यपेक्षया तत्रापि तर्कान्तरानुसरणेऽनवस्था तर्कं विनाऽपि व्याप्तिग्रहे व्यभिचारात् तर्कोऽपि न तद्धेतुः स्यादित्यर्थः ॥ शङ्का चेदिति ॥ कालान्तरदेशान्तरयोर्व्यभिचारोपाध्यन्यतराशङ्का यदि, तदाऽनुमानमस्त्येव । तां विना तयोरप्रतीतेः। यदि च तयोरप्रतीतौ न शङ्का, सुतरामनुमानम् । शङ्कानिरासकस्याप्यनपेक्ष- प्रकाशिका । नादिनियतस्येत्यर्थः । अनेकज्ञाप्यत्वादिति । कार्ये च ज्ञानरूपे विषय एव विशेष इति न परस्पर-

३४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्याख्यायो व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥ ७ ॥ कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्क्येत तदाक- लनञ्च नानुमानमवधीर्य्य कस्य चित्। मुहूर्त्तयामाऽहोरात्रपक्षम्रासत्वयनसंवत्सरा- ऽऽदयो हि भाविनो भवन्मुहूर्त्ताद्यनुमेया एव । अनवगतेषु स्मरणस्याप्यनाशङ्क- नीयत्वात्। अनाकलने वा, कमाश्रित्य व्यभिचारः शङ्क्येत। तथा च सुतरामत्नु- मानस्वीकारः। एवञ्च देशान्तरेऽपि वक्तव्यम्॥ स्वीकृतमनुमानम्। सुहृद्भावेन पृच्छामः, कथमाशङ्का निवर्त्तनीया ? इति बोधनी । ततः शङ्काभावादेव सुतरामगुमाऽस्त्येव शङ्कानिरासप्रयासस्याप्यभावः । स्वीकृतैवानुमानं कथमियं व्यभिचारशङ्का निवर्त्तनीयेति तत्त्वबुभुत्सया पृच्छत उत्तरम्-अर्थक्रमानुरोधेन पाठक्रममनादृत्य तर्कः शङ्कावधिर्मत इति । तावदेवावकाशः शङ्कापिशाच्या यावत्तर्केण नागतं, समागतस्तु तर्कः शङ्काया अवधिरन्तो मतो न्यायविदाम् । ननु तर्कोऽप्यविनाभावमूल एव प्रवर्त्तमानोऽन्यथासिद्धिशङ्कया तर्का- न्तरमपेक्षत इति अनवस्थादौस्थ्यात् पुनरप्यनुमानं दत्तजलाञ्जलि स्यादित्यत उक्तं व्याघाताव- धिराशङ्का-इति । अयमाशयः-किमियमाशङ्कार्थक्रियार्थिनो लौकिकस्य, हेतुफलभावं जिघांसतः परीक्षकस्य वा ? प्रथमे क्रियाव्याघातावधिराशङ्का लोकस्य न तु यथा क्रियाव्याघातादयोऽवतरन्ति तथा भवतीत्यर्थः । तथा च द्वित्रस्थानपर्य्यवसानान्नानुमानप्रामाण्यविघातः । द्वितीये तु शङ्कव न स्यात् तस्या अपि कस्यचित् फलत्वातया हेतुफलभावप्रत्यक्षे प्रामाण्यनिश्चयोऽपि न स्यात् तस्या अपि तथाभावात् , सोऽयं व्याघात इति ! व्याचष्टे कालान्तरे इति । भवन्मुहूर्त्ता अनुमेया-इति । वर्तमानमुहूर्त्तादयो भाविमुहूर्तादिव न्तः मुहूर्त्तत्वादतीतमुहूर्त्तवदिति । मा भूदनुमानं स्मरणं तु भविष्यति कालान्तर इत्यात्राह अनवगत- इति । भाविनः कालस्य प्रत्यक्षसंभवादिति सर्वथा चानाकलने निर्विषया शङ्कव न स्यादित्याह अनाकलने-इति । तर्हि ननु माभूद् व्यभिचाराशङ्केत्यत्राह तथा च-इति । तुरीयं पादं व्याचि- ख्यासुः शङ्कते स्वीकृतम्-इति । सुहृद्भावेनैवोत्तरमाह न-इति । द्वयी हि शङ्का किमस्य हेतोरनेन साध्येन संबन्ध उपाधिरस्ति वा न वेत्येका, अन्या तूपाधिशङ्कानिमित्ता हेतोः साध्यव्यभिचारशङ्का, प्रकाशः । णादित्यर्थः । वादकथाम्राश्रित्य शङ्कानिवर्त्तकमाह ॥ व्याघातेति ॥ शङ्काया अवधिस्तर्कः, तन्नि- वर्त्तकत्वात् । ननु तर्कोऽपि व्याप्तिमूलकतया तर्कान्तरापेक्षायामनवस्थेत्यत आह ॥ व्याघातावधि- रिति ॥ तर्कमूलम्यौसौ स्वक्रियाव्याघातेन व्यभिचारशङ्कव नोदेतीति न तत्र तर्कापेक्षेत्यर्थः ॥ पूर्वार्द्धं व्याचष्टे ॥ कालान्तरेत्यादि, तथाचैत्यन्तेन । ननु साध्यात्यन्ताभावसामानाधिक- रण्यं साधने वर्त्तते न वेति शङ्का, देशकालानन्तर्भाव्यैवेति नानुमानावश्यकत्वम् । मैवम् । साध्या- त्यन्ताभावसामानाधिकरण्यं तदधिकरणाधिकरणत्वम् । तत्र प्रसिद्धधूमाधिकरणे बह्णिनिश्चयादेव न शङ्का । तदन्यच्चानुमानगम्यमेव ॥ तथापि सामान्यलक्षणया प्रत्यासत्त्या प्रत्यक्षेणापि कालादेरुपस्थितेर्नोनुमानादेव तदुपस्थितिः । प्रकाशिका । व्यभिचार इति भावः । वादकथामिति । तथा च कथं शङ्कानिवृत्तिरिति जिज्ञासुं प्रत्युत्तरमेत- दित्यर्थः। अर्थक्रमानुरोधेन शाब्दक्रमव्युत्क्रमेण व्याचष्टे शङ्काया अवधिरीति। ननु तर्केऽपीति। बाधकाभावेन शङ्काया अवश्यम्भावो एतन्निवर्त्तनाय तर्कान्तरविज्ञायामनवस्थितिरिति भावः। [क्रियति। वस्तुतः कोटिस्मरणादिविरहेणैव शङ्काविच्छेदे न तन्निवर्त्तकतर्कापेक्षेति.न अनवस्था इति परिभाव- ------------------------------ । पत्तत्रिक्तान्तेन सामान्यलक्षणया कालदेशयोरुपस्थितेरित्यर्थः ।

तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४३ चेन्न । यावदाशङ्कं तर्कप्रवृत्तेः । तेन हि वर्त्तमानेनोपाधिकोटौ तदायत्तव्यभिचार- कोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते । विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्श- नोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्प- त्तिरिति किमनुपपन्नम् ॥ बोधनी तत्रोभयत्रापि तर्कप्रवृत्तेः शङ्कानिवृत्तिरिति । कथं तर्हि ततस्तन्निवृत्तिरित्यत्राह तेन हि-इति । यद्यत्रोपाधिः स्यात् तदायत्तो वा हेतोर्व्यभिचारस्तत एव स्यादिति । प्रामाणिकत्यागाप्रामाणिकस्वीका- रात्मकानिष्टमुपनयता तर्केण पक्ष एव जाता विपक्षजिज्ञासात्मिकेच्छा विच्छिद्यते, तद्विच्छेदे चानुमाता निरन्तरायेण भूयोदर्शनेनावधारितव्यभिचारं लिङ्गं निःशङ्क एवानुमितिज्ञानोत्पादे विनियुङ्क्ते विनियुक्ताच्च करणालिङ्गादनुमितिक्रियानिष्पत्तिरिति न संकटं किञ्चिदिति ॥ प्रकाशः । सा च प्रत्यासत्तिरनुमानप्रामाण्यवादिनोऽपि स्वीकार्या । अन्यथा, यस्य व्याप्तिग्रहः स न पक्षधर्मः, तादृशश्च न व्याप्तिग्रहगोचर इत्यनुमानविलयापत्तिः । मैवम् । इदमसाधकमनुपलभ्यमानव्यभिचारशङ्का- ग्रस्तत्वादित्यनुमानमपि शङ्काऽऽस्कन्दतीति जात्युत्तरत्वात् । व्याप्तिग्रहाभावव्यभिचारशङ्कयोस्त्वयापि व्याप्तिस्वीकारात् । व्यभिचारशङ्कायामव्यभिचारकोटेरावश्यकत्वाच्च । अपि चानुमानाप्रामाण्यं नानु- मानगम्यम् । तदनङ्गीकारात् । नापि प्रत्यक्षगम्यम् । तथाऽनुव्यवसायाभावात् । एतेनोत्कटकोटिक संशयरूपाऽनुमितिरस्तत्करणमनुमानमित्यपास्तम् । धूमादग्निं निश्चिनोमीत्यनुव्यवसायेन तन्निश्चयत्वस्यै प्रत्यक्षत्वात् । अन्यथा, प्रत्यक्षस्यापि निश्चयत्वे कः समाश्वासः ? । यावदाशङ्कमिति ॥ तर्कसहकृतभूयोदर्शनजसंस्कारसचिवप्रमाणेन व्याप्तिर्गृह्यत इत्यर्थः तर्कव्यापारमाह ॥ तेन हीति ॥ इच्छा विच्छिद्यते इति ॥ संशयजनितसाध्याभाववति जिज्ञासा निवर्त्त्यते इत्यर्थः । तज्जनकसंशयसहितेति शेषः । अन्यथा, जिज्ञासाविच्छेदेऽपि प्रकाशिका । ननु सामान्यलक्षणा वा स्वीक्रियतामनुमानं वेत्यत्र किं विनिगमकमत आह । सा चेति । ननु सम्भावनैवानुमानप्रयोजनं प्रकृतेऽपि स्यादित्यरुचेराह । व्याप्तिग्रहेति । ननु भूयःसहचारमात्रमेव तत्रापि स्वीकरणीयमत आह । व्यभिचारशङ्कायामिति । तथाऽनुव्यवसायाभावादिति । इदमुपलक्षणम् । प्रत्यक्षस्य तत्रासामर्थ्यादित्यपि द्रष्टव्यम् । निश्चिनोमीति निश्चयत्वं जातिरिति मतेनेदम्, वस्तुतः संशयान्यत्वमपि ज्ञाननिष्ठं योग्यमेवेति भावः । तर्कसहकृतेति । तर्कस्य च शङ्कानिवर्त्तनद्वारा प्रयोजकत्वमित्यवधेयम् । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह संस्कारे- तेति । संशयजनितेति । यद्यपि जिज्ञासा ज्ञानेच्छा सा च ज्ञानेष्टसाधनताज्ञानादिति न संशयाद्भवितु- मर्हति, न चातन्निवर्त्तनमनिष्टप्रसञ्जनरूपात् तर्कात्, "इच्छानिवर्त्तकमनिष्टसाधनताज्ञान"मित्यत्रानिष्टं दुःखरूपं प्रकृते च प्रमाणबाधितत्वरूपमनिष्टं प्रसञ्जनीयं यतः, तथापि संशये सति संशयजन्यदुःखा- भावरूपेष्टसाधनताज्ञानादेव ज्ञानेच्छा सत्प्रतिपक्षस्थलेऽज्ञानजन्यदुःखाभावरूपेष्टसाधनताज्ञानादिवत् त- दुच्छेदेऽपि तत्प्रयोजकीभूतसंशयजनकीभूतविरोधिप्रमाणशङ्कोच्छेदद्वारैवेति मिश्राः । केचित्तु अन्वयव्यतिरेकाभ्यां संशयस्य प्रतिपक्षोपस्थितेश्च स्वातन्त्र्येणैव जनकत्वं तर्कस्य च जिज्ञासानिवर्त्तक- मकरन्दः । ननु व्याप्तिस्वीकारेऽपि नानुमानप्रामाण्यस्वीकारस्तयोर्भेदादित्यत आह । अपि चेति । धूमादिति । निश्चयत्वं जातिरिति मतेनेदम् । उपनीतभानाभिप्रायेण वा । अन्यथा अनुव्यवसाय- विषयत्वानुपपत्तेरित्याहुः । आशुविनाशिनां क्रमिकाणां मेलकानुपपत्तेराह । संस्कारेति । अन्यथेति । प्रतिबन्धकतावच्छेदके ज्ञानत्वस्यैव न प्रवेशो गौरवात्, कुतो निश्चयत्वस्येति

३४४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७_कारिकाव्याख्यायां प्रकाशः । संशयसत्त्वे व्याप्त्यग्रहात् । न च साध्याभावविषयकज्ञानस्य प्रतिबन्धकत्वात् तन्निवर्त्तनमफलं, लाघवात्साध्याभावविषयत्वस्यैव प्रतिबन्धकतावच्छेदकत्वात् ॥ प्रकाशिका । त्वमित्याहुः। तज्जनितेति। न चैवं मूलविरोधः, ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीत्यत्र मूले शङ्काया अनुमाननिवर्त्तनीयत्वाभिधानादिति वाच्यम् । तन्मूलस्य ततस्तदानुमानप्रवृत्तौ अनुमानेऽनुमानप्रवृ- त्यर्थं शङ्कास्वरूपमपीति निमित्तसप्तम्याश्रयणेनार्थोन्नयनात्, मतान्तरेण तन्मूलमित्यन्ये। व्याप्तिग्राहक- तर्करूपपरः प्रकाशः विषयपरिशोधकतर्कपरञ्च मूलमित्यपरे । नन्वेवमपि विषयपरिशोधकस्य नोपयोगः, परामर्शेनैव विशेषदर्शनात्मकेन शङ्कानिवृत्तौ जिज्ञासाया अपि तन्मूलाया निवृत्तेरिति चेत्, न । विशेषदर्शनेन स्वारसिकशङ्कानिवृत्तावपि विरोधिप्रमाणशङ्कानिबन्धनसाध्याभावशङ्काजिज्ञासयोर- नुवृत्तेस्तन्निवृत्त्यर्थं तर्कोपयोगात्, एवं च तर्केण विरोधिकोटावनिष्ठमुपनयता विरोधिप्रमाणशङ्काप- गमे तन्मूलकसाध्याभावसंशयापगमे तन्मूलकजिज्ञासोच्छेद इति तात्पर्य्यम् । केचित्तु पक्षे धूमदर्शनमात्रस्य तदविरोधित्वेन साध्याभावशङ्कायां जिज्ञासापि भवत्येव, ततश्च साध्यतद्भावा- न्यतरावधारणोपायानुसरणव्यग्रः प्रतिपत्ता स्मृतामपि व्याप्तिं पक्षवृत्तिधूमे न परामृशति व्यग्र- त्वादिति परामर्शसामग्र्यां प्रतिरुद्धायां तर्केणानिष्टप्रतिसन्धानात्मकेनापहृतायां जिज्ञासायामव- धारणोपायानुसरणरूपविषयान्तरसञ्चाराभावे परामर्शोत्पादः । न चैवमस्य कथं विषयपरिशोधकत्व- मिति