न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 370, कुल 608 में से
संदर्भ में पढ़ें३३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकावतरणिकायां निर्बीजशङ्कायाः सर्वत्र सुलभत्वात्। नापि व्याप्यान्तरसहवृत्तिः। एकत्रोपि साध्ये- ऽनेकसाधनोपगमात्। नाप्यल्पविषयः, धूमादेस्तथाभावेऽपि हेतुत्वात्। ननु धूमो वह्निमात्रे अप्रयोजक एव, तन्निवृत्तावपि तदनिवृत्तेः। आर्द्रन्धनवन्तं वह्निविशेषं प्रति तु प्रयोजकः, तन्निवृत्तौ तस्यैव निवृत्तेरित्येतदप्ययुक्तम्। सामान्याप्रयोजक तायां विशेषसाधकत्वायोगात्तदसिद्धौ तस्यासिद्धिनियमात्। सिद्धौ वा सामान्य- विशेषाभावानुपपत्तेः। नापि क्लृप्तसामर्थ्येऽन्यस्मिन् कल्पनीयसामर्थ्योऽप्रयोजकः, नाशे कार्यत्वसावयवत्वयोरपि हेतुभावादिति ॥ बोधनी । इति। तथा च सर्वोऽपि हेतुरप्रयोजकः स्यादिति। नापि व्याप्यान्तर-इति। स्पष्टम्। नाप्यल्पविषय-इति। न हि धूमादिः सपक्षव्यापक इति। स एव तत्र किंचिदाशङ्क्य निराकरोति ननु-इति। न हि धूमः स्वनिवृत्तावप्यनिवर्त्तमाने वह्नौ प्रयोजको नामेति। कुत्र तर्हि प्रयोजक इत्यत्राह आर्द्रन्धनवन्तम् इति। तस्यैव वह्निविशेषस्यैवेति। कुतो युक्तमित्यत्राह सामान्य- इति। न हि संभवति वह्निविशेषं साधयति न तु सामान्यमिति सामान्यासिद्धौ विशेषस्यासिद्धेर्निय- तत्वात्। यदि वा तदापि विशेषः सिध्येन्न तर्हि सामान्यविशेषाभावः स्यात्, न हि तस्मिन्नसिद्धेऽपि सिध्यतस्तद्विशेषकत्वमिति। सकलसपक्षवर्त्तिनि हेत्वन्तरे सत्येकदेशवृत्तिरप्रयोजको यथा निषिद्धत्वे सति हिंसात्वम्। निषिद्धत्वं हि सकलभक्षणादेरप्यधर्मत्वसिद्धयर्थं क्लृप्तसामर्थ्यमिति। तदेव सर्वत्राधर्मत्वे प्रयोजकं हिंसात्वं च नैवंविधमप्रयोजकमित्याशङ्क्याह नापि क्लृप्त-इति। प्रकाशः। कारणैकदेशस्यापि तदितराशेषकारणव्याप्यस्यान्यतन्तुसंयोगादेः पटादौ लिङ्गत्वाङ्गीकारादित्यर्थः। निर्बीजेति। साध्याभावसहचारदर्शनस्य शङ्काबीजस्याभावात्, भावे वा व्यभिचार एव स्फुटो दोष इत्युक्तमित्यर्थः। अल्पविषय इति। व्यापकवनिष्ठात्यन्ताभावप्रतियोगीत्यर्थः। तन्निवृत्ता- विति। धूमनिवृत्तावपि वह्नयनिवृत्तेरित्यर्थः। तस्यैवेति। आर्द्रन्धनप्रभववह्नेरित्यर्थः। सामा- न्येति। वह्निसामान्याव्याप्यत्वे तद्विशेषव्याप्यतैव न स्यात्, सामान्यस्य विशेषव्यापकत्वादित्यर्थः। तथा च, विशेषव्याप्यत्वे सामान्यव्याप्यत्वं ध्रुवमिति भावः। नाश इति। गुणादिनाशे भावकार्य- त्वस्य प्रयोजकत्वे क्लृप्तेऽपि द्रव्यनाशे तद्व्याप्यसावयवत्वस्यापि तत्त्वाङ्गीकारादित्यर्थः। प्रकाशिका। ननु कारणं व्यापकं तत्कथं व्याप्ये लिङ्गमत्त आह। कारणैकदेशस्यापीति। साध्या- भावसहचारदर्शनस्येति। यद्यपि साध्याभावसहचारो व्यभिचार एवेति तद्दर्शनं न तत्तच्छङ्का- बीजम्। तथाप्युपाधिशङ्काबीजं तत्, उपाधेर्व्याप्त्यभावात्मकत्वादिति मन्तव्यम्। ध्वंसेऽतिप्रसक्तं- कार्यत्वमिति भावपदेन पूरयित्वा व्याचष्टे। भावकार्यत्वस्येति। यद्यपि कल्पनायां पौर्वापर्य्यनियमे मकरन्दः। ध्वंसे व्यभिचारेण भावपदमन्तर्भावयति। भावकार्यत्वस्येति। यद्यप्यत्र पौर्वापर्य्यनियमे मानाभावः, तथापि सामान्यविशेषयोः प्रथममुत्सर्गंतः सामान्यस्योपस्थितिरित्याशयेन तथोक्तम्। टिप्पणी। साध्याभावसहचारदर्शनस्य शङ्काबीजस्येति। हेतुतावच्छेदकाश्रये यत्किञ्चिद्धर्मिणि साध्या- भावसहचारग्रहस्य व्यभिचारशङ्काप्रयोजककोटिद्वयसहचरितहेतुतावच्छेदकरूपसाधारणधर्मदर्शनसम्पा- दकतया पक्षदृष्टहेतौ व्यभिचारशङ्काप्रयोजकत्वमिति भावः॥ भावे वा व्यभिचार एवेति। पक्षधर्म्मि- हेत्वसाधारणधर्मेण हेतुत्वस्य सहचारग्रहाभावेनासम्भवात् सामान्यधर्मेणैव हेतुत्वमभ्युपेयं तत्र व्यभि-