न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 371, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुमानप्रामाण्याशङ्कोपादानम्। ३३६ तदेतदपेशलम्। कथं हि विशेषाभावात् कश्चिद्व्यभिचरति, कश्चिन्न नेति शक्यमवगन्तुम् । अतो निर्णयाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा । एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनो नोपालम्भाय । स्व- भावादेव कश्चित् किञ्चिद्व्यभिचरति, कश्चिन्न नेति स्वभाव एव विशेष इति चेत् केन चिह्नेन पुनरसौ निर्णय इति निपुणेन भावनीयम् । भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् । यत्र भङ्गो न दृश्यते तत्र तत् तथेति चेत् । आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न दृश्यते इति को नियन्तेति । तस्मादुपा- धितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनं, तदवधारणाञ्चाशक्यमिति ॥ बोधनी। अत्र सामर्थ्यं व्याप्तिस्तस्या अनुमितिज्ञानोत्पादने लिङ्गसहकारित्वादिति तदेकदेशिमंतं पूर्वपक्षी दूषयति—तदेतत् इति । किमुपाधिविधूननेन भूयःसाहचर्यदर्शने सति कोऽयमप्रयोजको नामेत्येत- दशोभनं शङ्कितव्यभिचारस्याप्रयोजकत्वादुपाधिविधूननायत्तत्वाच्च शङ्कानिरासस्येति भावः । तदेवोप- पादयति—कथं हि इति । निश्चितोऽव्यभिचारो हि हेतुर्गमकः, अन्यथातिप्रसङ्गात् । तन्निश्चयश्च न साहचर्यमात्रात्सिध्यति भूयःसहचरितानामपि क्वचिद् व्यभिचारदर्शनात्, तस्माद् व्यभिचार्याव्यभिचा- रिणोः साहचर्ये विशेषाभावात्तन्मात्रेणाव्यभिचारनिश्चयानुपपत्तेर्व्यभिचारशङ्कानिरसनहेतुः कश्चिदन्वेष्ट- व्यः, स चोपाधिविधूननमेवेति भावः । तत्र यदुक्तं निर्बीजशङ्का न युक्तेति तदप्यत एव निरस्तमि- त्याह—अत इति । निर्णायकविशेषादर्शने सति साहचर्यमेव व्यभिचार्यव्यभिचारिणोः साधारणधर्म- त्वात्संशयहेतुर्भवतीति । एवं च यदि भूयोदर्शने सत्यपि शङ्का स्यात् सर्वत्रापि सा स्यादित्येकदेशिना चार्वाकं प्रत्यापादिताऽतिप्रसक्तिरनुमानप्रामाण्यमनिच्छतस्तस्य नोपालम्भाय भवति प्रत्युत नन्दना- येत्याह—एवं सति इति । यद्वा, अनुमानमिच्छतः सिद्धान्तिनो नोपालम्भाय तस्योपाधिविधूननेन शङ्कानिवारणाभ्युपगमादिति । एकदेश्याह—स्वभावादेव इति । तेनाव्यभिचारः स्वभावमात्राधीनः न तु तदर्थमन्योऽन्वेष्टव्य इति । इतर आह—केन इति । सत्यमेवं, स तु स्वभावो निर्णीत एव व्यभिचारशङ्कां निवर्तयतीति तन्निर्णयार्थमन्योऽन्वेष्टव्य इति । तर्हि भूयोदर्शनमेवास्तु निर्णायक- मित्यत्राह—भूयोदर्शनस्य इति । शङ्काया एव बीजमेतदित्युक्तमिति भावः । यत्र इति । तद् = अदृष्टभङ्गम् । तथा अव्यभिचारस्वभावम्—इति । आपाततः इति । सर्वत्र सर्वदा व्यभिचारो न भूयोदर्शनमात्रात्सिध्यतीति तत एवं वक्तव्यमित्याह—तस्मात् इति । तर्ह्यनुपलम्भे नोपाधिविर- होऽवधार्यत इत्यत्राह—तदवधारणम् इति । अनुपलब्भमात्रस्य निषेधकत्वाभ्युपगमादिति । प्रकाशः । कथं हीति । सहचारदर्शनस्य व्यभिचार्यव्यभिचारिसाधारणत्वात्तदेव विशेषादर्शनसहकृतं व्यभिचारशङ्काबीजमित्यर्थः । एवं सतीति । "अवश्यं शङ्कया भाव्यं नियामकम्पश्यताम्"* इति चार्वाकोक्तातिप्रसक्तिर्नोपालम्भाय, शङ्काबीजस्य सहचारदर्शनस्य सत्त्वादित्यर्थः । यथा किञ्चित् कस्यचित् कार्यं कारणं चेत्यत्र स्वभाव एव नियामकः, तथा किञ्चित् कस्यचिद्व्याप्यं व्या- पकं चेत्यत्रीत्याह । स्वभावादेवेति । स स्वभावविशेष एव कुतोऽवधार्य इत्याह । केनेति । भूयोदर्शनस्येति । पार्थिवत्वलोहलेख्यत्वयोरपि व्यभिचारदर्शनादित्यर्थः । अनन्यगतिकतयोपा- धिविरह एव तदुपायः । स च दुरवधारण इत्याह । तस्मादिति । प्रकाशिका । मानाभावः, तथापि गुणादिसाधारण्यार्थमवश्यक्लपनीयमेवात्र क्लृप्तत्वम् । सहचारदर्शनेति । मकरन्दः । सहचारदर्शनस्येति । शङ्कितव्यभिचार एवाप्रयोजक इति भावः । स उपाध्यभावः। नन्वनौ-