वाच्यम् । न्यायस्य विषयो लिङ्गं तस्य शुद्धिः परामर्शप्रतिबन्धकजिज्ञासाया उक्तरूपोपायानु- सरणपरतायाश्चापगम इति तदुपपत्तेः । तदुक्तम्—प्रमेयतत्त्वावबोधे विरोधिनोनाविषयस्य जिज्ञासा तदुपायानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी''ति । न चैवं तर्कस्य न्यायोत्तराङ्गत्वव्यु- त्पादनविरोधः, मतभेदेन तदुपपत्तेः अत एव तत्त्वबोधे तर्को न्यायस्य पूर्वाङ्गं न्यायविषयपरिशो- धकत्वात्, व्याप्तिग्राहकत्वाच्चेत्युक्तमिति वदन्ति । संशयसत्त्व इति । प्रतिबन्धकतायां ज्ञानत्वस्यैव मकरन्दः । भावः । ननु संशयो न जिज्ञासाहेतुः, तस्या इच्छात्वेन ज्ञानेष्टसाधनताज्ञानसाध्यत्वात् । साध्यार्थिनश्च साध्याभावज्ञानं नेष्टसाधनमिति न तत्र जिज्ञासा । तथा च कथं तन्निवर्त्तकता तर्कस्येति चेत् न, अन्वयव्यतिरेकाभ्यां सत्प्रतिपक्षस्येव संशयस्यापि जिज्ञासाजनकत्वात् । ननु विरोधिविषयत्वाभावा- त्तर्कः कथं संशयजिज्ञासयोर्निवर्त्तक इति चेत्, न, वैषयिकविरोधाभावेऽपि स्वरूपेणैव दाहादौ मण्या- दिवत् फलबलेन तस्य विरोधित्वात्, इच्छायामनिष्टप्रतिसन्धातृत्वेनापि विरोधित्वाच्च, मधुविष- संपृक्तान्नबुभुक्षादौ तथा दर्शनात् । नन्वेवमपि यदि निर्वह्निः स्यादिति विषयपरिशोधकस्य तर्कस्य कथमनुमितावुपयोगः, परामर्शादेव विशेषदर्शनत्वेन शङ्कानिवृत्तेरिति चेत् । विशेषदर्शने स्वरसवाहि- शङ्काऽनुदशेऽपि अन्याहितशङ्कोदयेन बाधकप्रमाणावतारशङ्कानिबन्धनसाध्याभावशङ्कानिवर्त्तकत्वेन तदुपयोगादिति विप्रपञ्चितमनुमानप्रकाशे । केचित्तु प्राथमिकलिङ्गदर्शनस्य तदविरोधित्वेन धूमवानयं वह्निमान्न वेति संशयः, ततो जिज्ञासा, ततश्च साध्याभावज्ञानोपायानुसन्धानपरस्य तामपि वह्निव्याप्तिं पक्षधर्म्मधूमे न परामृशति व्यग्रत्वादिति प्रसिद्धायां परामर्शसामग्र्यां तर्कावतारे तेनापहृतायां जिज्ञासायां तदुपायानुसरणपरत्वरूपविषयान्तरसञ्चाराभावे परामर्शोत्पादः, अत एवायं न्यायविषयपरि- शोधक इति गीयते, न्यायस्य परामर्शस्य विषयो लिङ्गं, तस्य परिशुद्धिः परामर्शप्रतिबन्धकसाध्या- भावजिज्ञासातदुपायानुसरणपरत्वयोरपगमः । तदाह प्रमेयतत्त्वबोधे वर्द्धमानः-“एवञ्च विरोधिनोना- विषयस्य जिज्ञासा तदुपायानुसरणञ्च वास्तवकोटिप्रमाणप्रवृत्तावंशतः परिपन्थी”—इति । न चैवं तर्कस्य न्यायोत्तराङ्गत्वप्रतिपादनविरोधः, परामर्शव्यापारस्तर्क इति मतेन तदुत्थानात् । तदाह तत्रैव वर्द्धमानः । “तर्को न्यायस्य पूर्वाङ्गं न्यायविषयपरिशोधकत्वात्, व्याप्तिग्राहकत्वाच्च” इत्याहुः ।

तृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३४५ ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्त्तते, ततोऽनवस्थया भवितव्यम् । न । शङ्काया व्याघातावधित्वात् । तदेव ह्याशङ्क्यते, यस्मिन्नाशङ्क्यमाने स्वक्रियाव्या- बोधनी । ननु यदि तर्केण व्यभिचारशङ्कानिवृत्तिः तर्हि, तर्कस्याप्यविनाभावापेक्षत्वात्तत्रापि शङ्कानिवृत्त्यर्थं तर्कान्तरापेक्षायामनवस्था स्यादित्याशङ्कयाह ननु-इति । अत्रोत्तरत्वेन तृतीयं पादमवतारयति न- इति । नानवस्थया भवितव्यम्, न हि यत्र यत्राविनाभावग्रहस्तत्र सर्वत्र शङ्कोदय इति । व्या- घातावधित्वमेवाह तदेव हि-इति । यस्मिन्नाशङ्क्यमाने लोकस्य व्यवहारव्याघातादयो न प्रादुष्यन् प्रकाशः । नन्वन्वयेच तर्कामूलव्याप्तावपि शङ्काऽनुवृत्तौ मूलशैथिल्यात्तन्निवर्त्तनं तर्कादेवेत्यनवस्थेत्याह— नन्विति ॥ न चानादिसिद्धव्याप्तिका एव केचित्तर्का इति वाच्यम् । तत्रापि प्रमाणानुयोगेऽ- नुमान एव पर्यवसानेऽनवस्थापत्तेरिति भावः । तर्कामूलव्याप्तिग्रहो न तर्कांन्तरात् किन्त्वन्वयै- वेत्याह ॥ शङ्काया इति ॥ तदेव स्पष्टयति ॥ तदेव हीति ॥ धूमो यदि वह्निसमवहितसामग्र्य- जन्यत्वे तत्समवहितसामग्र्यजन्यः स्यान्नोत्पन्नः स्यादित्यत्र तर्के प्रवृत्ते किमवह्नेरेव धूमः स्यादिति शङ्का, क्वचिद्वह्निं विनाऽपि स्यादिति वा, अकारणत एवोत्पद्यते इति वा ? । सर्वत्र स्वक्रियाव्याघातः । यदि हान्वयव्यतिरेकावधृतकारणभावं कारणं विना कार्योत्पत्तिं शङ्केत, तदा नियमेन धूमार्थं वह्नेस्तृ- प्यर्थमन्नस्य परप्रतिपत्त्यर्थं शब्दस्योपादानं न कुर्यात्, तैर्विनाऽपि तेषां सम्भवात् । तस्मात् तदु- पादानमेव तादृशशङ्काप्रतिवन्धकम् । न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते तत्कारणं तन्ने- त्याशङ्कते चेत्यर्थः । अतश्च— व्याघातो यदि शङ्काऽस्ति न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥ प्रकाशिका । रति धूमो यदीति । अत्र सत्यन्तं विशेषणं पक्षेयोजनीयम् । तेनाभिमतविपर्ययपर्यवसायित्वं तर्कस्येति बोध्यम् । तदुपादानमिति । उपादानकारणीभूतं कार्यकारणभावज्ञानमित्यर्थः । उपादा- नस्य क्रियायाः शङ्काप्रतिवन्धकत्वात् । नन्वेवमन्योन्याश्रयः कार्यकारणभावग्रहार्थमेवैतत्कर्मानुसरणा- दिति वाच्यम् । न ह्यनेनैव तर्केण धूमवह्निव्याप्तिग्रहनियमः कोटिस्मरणादिविरहेण