न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 366, कुल 608 में से
संदर्भ में पढ़ें३३४ व्याख्यात्रयोपेतप्रकाशबोधनयुते न्यायकुसुमाञ्जलौ [६ कारिकाव्याख्यायां निगदव्याख्यातमेतत् ॥ ५ ॥ चार्वाकस्त्वाह, किं योग्यताविशेषाग्रहेण ? । यन्नोपलभ्यते तन्नास्ति, विपरीत- मस्ति । न चेश्वरादयस्तथा । ततो न सन्तीत्येतदेव ज्यायः । एवमनुमानादिविलोप इति चेत् । नेदम् अनिष्टम् । तथा च लोकव्यवहारोच्छेद इति चेन्न । सम्भावनामात्रेण तत्सिद्धेः । संवादेन च प्रामाण्याभिमानादिति । अत्रोच्यते— दृष्ट्यदृष्ट्योः क्व सन्देहो भावाभावविनिश्चयात् ॥ अदृष्टिबाधिते हेतौ प्रत्यक्षपि दुर्लभम् ॥ ६ ॥ सम्भावना हि सन्देह एव । तस्माच्च व्यवहारस्तस्मिन् सति स्यात् । स एव बोधनी । संग्रहस्याविवरणे कारणमाह—निगद-इति । निगदः पाठः, स एव व्याख्यानमस्येति ॥ ५ ॥ तदेवमनुपलब्धिमात्रं न बाधकं योग्यानुपलब्धिस्तु नास्तीति मीमांसके निरस्ते परमनास्तिकः चार्वाकः प्रत्यवतिष्ठत इत्याह—चार्वाकस्तु-इति । सिद्धान्ती शङ्कते एवम्-इति । इतर आह नेदम्- इति । प्रत्यक्षैकप्रमाणवादिनो हि वयमिति । तथा च-इति । प्रायशो व्यवहाराणामनुमानाधीनत्वादिति । न-इति । धूमादिदर्शनेऽग्निसंभावनामात्रेण व्यवहरन्ति न तु निश्चयात्, अतो न तदर्थमनुमानप्रा- माण्यमङ्गीकर्त्तव्यमिति । कथं तर्हि व्यवहर्तॄणां प्रमाणमूलोऽयं व्यवहार इत्यभिमान इत्यत्राह संवा- देन च-इति । संभावनामात्रेण प्रवर्त्तमाना यादृच्छिककार्यसंवादेन प्रवर्त्तकविज्ञानस्य प्रामाण्यमभि- मन्यन्ते न तु निश्चायकत्वादिति । अत्रोच्यते—इति । संदेहात् प्रवृत्तिरिति तावन्न संभवति, भवत्पक्षे संदेहस्यैवासंभवात् । दृष्टौ सत्यामदृष्टौ वा सत्यां क्व कस्मिन्विषये दृष्टेऽदृष्टे वा, संदेहः स्यादुभयोरप्युभयत्रापि न संभवति । संशयस्य हेतुर्विषयश्च नास्तीत्यर्थः । कुतः भावाभावनिश्चयात् दृष्टादृष्टयोरित्येव दर्शनदशायां भावा- वधारणादर्शनदशायां वाऽभावावधारणात् अतो व्यवहारार्थमनुमानादिकमेवाङ्गीकरणीयं, तच्चानुप- लम्भमात्रेणाभावनिश्चये दुर्लभम् । न केवलम् अनुमानादिकमेव, प्रत्यक्षपि तद्धेतौ चक्षुरादावनुपल- ब्धिमात्रेण बाधिते कारणाभावात् कार्याभाव इति न्यायेन दुर्लभमिति सर्वोपप्लव इति । ननु मा नाम भूत्संदेहः संभावनया व्यवहारमभ्युपगच्छतः किमायातमिति शङ्कामपनुदन्व्याचष्टे प्रकाशः । सम्भावनेति ॥ उत्कटकोटिकसंशयमात्रेणेत्यर्थः ॥ दृष्ट्यदृष्टयोरिति, सप्तमीद्विवचनान्तम् । दर्शने तत्सत्त्वनिश्चयाद् अदर्शने चाभावनिश्चयान्न सन्देहः प्रत्यक्षहेतौ गोलकादावदृष्ट्या अनुपलब्ध्या, बाधिते हेत्वभावात् प्रत्यक्षपि न स्यादित्यर्थः ॥ प्रकाशिका । असिद्धिरेव वा, आद्ये बाधो, द्वितीये सिद्धसानम्, तृतीय आश्रयासिद्धिरित्यर्थः । वस्तुत आप्तोक्त- त्वादेर्धर्म्म्यंशवद् धर्म्मांशेऽपि तस्य प्रामाण्यमिति भावः ॥ ५ ॥ मकरन्दः । र्म्मांशेऽपि प्रामाण्यमन्यथा न धर्म्म्यंशेऽपीत्याश्रयासिद्धिरेवेति भावः । अस्मदादिपक्षत्वे सिद्धसा- धनं बोध्यम् ॥ ५ ॥ टिप्पणी । स्यादिति सर्वज्ञत्वाभावसाधने व्याघातः, धर्म्यंशेऽप्रामाण्ये धर्मांशे तत्स्यादिति धर्मसिद्धौ व्याघात इति भावः ॥ ५ ॥