भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 367, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 367

तु कुतः ? । दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावावधारणात् । तथा च गृहाद् बहिर्गतश्चार्वाको वराको न निवर्त्तेत । प्रत्युत, पुत्रदारधनाद्यभावावधार- णात् सोरस्ताडं शोकविकलो विक्रोशेत् । स्मरणानुभवान्नैवमिति चेन्न । प्रतियोगि- स्मरण एवाभावपरिच्छेदात्, परावृत्तोऽपि कथं पुनरासादयिष्यति । सत्त्वादिति चेदनुपलम्भकालेऽपि तर्हि सन्तीति न तावन्मात्रेणाभावावधारणम् । तदैवोत्पन्ना इति चेन्न । अनुपलभ्भेन हेतूनां बाधात् । अबाधे वा स एव दोषः । अत एव प्रत्य- क्षमपि न स्यात्, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् । उपलभ्यन्त एव

बोधनी । संभावना हि-इति । ततः किमित्यत आह तथा च-इति । गृहान्तर्वर्त्तिनोऽपि निर्गतस्याभावाव- धारणात् विलीयेयुरिति भावः । स्मरण-इति । बहिर्निर्गतेनापि पुत्रादीनां स्मरणेनोपलम्भात् नोक्तः प्रसङ्ग इति । न-इति । प्रतियोगिस्मरणसहकृतस्यैवानुपलम्भस्याभावविशेषपरिच्छेदहेतुत्वान्न स्मरणो- पलम्भो न केवलमभावपरिच्छेदं प्रतिबध्नाति प्रत्युतोन्मूलातीति यदृच्छया परावृत्तोऽपि न पुनः पुत्रादीनासादयेदित्याह परावृत्तोऽपि-इति । तेऽपि नासादयेयुरिति भावः । ननु परावृत्तिकाले तेषां सत्त्वादासादयिष्यन्तीत्याह सत्त्वात्-इति । अनुपलम्भकाल इति स्पष्टः परिहारः नानुपलम्भकाले- ऽपि सन्तः पुत्रादयः पुनरासाद्यन्ते । किन्तु यदोपलभ्यन्ते तदैवोत्पन्ना अन्य एवेत्याह तदैव-इति । न-इति । तदुत्पत्तिहेतूनां तदानीमनुपलम्भेन बाधितत्वात्तदुत्पत्तेरसम्भवाददुनुपलम्भेऽपि वा तेषामबाधे स एवानुपलम्भमात्रेण नाभावावधारणमिति दोषः स्यादिति संग्रहस्योत्तरमर्धं व्याचष्टे अत एव- इति । यत एवानुपलम्भमात्रेणासत्त्वाङ्गीकार इति । उपलभ्यन्ते-इति । स्पष्टम् । तन्मतमङ्गीकृत्यै-

प्रकाशः । तथा चेति ॥ पुत्रादिभिस्तस्यादर्शनात् स न स्यादिति गृहं न प्रत्यावर्त्तेतेत्यर्थः ॥ प्रत्युतेति ॥ पुत्रादेरदर्शनादित्यर्थः ॥ ननु नाप्रत्यक्षं प्रमाणमिति चार्वाकसिद्धान्तादनुपलब्धिः प्रत्यक्षसहकारिणी । न च गेहाद्बहिर्ग- मनेऽधिकरणेन सहेन्द्रियसन्निकर्षोऽस्तीति न पुत्राद्यभावनिश्चयः स्यात् । सन्निकृष्टे देशे चाभाव- निश्चयेऽपि ध्वंसानिश्चयान्न शोकः स्यात् । अत एव, पर्वते परभागेन सह इन्द्रियाऽसन्निकर्षाद् वह्न्यभावनिश्चय इति तत्र संशयादनुमानप्रवृत्तिः । अत्राहूः । अधिकरणज्ञानमात्रमभावधीहेतुर्न तु तदिन्द्रियसन्निकर्षोऽपि । अत एव, देवताद्यभावस्तदधिकरणसन्निकर्षेऽपि गृह्यते इति चार्वाक- सिद्धान्तमाश्रित्योक्तम् ॥ पुत्रादेः स्मरणान्नैवं करोतीत्याह ॥ २॥ स्मरणेति ॥ स्मरणादिति वक्तव्ये अनुभवग्रहणं तत्र प्रमाणसूचनार्थम् । पुत्रादिस्मरणं तदभावग्रहेऽनुकूलमेव, प्रतियोगिज्ञानं विना तदग्रहादित्याह ॥ प्रतियोगीति ॥ अनुपलम्भकाले इति ॥ तथा चानुपलब्धिमात्रमभावसंशये हेतुर्न तन्निश्चा- यकमित्यर्थः । हेतूनां पुत्राद्युत्पादकानामित्यर्थः ॥ स एवेति ॥ नानुपरूब्धिमात्रेणाभावनिश्चय इत्यर्थः ॥ अत एवेति ॥ हेतूनां बाधादेवेत्यर्थः । ननु चक्षुरादीनामपि स्वोपलब्धिक।ले सत्त्व-

प्रकाशिका । सप्तमोति । सति सप्तमीत्यर्थः । संशयादनुमानप्रवृत्तिरिति । भवतां नैयायिकानामिति

टिप्पणी । अनुमानप्रवृत्तिरिति । परैरभ्युपगतानुमानजन्यप्रवृत्तिः ।