शङ्काविच्छेदे तर्कं विनापि व्याप्तिग्रहात् , किन्तु सर्वत्र शङ्का स्यादेवेति शङ्कापिशाच्या न क्वापि व्याप्तिग्रह इति नानुमानं प्रमाणामेति वदन्तं चार्वाकं प्रति तर्कोऽयमुपदर्श्यते । एवमाशङ्कमानस्य भवतोऽपि स्वक्रि- याव्याघात इति प्रतिपादनाय तथा च भवतोऽप्युपादानकारणीभूतं कार्यकारणभावज्ञानं वर्त्तत एवेति नास्ति शङ्केति तदुद्भावनं वाङ्मनसविर्संवाद इति भयेन शङ्काममुद्भावयन् सोऽनुमानप्रामाण्यानु- मकरन्दः । यत्तर्कामूलव्याप्तौ व्याघातः शङ्काप्रतिबन्धकस्तमुदाहरति धूमो यदीति । सत्यन्तं घटादौ व्यभि- चारवारणाय । पक्षविशेषणमप्येतद् बोध्यम् । तेनैतद्विशेषणस्यैव व्यतिरेकमादाय नास्य विपर्य्ययप- र्य्यवसानम् । तद्ग्रहश्च योग्यानां व्यभिचारदर्शनात्, अयोग्यानामनुपस्थितकल्पनागौरवात् । तदु- पादानमिति । तदुपादानहेतुभूतधूमवह्न्यादिकार्य्यकारणभावज्ञानमेवेत्यर्थः । शङ्काया विरोधिनिश्च- याप्रतिबध्यत्वादिति ध्येयम्। यद्यप्येवमन्योन्याश्रयः, शङ्कानिवृत्तावेव तर्कस्य कार्य्यकारणभावनिवर्त्तकत्वं निश्चिते च कार्य्यकारणभावे ततः शङ्कानिवृत्तिरिति, तथापि न सर्वत्रानेनैव तर्केण वह्निधूमकार्य्य- कारणभावग्रहः, स्वतः सिद्धशङ्काविरहेऽन्वयादिज्ञानवतस्तद्ग्रहे बाधकाभावाव तस्मात् सर्वत्र शङ्का स्यादेवेति यच्चार्वाकादिरनुमानविरोधी मन्यते, तं प्रत्युच्यते तथा सत्येतादृशतर्केऽपि तादृशशङ्कायां भवतो धूमार्थंवडयुपादानं व्याहन्येत । तदिदमाह, न ह्यस्ति सम्भवो धूमार्थं वह्नयादिकमुपादत्ते ४४ न्या० कु०

३४६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यान प्रकाशः । इति खण्डनमपास्तम् । व्याघातस्य शङ्काऽनाश्रितत्वात् । स्वक्रियाया एव शङ्काप्रतिबन्धकत्वात् । एतेन व्याघातो विरोधः, स च सहानवस्थाननियमो, नियमश्च व्याप्तिरिति तत्राप्यनवस्थेत्यपि निरस्तम् ॥ नन्वेवं तर्कं विनाऽपि व्याप्तिग्रहाद्व्यभिचारेण तर्कोऽपि न व्याप्तिग्राहकः । अत्रास्मत्पितृचर- णाः । तर्को न व्याप्तिग्राहकः, किन्तु व्यभिचारज्ञानाभावसहकृतं सहचारदर्शनम् । ज्ञानञ्च निश्चयः शङ्का च । शङ्का क्वचिदुपाधिसन्देहात् , क्वचिद् विशेषादर्शनसचिवसाधारणधर्मदर्शनात् । तदभा- वश्च क्वचिद्विपक्षबाधकस्तर्कात् , क्वचित् स्वतः सिद्ध एवेति नानुगमः । ननु सहचारदर्शनव्यभि- चारादर्शनवद् व्यभिचारज्ञानाभावानुकूलतर्कयोर्ज्ञानं व्यभिचारिसाधारणमिति न ततो व्याप्तिनिश्चयः प्रकाशिका । कूलव्याप्तिग्रहमङ्गीकारयितुं शक्यत इति भावः । तर्कस्यैव व्याप्तिग्राहकत्वमित्याचार्याभिमतमिति भ्रान्तः शङ्कते नन्वेवमिति । अत्रास्मत्पितृचरणा आचार्य्याशयं स्फोरयन्तीति शेषः । व्यभिचा- रज्ञानेति । यद्यपि व्यभिचारज्ञानवदव्यभिचारज्ञानमपि वर्त्तत इति व्यभिचारस्यापि ग्रहापत्तिरिति मकरन्दः । तत्कारणं तन्नेत्याशङ्कते चेति दिक् । किन्त्विति । न चैवमव्यभिचारज्ञानाभावसहकृताद्व्यभिचारनिश्चय- प्रसङ्ग इति पूर्वोक्तदोषानपाय इति वाच्यम् । सहचारदर्शनस्य व्यभिचारनिश्चयानङ्गत्वात् , माना- भावात्, विरुद्धे व्यभिचारनिश्चयस्य तेन विनाऽपि भावाच्च । शेषन्त्वनुमानप्रकाशे । टिप्पणी । चारो गृहीत इति भावः ॥ ननु सहचारदर्शनव्यभिचारादर्शनवद्व्यभिचारज्ञानाभावानुकू- लेति । सहचारदर्शनेत्यादिचिन्तामणिपङ्क्तिका तत्र व्यभिचारज्ञानाभावेत्यत्र व्यभिचारशङ्का- विरहेति पाठमूरीकृत्य व्याख्यातं मथुरानाथेन तथा हि यथा सहचारदर्शनं व्यभिचारनिश्चयाभावश्च व्यभिचारिसाधारणम् सन्दिग्धव्यभिचारिसाधारणम् व्यभिचारसंशयस्थलेऽपि वर्त्तते । न च तत्र व्याप्तिग्रहः इति न व्याप्तिग्राहकः, तथा व्यभिचारशङ्काविरहज्ञानमनुकूलतर्कज्ञानञ्च व्यभिचारसंशयस्थल- साधारणमिति न व्याप्तिग्राहकम्, तयोः सहचारदर्शनव्यभिचारज्ञानसामान्याभावयोरित्यर्थः, केन सन्द- र्भेण तत्रेदं चिन्त्यम् । व्यभिचारशङ्काविरहज्ञानस्य व्यभिचारनिश्चयस्थलेऽपि व्याप्तिज्ञानोत्पत्तिव्य- भिचारित्वसम्भवात्तत्संशयस्थलानुधावनमसङ्गतं ज्ञातव्यभिचारसाधारणमिति व्याख्यानस्यैवोचित- त्वात् । व्यभिचारज्ञानसामान्याभावस्य पूर्वानुक्तत्वेन तयोरित्यत्र तच्छब्देन तत्परामर्शासम्भवाच्च । प्रकाशस्थचिन्तामणिग्रन्थस्त्वेवं व्याख्येयः, यथा व्यभिचारनिश्चयाभावः संशयस्थले ज्ञातव्यभिचारसा- धारणस्तथा व्यभिचारज्ञानसामान्याभावज्ञानमपि संशयनिश्चयस्थलयोः ज्ञातव्यभिचारसाधारणमिति न व्याप्तिग्राहकं इति व्यभिचारज्ञानाभावस्योपक्रान्तत्वेन तच्छब्देन तत्परामर्शोऽप्युपपन्नः । वस्तुतस्तु पूर्वग्रन्थे व्यभिचारज्ञानसामान्याभावस्य स्वरूपत एव कारणत्वमुक्तमस्ति तत्र निर्वीजन्तु ज्ञानकारणत्व- भ्रान्तिकल्पयित्वा ग्रन्थोत्थापनमयुक्तमेव प्रतिभातीतीत्थं व्याख्येयः, सहचारदर्शनं व्यभिचारज्ञानाभावश्च व्यभिचारज्ञानकारणाभावे सद्धेताविव व्यभिचारिण्यपि विशेषदर्शिनामपि सम्भवतीति तत्रापि व्याप्ति- ग्रहप्रसङ्गः, न च का क्षतिरिति देश्यम् व्याप्तिनिश्चये व्याप्यत्वप्रसङ्गात् , न चोत्तरकालं व्यभिचारदर्श- नाद् व्याप्तिबाध इति वाच्यम् । न ह्यस्ति नियमो व्यभिचारज्ञानेन प्रमात्मकेनैव भवितव्यमिति व्यभि- चारज्ञानस्य प्रमात्वनिश्चये व्याप्तिबाधः, व्याप्तिबाधे प्रमात्वनिश्चय इत्यन्योन्याश्रयः, एवं सद्धेतौ व्य- भिचारो द्रक्ष्यत इति का प्रत्याशा, तस्माद् व्यभिचारिसाधारण्यम् व्याप्तिग्राहकस्यानिष्टम् , ननु व्यभि- चारज्ञानाभावज्ञानमेवास्तु कारणम् ज्ञानाभावो ज्ञानकारणविरहनियतः, सुषुप्ताविवान्यदापि विशेषद-

तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४७ घातादयो दोषा नावतरन्तीति लोकमर्यादा । न हि हेतुफलभावो न भविष्यती- ति शङ्कितुमपि शक्यते । तथा सति शङ्कैव न स्यात्, सर्वं मिथ्या भविष्यतीत्या- दिवत् । बोधनी । तत्रैव शङ्का न सर्वत्रेति । कुत इत्यत आह न हि-इति । न हि कार्यकारणभावोऽपि न स्यादिति शङ्कायाः संभवस्तस्या अपि कस्यचित्कार्यत्वादिति न केवलं शङ्खानुदयः सर्वमपि कार्यजातं मिथ्या कार्यकारणभङ्गादित्यादि च बाधकमूहनीयमित्याह सर्वम्-इति । यद्वा, सर्वं व्यभिचरिष्यतीतिव- त्सर्वं मिथ्या भविष्यतीत्यपि शङ्काया अनुत्थानं तस्या अपि सर्वान्तर्भावेन मिथ्यात्वेन व्याघाता- दिति प्रसङ्गादुच्यते-इति । नन्वसार्वत्रिकत्वेऽपि यत्र कुत्रचिदपि संभवन्तीत्याशङ्कोपाधि- प्रकाशः । स्यात् । न । तयोः स्वरूपसतोरेव व्याप्तिग्राहकत्वात् । सत्तर्काद् व्याप्तिप्रमा, तदाभासात्तदप्रमा, विशे- षदर्शनसत्यत्वाप्रयत्वाभ्यां तादृशपुरुषज्ञानवत् । इयञ्च प्रत्यक्षेण व्याप्तिग्रहे सामग्री । तदभावेऽपि शब्दानुमानाभ्यां व्याप्तिग्रहादिति । शङ्काऽपि हेतुमती, न वा ? । आद्ये हेतुं विना न स्यादेव । द्वितीये देशादिनियमहेतोरभावात् सर्वोत्पत्त्यलप्रसङ्ग इत्याह । तथा सतीति ॥ नन्वतीन्द्रियोपाध्यभावनिर्णयोऽशक्यः । योग्योपा- प्रकाशिका । पूर्वोक्तोपलादवस्थ्यम् । तथापि सहचारज्ञानस्यात्राधिकत्वं तर्कसादित्यञ्चेति विनिगमकं तुल्यत्वे तु सन्देह एवेति अहेतुकैवाशङ्कोत्पत्तिरित्यपगमे हेतुफलभावेऽपि शङ्का स्यादिति विकल्प्य व्याचष्टे । शङ्कापि हेतुमतीति । देशादेति । अत्रैव शङ्का नान्यत्रेति नियामकाभावेन शङ्का- यामपि शङ्का स्यात्, एवं सर्वं मिथ्येत्यपि शङ्का स्यादिति सर्वोत्सत्यत्वप्रसङ्ग इत्यर्थः । मकरन्दः । अहेतुकैवोत्तिरित्युपगमे हेतुफलभावाभावेऽपि शङ्का स्यादेवेत्यतो व्याचष्टे शङ्काऽपीति । देशादेरिति । अत्रैव शङ्का नान्यत्रेति नियमहेतोरभावात् शङ्कायामपि शङ्का, एवं सर्वं मिथ्या भवि- टिप्पणी । शिनां यद्यपि सम्भवति, तथापि ज्ञानाभावज्ञानं दुर्घटम्, विशेषदर्शिनां व्यभिचारिणि व्यभिचारज्ञानस्य शक्यपरिच्छेदत्वात्, विशेषदर्शनुरोधेनैव वस्तुन्यवस्थापनोचितेत्येवं मन्वानस्य सिद्धान्त्याभासस्य निराकरणम्, यथा ज्ञानकारणविरहाद् व्यभिचारज्ञानं व्यभिचारिसाधारणम्, विशेषदर्शिनां तथा व्य- भिचारज्ञानासत्त्वे तदभावस्य प्रमेयत्वे विशेषदर्शिनामपि ज्ञानं व्यभिचारिण्यपि न दुर्लभम्, व्यभि- चारज्ञानकारणनियमस्येव तज्ज्ञानज्ञानकारणनियमस्याप्यभावेन कारणाभावादेव प्रतिबन्धकस्य ज्ञान- ज्ञानस्य विशेषदर्शिनां सर्वदा सत्वासम्भवेनात्रापि व्यभिचारिसाधारणमिति न व्यभिचारादर्शनञ्चापि- तज्ज्ञानस्य ग्राहकैमिति व्याप्तिग्राहकाभाव प्रसङ्ग इति। स्वरूपसतोरेव व्याप्तिग्राहकत्वादिति । ग्राहकत्वञ्च साक्षात्परम्परासाधारणं तेन तर्कस्याहेतुतायाः पूर्वमुक्तत्वेऽपि न क्षतिः। सत्तर्काद्व्याप्ति- प्रमेति व्याप्तिमद्धर्मेन्द्रियादिसन्निकर्षोद्वित्यर्थः। तेनासत्तर्कादपि व्याप्तिसत्त्वे प्रमोत्पादेऽपि न क्षतिः। ग्राहक सत्त्वे व्यभिचारिण्यपि व्याप्तिग्रहः स्वीकृत एव न च व्याप्तिसत्त्वप्रसङ्गः। व्यभि- चारिणि हेतुमति योग्यस्य साध्याभावावगिषये दोषाभावनिर्णये व्यभिचारज्ञानस्य प्रमात्व- निश्चयात् सद्धेतौ तादृशनिश्चयाभावात् सम्भावना तु तर्कनिरस्तेत्याशयः। आद्ये हेतुं विना न स्यादेवेति । उभयथापि शङ्कव न स्यात् । शङ्का हेतुमतीत्यभ्युपगतश्वेद्धेतुफलाभावस्या- सत्तया शङ्कोत इति हेतोरभावात् स्यात्, , शङ्का हेतुमती नेत्यभ्युपगतश्चेन्नियामकाभावाद्धेतुफल- भावयोरिव सम्भावितसत्त्वं शङ्कायामपि स्यादिति न स्यात् । सा यथैन्द्रजालिकपदार्थोत्सत्वेन

३४८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकान्वयाध्यायौ तथापि, अतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् । न वै कश्चि- दतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति, यस्याभावे प्रमाणमन्वेषणीयम् । केवलं सा- हचर्ये निबन्धनान्तरमात्रं शङ्क्यते ततः शङ्कैव फलतः स्वरूपतश्च निवर्त्तनीया । तत्र फलमस्या विपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्त्तते । ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति सर्वं सुस्थम् । न चैतदनागमं, न्यायाङ्गतया तर्कं व्युत्पादय- बोधनी । निषेधेनैव निवर्तनीया, तत्रैन्द्रियकस्य योग्यानुपलम्भेन निषेधेऽप्यतीन्द्रियस्य कथं निषेध इत्याह तथापि-इति । न वै कश्चित्-इति । प्रसक्तं हि प्रतिषिध्यत इति । तर्हि भूयोदर्शनेनैव प्रतिबन्ध- सिद्धेस्तर्कः शङ्कावधिरित्यादिकमरण्यरुदितं स्यादित्यत्राह केवलम्-इति । न तावत् भूयोदर्शनमात्रा- त्प्रतिबन्धनिश्चयः, नापि सर्वत्रोपाध्याशङ्का, किन्तु निबन्धनान्तरकृतस्यापि साहचर्यस्य क्वचिद्दर्शनात् किमत्रापि निबन्धनान्तरमस्ति वा न वेति क्वचिच्छङ्का जायते, सा च हेतोर्विपक्षसंसर्गशङ्कां फलति, ततो न प्रतिबन्धनिश्चयः स्यात्, तेन हेतोः साध्यसंसर्गे निबन्धनान्तरशङ्का स्वरूपतः फलतश्च प्रतिबन्धनिश्चयार्थं निबन्धनीया । तत्र या फलभूता धूमवानपि पर्वतः किमनग्निः स्यादिति पक्ष एव विपक्षत्वेनं जिज्ञासा सा तर्केण साक्षान्निवर्तते । यदि तथा स्याद् धूमस्याकारणत्वेन कादा- चित्कत्वभङ्गप्रसङ्गः दुष्टत्वं वाग्नेरनियतत्वान्नियतस्य च हेत्वन्तरस्याभावादिति । ततो निवृत्तव्यभि- चारशङ्को निष्कलङ्को भूयोदर्शनेनावधृतप्रतिबन्धाल्लिङ्गाल्लिङ्गिनमनुमिनोति, तत उपाधिशङ्कास्वरूपमपि निवर्तते, न चोपाधिशङ्काऽप्यनुमानप्रवृत्तेः पूर्वमेव निवर्तनीया विपक्षजिज्ञासानिवृत्त्यैवानुमानप्रवृत्तेः पाश्चात्त्या तूपाधिशङ्कानिवृत्तिर्वस्तुगत्योक्ता, न त्वनुमानप्रवृत्त्युपयोगित्वेनेति । न च तर्कसनाथेन भूयोदर्शनेन निश्चितप्रतिबन्धं लिङ्गमनुमानाङ्गमित्ययमर्थः स्वमनीषिकामान्रकल्पित इत्याह न चैतत्-इति । प्रकाशः। द्वे योग्यानुपलब्धेरभावनिश्चयेऽप्ययोग्योपाधिव्यतिरेकस्य अनुमानाधीनज्ञानत्वेनानवस्थापातादित्याह तथापीति ॥ उपाधिनिश्चितः, शङ्कितो वा ? । आद्ये, न वै कश्चिदिति ॥ शङ्काऽपि भवि- ष्यति कश्चिदत्रोपाधिरित्यात्मिका, सकललोकयात्राविलोपकत्या नाद्रियत एवेति । साध्यव्यापकतया निश्चितमिदं साधनान्यापकं स्यादिति शङ्का स्यात्तत्राह । केवलमिति ॥ साधने साध्यसम्ब- न्धितावच्छेदकान्तरमित्यर्थः ॥ अथ व्याप्तिविशिष्टपक्षधर्मताज्ञानमनुमितिजनकम्, तत्र का व्याप्तिर्यत्र तर्कोपयोगः । न तावत् स्वाभाविकत्वम् । स्वभावजन्यत्वस्याव्याप्तेः, स्वभावाश्रितत्वस्य चातिव्याप्तेः। नापि विशिष्टवै- प्रकाशिका। विशिष्टेति । साधनविशिष्टे साध्यवैशिष्टयमित्यर्थः । व्यापकत्वं व्याप्तिघटितं स्वसमानाधिकरणात्यन्ता- मकरन्दः । ष्यतीत्यपि शङ्का स्यादिति सर्व्वासत्त्वप्रसङ्ग इत्यर्थः । सकलेति । शङ्कापिशाचीसत्त्वेनातिप्रसङ्गान् सा प्रतिबन्धिकेत्यर्थः । यद्यपि शयसहितजिज्ञासाया एव शङ्कानिवर्त्तकत्वेनोक्तत्वात् तथैव युक्तत्वाच्च ततोऽनुमानप्रवृत्तौ शङ्कास्वरूपमपीति मूलमयुक्तं, तथापि मतान्तरेणोदमित्येके । 'अनुमानप्रवृत्ताविति न सतिसप्तमी किन्तु निमित्तसप्तमी, न च कर्म्मयोगाभावान्न तथेति वाच्यम् । शङ्कास्वरूपस्य कर्म्म कर्त्तृत्वादित्यन्ये । विशिष्टेति । साधनविशिष्टे साध्यवैशिष्टयमित्यर्थः । व्यापकत्वं व्याप्तिघटितं तत् टिप्पणी। सर्वमिन्द्रजालवन्मिथ्या भविष्यतीति शङ्कितासत्त्वं सर्वस्य तथेति भावः । स्वाभाविकत्वं स्वभावेन साध्यस्य जन्यत्वम् स्वभावतः साध्यसम्बन्धित्वं चेति विकल्प्यन् दूषयति स्वभावजन्यत्वस्या-

तृतीयस्तबके ] अनुमानप्रामाण्योपपादनम् । ३४१ प्रकाशः । शिष्टार्थं, रासभादिविशिष्टेऽपि वह्निवैशिष्ट्यात् । नापि निमित्तनैमित्तिकत्वं, रूपरसयोरभावात् । निमित्तत्वस्य नियमघटितत्वाच्च । नाऽपि कात्स्न्र्येन सम्बन्धः । एकव्यक्तिाव्याप्तेः । नानाव्य- क्तिकेऽपि धूमादौ सकलधूमसम्बन्धस्य प्रत्येकं वहावसम्भवात् । अत एव, न कृत्स्नेन साध्येन सम्बन्धः । नापि यावत्साधनाश्रयाश्रितसम्बन्धः । साधनाश्रये महानसादौ सकले प्रत्येकवहेराश्रित- त्वाभावात् । नाप्यविनाभावः । केवलान्वयिनि अव्याप्तेः । नापि साधनसमानाधिकरण्यावद्धर्म- समानाधिकरणसाध्यसामानाधिकरणयम् । यावद्धर्मसामानाधिकरण्यं हि यावद्धर्माधिकरणाधिकरण- त्वम् । तच्चाप्रसिद्धम् । साधनसमानाधिकरणसकलमहानसत्वाद्यधिकरणाप्रतीतेः । नाप्यव्यभिचारि- त्वम्। तद्धि न साध्यात्यन्ताभाववदवृत्तित्वं, साध्यवदन्योन्याभाववदवृत्तित्वं वा। केवलान्वयिन्यव्याप्तेः। नापि साध्यवैयधिकरण्यानधिकरणत्वं, साध्यसामानाधिकरण्याऽनधिकरणत्वं वा। तदुभयमपि साध्यानाधिकरणानधिकरणत्वम् । तच्च केवलान्वयिन्यसम्भवि । यत्किञ्चित्साध्यानाधिकरणाधिकरण्ये धूमादौ चासिद्धम् । नापि व्यापकसामानाधिकरण्यं, व्याप्तिनिरूप्यत्वात् । नापि स्वसमानाधिकर- णात्यन्ताभावाप्रतियोगिना सामानाधिकरण्यम् । पर्वतीयाग्नेर्महानसीयधूमसमानाधिकरणात्यन्ताभा- वप्रतियोगित्वात् । न च धूमवन्निष्ठात्यन्ताभावप्रतियोगि न वह्निसामान्यमिति वाच्यम् । न हि विशेषाभावादन्यः सामान्यावच्छिन्नप्रतियोगिकोऽभावः । विशेषाभावसमुहादेव तद्व्यवहारोपपत्तेस्तत्र मानाभावात् । अव्याप्यवृत्तिसंयोगादेर्द्रव्यत्वाद्यव्याप्यतापत्तेश्च । न च प्रतियोगिविरोधित्वमभाववि- शेषणम् । संयोगे साध्ये सत्त्वादेरनकान्तिकत्वाभावप्रसङ्गात् । न हि प्रतियोगिविरोधी संयोगादेर- स्त्यन्योऽभावः, अधिकरणभेदेनामावभेदाभावात् । एतेन प्रतियोगिसमानाधिकरणात्यन्ताभावेतर- त्वेनाऽपि विशेषणं परास्तम् । वह्नेर्धूमवनिष्ठात्यन्ताभावप्रतियोगित्वात् ॥ अथ साधनवनिष्ठान्योन्याभावाप्रतियोगिसाध्यवत्कत्वम् । न च द्रव्यत्ववनिष्ठान्योन्याभावप्रति- योगि संयोगवत्, द्रव्यं न संयोगवदित्यप्रतीतेरिति चेत् । न । मूले वृक्षः कपिसंयोगवान्नेत्यबाधि- तानुभवादवच्छेदकभेदेन संयोगवदन्योन्याभावस्याप्यव्याप्यवृत्तित्वात् । न चैवं भेदाभेदापातः । ईदृश- स्यावच्छेदकभेदमादाय तदुपगमात् । वह्निमत्पर्वतस्य धूमवन्महानसनिष्ठान्योन्याभावप्रतियोगि- त्वाच्च । न च सामान्यावच्छिन्नप्रतियोगिकोऽन्योन्याभावः, प्रमाणाभावादित्युक्तम् । किञ्च, साधनव- न्निष्ठान्योन्याभावाप्रतियोगि साध्यवद् यस्येत्यत्र षष्ठ्यर्थो न व्याप्यव्यापकभावः । तस्यानिरूपणात् । नान्येाऽतिव्याप्तेः । साध्यञ्च यदि सिद्धिकर्म विवक्षितं, तदा पर्वतवह्निधूमयोरेव व्याप्तिः । व्यापक- श्चेत्तदाऽन्योन्याश्रयः । नापि साधनसमानाधिकरण्यावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसा- मानाधिकरण्यम् । साधनसमानाधिकरणस्य प्रमेयत्वादेर्वैयधिकरण्याऽप्रसिद्धेः । नाप्यनौपाधिकः सम्बन्धो व्याप्तिः । तथाहि । उपाधिः साधना व्यापकत्वे सति साध्यव्यापको वाच्यः । तत्र यद्यपि व्यापकत्वं न व्याप्तिनिरूपकत्वमात्माश्रयत्वाद्, किन्तु तदन्निष्ठात्यन्ताभावाप्रतियोगित्वम् । प्रतियो- गित्वमपि न विरोधित्वं सहानवस्थाननियमलक्षणम् । गोत्वाश्वत्वयोरतिव्याप्तेः । अन्योऽन्याभावप्र- तियोगिन्यव्याप्तेश्च किन्त्वभावविरहात्मत्वम् । तथापि यत्किञ्चित्साध्यव्यापकसाधनाव्यापकधर्मनिषेधो धूमादावसिद्धः। प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मश्च सिद्धयसिद्धिम्यां निषेद्धुमशक्यः। यावत्साध्य- प्रकाशिका । भावाप्रतियोगित्वं वा, आद्ये दोषमाह व्याप्तिनिरूप्यत्वादिति। अन्त्यमाशङ्कथ निराकरोति 'नापीति। मकरन्दः। समानाधिकरणात्यन्ताभावाप्रतियोगित्वं वा विवक्षितम् । आद्ये दोषमाह व्याप्तिनिरूप्यत्वादिति । अन्त्यमाशङ्कथ निराकरोति नापीति । टिप्पणी । व्याप्तेरिति । प्रत्येकम् वहावसम्भवात् इति । धूमे सकले प्रत्येकं वह्निनिरु-

२४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यानं प्रकाशः। व्यापके प्रमेयत्वादौ साधनान्यापकत्वं, यावत्साधनाव्यापके घटत्वादौ साध्यव्यापकत्वं निषिध्यते इति चेत् । न । व्यधिकरणत्वात् । यावत्साध्यव्यापकव्याप्यत्वमनौपाधिकत्वमिति चेत् । न । आत्माश्र- यात् । एतेन, यावत्साधनाव्यापकमव्यापकं यस्य, यावत्साध्यव्यापकं व्यापकं वा यस्य, तत्त्वमनौ- पाधिकत्वमित्यपास्तम् ॥ अथ यावत्साधनसमानाधिकरणात्यन्ताभावप्रतियोगिधर्मप्रतियोगिकात्यन्ताभावसमानाधिकरण- साध्यसामानाधिकरण्यमनौपाधिकत्वम् । न ह्येवं सोपाधिः, साधनसमानाधिकरणात्यन्ताभावप्रति- योगिन उपाधेरार्द्रेन्धनवत्त्वादेर्योऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः सामानाधिकरण्याभावात् । आर्द्वेन्धनविरहिणि धूमस्यावृत्तेरिति चेत् । न । सोपाधौ गतत्वात् । तथाहि । वह्निः साधनं, तत्स- मानाधिकरणो योऽत्यन्ताभावस्तप्तप्रायःपिण्डे तत्प्रतियोगि, चत्वरवत्त्यार्द्वेन्धनं, तत्प्रतियोगिको यो- ऽत्यन्ताभावो महानसे, तत्समानाधिकरणं साध्यो धूमस्तेन सामानाधिकरण्यं वहेः साधनस्य । तथा प्यार्द्वेन्धनसामान्याभाववति धूमो न वर्त्तते इति चेत् । न । सामान्यावच्छिन्नाभावस्यामानकत्वात् । नापि यावत्साधनव्यभिचारितव्यभिचारि यत् साध्यं तेन सामानाधिकरण्यं व्याप्तिः । अनेक- व्यक्तिकोपाधिमति प्रसङ्गतादवस्थ्यात् । अथ केवलान्वयिनि केवलान्वयिसाध्यसामानाधिकरण्यं व्याप्तिः, साध्यवदन्यावृत्तित्वं व्यतिरे- किणि । एतयोरनुमितिविशेषे प्रयोजकत्वम् । अनुमितिमात्रे पक्षधर्मतैव प्रयोजिका । न च तन्मा- त्रादनुमित्यापत्तिः । विशेषसामग्रीसहिताया एव सामान्यसामग्र्या जनकत्वनियमादिति चेत् । न । धूमे साध्यवदन्यावृत्तित्वस्याभावात् । वह्निमत्पर्वतादन्यत्र महानसे धूमस्य वृत्तेः । सकलसाध्य- वदन्यवृत्तित्वं न धूमे इति चेत् । न वह्निमतां प्रत्येकं सकलसाध्यवदन्यत्वात् ॥ अथ सम्बन्धमात्रं व्याप्तिः । व्यभिचारिणोऽपि सम्बन्धस्य केनचित् सह व्याप्तित्वात् वह्नि- धूमादिन्यासिस्तु विशिष्ट्यैव वक्तव्येति चेत् । न । अनुमितिकारणलिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरु- पणप्रस्तावे सम्बन्धमात्राभिधानस्यार्थान्तरत्वात् । तज्ज्ञानादनुमित्यनुत्पत्तेः । नापि व्याप्तिपदप्रवृत्ति- निमित्तमिदं, सम्बन्धज्ञानेऽपि व्याप्तिपदाप्रयोगात् ॥ अत्रोच्यते । यत्सम्बन्धितावच्छेदकावच्छिन्नत्वं यस्य, तस्य सा व्याप्तिः । तथाहि ! धूमस्य वह्निसम्बन्धित्वे धूमत्वमवच्छेदकं, धूममात्रस्य वह्निसम्बन्धित्वात् । वह्नेस्तु धूमसम्बन्धित्वे न वह्नित्वमवच्छेदकं, धूमासम्बन्धिनि गतत्वात् । न ह्यतिप्रसक्तमवच्छेदकम् । संयोगादौ तथात्वादर्श- नात् । किन्तु वहावार्द्रेन्धनप्रभववह्नित्वं धूमसम्बन्धितावच्छेदकं, तादृशञ्च व्याप्यमेव । यद्वा, यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यद्यस्य रूपं, तदेव तस्य व्याप्यत्वम् । वह्निसमानाधिकरण्ये च धूमे धूमत्वेनावच्छिद्यते, सोपाधौ तूपाधिना । यद्वा प्रतियोगिवैयधिकरण्यावच्छिन्नस्वसमाना- धिकरणत्यन्ताभावप्रतियोगितानवच्छेदकावच्छिन्नेन सामानाधिकरण्यं व्याप्तिः । न च धूमवन्निष्ठा- त्यन्ताभावप्रतियोगिता वह्नित्वेनावच्छिद्यते, धूमवति वह्निर्नास्तीत्यप्रतीतेः । रासभत्वन्तु तथा, धूमवति रासभो नास्तीति प्रतीतेः सामान्यावच्छिन्नप्रतियोगिकाभावधान्यः, विशेषाभावप्रमायामपि सामान्ये संशयात् । न चैवं संयोगित्वव्याप्यत्वं सत्त्वस्य स्यात्, कर्मणि संयोगात्यन्ताभावस्य प्रति- योगिवैयधिकरण्यात् एतदेवानौपाधिकत्वमित्युच्यते इति संक्षेपः । प्रकाशिका । सम्बन्धज्ञानेऽपीति । इदमुपलक्षणम् । एवम् अर्थान्तरमित्यपि द्रष्टव्यम् । इतरदन्यत्र व्याख्यातम्। मकरन्दः । सम्बन्धज्ञानेऽपीत्युपलक्षणम् । एवमप्यर्थान्तरतादवस्थ्यादित्यपि द्रष्टव्यम् । व्याप्तिलक्षणान्यनु- मानप्रकाशे द्रष्टव्यानि ।

यस्तबके ] अनुमानप्रामाण्योपपादनम् । २५१ तः सूत्रकारस्याभिमतत्वात् । अन्यथा तद्व्युत्पादनवैयर्थ्यात् ॥ तदयं संक्षेपः । यत्रानुकूलतर्को नास्ति सोऽप्रयोजकः । स च द्विविधः, शङ्कि- तोपाधिर्निश्चितोपाधिश्च । यत्रेदमूच्यते— यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते । विपक्षस्य कुतस्तावद् हेतोर्गमकताबलम् ॥ बोधनी । “अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्क” इति तर्कं लक्षयित्वा वादसूत्रे प्रमाण- तर्कसाधनोपालम्भ इति न्यायाङ्गत्वं तर्कस्य व्युत्पादयतः सूत्रकृतो न्यायोपकारकत्वस्याभिमतत्वात् , अन्यथा तर्कस्य न्यायाङ्गत्वे तद्व्युत्पादनमनर्थकं स्यात् प्रयोजनान्तराभावादिति विस्तरतः प्रतिपादितमर्थं शिष्यानुकम्पया संक्षिप्य वक्ष्याम इत्याह तदयम्-इति । यत्र हेतावुपाधिविधूननेन भूयोदर्शनसहायकमाचरन्ननुकूलतर्को नास्ति सोऽप्रयोजकः, उपाधिमानप्रयोजक इत्युक्तं भवति तत्र शङ्कितोपाधेरप्रयोजकत्वे मीमांसावार्तिकमुदाहरति यावच्च-इति । कोऽसावुपाधिर्नाम यद्वा- प्रकाशः । भूयोदर्शनाविलवे कोऽयमप्रयोजको नामेत्यत्रोत्तरमाह-तदयमिति । अनुकूलत्वञ्च तर्कस्य व्याप्तिग्राहकत्वं व्यभिचारशङ्कानिवर्त्तनद्वारेत्युक्तम् । सोऽयमप्रयोजकः शङ्कितोपाधिः, साधनाऽव्यापक- त्वेन साध्यव्यापकत्वेनोभयथा वा सन्दिग्धः । यथा, मित्रातनयत्वेन श्यामत्वे साध्ये शाकपाकजत्वम् । यथा तुल्ययोगक्षेमत्वेन उपाधेः साध्यव्यपकतया सन्देहे ईश्वरानुमाने शरीरजन्यत्वादि । यथा, मित्रा- तनयत्वे शाकपाकजत्वस्य साध्यव्यापकतासन्देह इति क्रमेणोदाहरणम् । न चोपाधिसन्देहो नोपा- धिर्न वा हेत्वाभासान्तरमिति तदुद्भावने निरनुयोज्यानुयोग इति वाच्यम् ! व्यभिचारशङ्काऽऽधाय- कत्वेन सन्दिग्धानैकान्तिकस्येव दूषकत्वात् । अत्रैव वृद्धसम्मतिमाह ॥ यत्रेति ॥ विपक्षस्याव्यति- रेकित्वं यावच्छङ्क्यते, तावन्न हेतुर्गमक इत्यर्थः । उपाधिसन्देहस्य च ज्ञायमानत्वेनानुमितिप्रति- बन्धकत्वाभावान्न हेत्वाभासान्तरत्वं, स्वरूपसति सन्देहे कारणाभावादेवानुमित्यनुत्पत्तेरिति भावः ॥ प्रकाशिको । शरीरजन्यत्वादिरिति । यद्यपि वस्तुगत्या न्यायमते नायमुपाधिरीश्वरानुमानभङ्गापत्तेः, तथापि विशेषदर्शनदशायामेव तत्सन्देहे, प्रतिबन्धक इत्युपन्यस्तः । वस्तुतो धूमवत्त्वे साध्ये आर्द्रे- न्धनप्रभववह्निमत्त्वमेव कार्यकारणभावाग्रहदशायामुदाहरणं द्रष्टव्यम् । सन्दिग्धेति दूषकत्वमात्रे दृष्टान्तोऽयम् । विपक्षस्येति विपक्षगामित्वं हेतोरित्यर्थः । ज्ञायमानत्वेनेति । इदमापातः । पर- मार्थतोऽनुमिति परामर्शान्यतरसाक्षाद्विरोधाभावादिति द्रष्टव्यम् । अन्यथोपाधेरेव हेत्वाभासतापत्तेरिति सो मकरन्दः । ·यथा तुल्येति । यद्यप्यस्योपाधित्वभावान्न सन्दिग्धोपाधित्वं, अन्यथेश्वरानुमानस्य सोपाधि- त्वापत्तेः, तथापि विशेषादर्शनदशायां कदाचित् तत्सन्देहोऽप्यनुमितिप्रतिबन्धक इति तदपि तथात्वे- नोदाहृतम् । वस्तुतः शाकपाकजत्वादिकमेव साध्यव्यापकत्वमात्रसन्देहदशायां तथेति बोध्यम् । सन्दिग्धेति । दूषकत्वमात्रे दृष्टान्तोऽयम् । विपक्षस्येति । विपक्षगामित्वमित्यर्थः । ज्ञायमानत्वेनेत्यापाततः, परमुखनिरीक्षकत्वेनेति बोध्यम् । अन्यथोपाधेस्तथात्वं स्यादेवेति । टिप्पणी । पितस्य सम्बन्धस्यासम्भवात् । क्षित्यङ्कुरादौ साध्यव्यापकताया सन्देह इति । क्षित्यङ्कुरादौ सन्देहे तथा च साध्यव्यापकत्वसाधनव्यापकत्वसन्देहः । शाकपाकजत्वस्य साध्यव्यापक- तया सन्देह इति । पक्षधर्ममित्रातनयत्वावच्छिन्नश्यामत्ववति मित्रातनये शाकपाकजत्वसन्देहात्