न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 384, कुल 608 में से
संदर्भ में पढ़ें३५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्या तत्रोपाधिस्तु, साधनाव्यापकत्वे सति साध्यव्यापकः । तद्धर्मभूता हि व्याप्ति- र्जपाकुसुमरक्तेव स्फटिके साधनाभिमते चकास्तीत्युपाधिरसावुच्यते इति ॥ बोधनी। नप्रयोजक इत्यत्राह उपाधिस्तु- इति । एकस्मिन्साध्ये साधनत्वेनोपलभ्यमानयोः यः साधनाव्याप- कत्वे सति साध्यसमव्याप्तिकः स इतरस्य साध्यसम्बन्धे उपाधिः स्यात्, तत्र साध्यव्यापक इत्येवो- च्यमाने अनित्यत्वसाधने सावयवत्वे कृतकत्वमुपाधिः स्यात्, अथ साधनाव्यापक इत्येवाभिधीयते तदा कृतकत्वे सावयवत्वमुपाधिः स्यात्, न चैतद्युक्तमुभयस्यापि प्रयोजकत्वादिति । एवं लक्षण- मुपाधिशब्दप्रवृत्तिनिमित्तमाह तद्धर्म-इति । संसृज्यमाने तद्धर्मविरहिणि धर्मिणि स्वधर्मप्रतिभास- प्रकाशः। साधनाव्यापकश्च इति ॥ साधनत्वाभिमताव्यापकत्वे साध्यत्वाभिमतव्यापक इत्यर्थः । व्यापक- त्वञ्च तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति न व्यापकादिज्ञानेऽन्योन्याश्रयः ॥ ननु साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तिः । न च तयोरनुपाधित्वं, दूषक- ताबीजसाम्यात् । बाधानुन्नीतेपक्षेतरेऽतिव्याप्तिश्च । अथ प्रयोजको धर्म उपाधिः । तत्त्वञ्च न न्यूनाधिकदेशवृत्तेः । तस्मिन् सत्यप्यभवतस्तेन विनाऽपि भवतश्च तदप्रयोज्यत्वात् । पक्षेतरत्वन्तु प्रकाशिका। पाधौ न वास्तवः साध्यसाधनभाव इत्यत्र उभयत्राभिमतपदं पूरयति । साध्यत्वाभिमतेत्यादि । नान्योन्याश्रय इति । उपाध्यभावज्ञानाधीनं व्याप्तिज्ञानमित्यन्योन्याश्रयो नोक्तक्रमेणेत्यर्थः । साध- नावच्छिन्नेति । आत्मा प्रत्यक्षः प्रत्यक्षस्पर्शश्रयत्वादित्यत्र साधनावच्छिन्नसाध्यव्यापकं रूपवत्त्वं, वायुः प्रत्यक्षः प्रमेयत्वादित्यत्र च बहिरिन्द्रियत्वावच्छिन्नसाध्यव्यापकं रूपवत्वमुपाधिरित्युभयोरसङ्कीर्णमुदाहरणं द्रष्टव्यम् । बाधानुन्नीतेति स्वन्मत इति शेषः । अन्यथा स्वमतेनाप्यव्याप्यभिधानमप्रेतनं विरुद्ध्येत । पक्षानन्तर्भावेनैव च साध्यव्यापकताज्ञानं दूषकमिति दूषकताबीजस्यैवातिव्याप्तिरित्युद्भाव्यति । साध्यप्रयो- जकत्वे सति साधनाव्यापकत्वमुपाधिलक्षणं। तच्च पक्षेतरत्वे नातिव्याप्तमित्याशङ्कते। अथ प्रयोजक इति। मकरन्दः। साधनत्वसाध्यत्वे-व्याप्यत्वव्यापकत्वे, न च सोपाधौ वस्तुतस्तथात्वमत आह अभिमतेति । ननु व्यापकत्वं व्याप्तिनिरूपकत्वम् । तथा च व्याप्तौ गृहीतायामुपाधिप्रत्ययस्तत्प्रत्यये च तदभावरूपा नौपाधिकत्वप्रत्ययाधीनव्याप्तिप्रत्यय इत्यन्योन्याश्रय इत्यत आह व्यापकत्वञ्चेति । प्रतियोग्यस- मानाधिकरणत्वमप्यत्यन्ताभावविशेषणम् । तेन संयोगस्य द्रव्यत्वव्यापकत्वम् । पक्षेतरस्योपाधित्वं मन्यमानोऽपि नैयायिकसिद्धान्तानुसारेण तल्लक्षणेऽतिव्याप्तिं ददाति बाधानुन्नीतेति । त्वन्मते इति शेषः । एतदपि पक्षान्तर्भावेण साध्यव्यापकत्वानिश्चयात् पक्षातिरिक्तसाध्यव्यापकत्वाभिप्रायेण बोध्यम् । एतच्चाग्रे स्फुटम् । ननु साध्यप्रयोजकत्वे सतीति लक्षणविशेषणं तच्च न पक्षेतरत्वे इति नातिव्याप्तिरित्याह अथेति । न तथा, न प्रयोजकत्वघटितलक्षणवदित्यर्थः । एतेनोक्तशङ्काया टिप्पणी। सन्देहः । तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वमिति न तु व्याप्तिनिरूपकत्वमिति शेषः । न व्यापकादिज्ञानेऽन्योन्याश्रय इति । व्याप्तौ गृहीतायामुपाधिप्रत्ययः, तस्मिन् सति तदधीनानौपाधिकत्वज्ञानाधीनव्याप्तिग्रह इत्यन्योन्याश्रयः ॥ तर्कश्च त्वया व्यभिचारशङ्कानांभाव- सम्पादनाय व्याप्तिग्राहकोऽभ्युपेयते व्यभिचारज्ञानञ्चोपाध्यधीनम्, उपाधिरेव च न निर्वक्तुं शक्य इति कृतस्तर्कोऽभ्युपेय इति खण्डनरसिकः स्वेष्टासाधकमपि चार्वाकः शङ्कते नन्विति । स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वं साधनावच्छिन्नसाध्यव्यापकम् वायुः प्रत्यक्षः प्रत्यक्षगुणत्वादित्यत्रोद्भूतरूपवत्त्वम् पक्षधर्मबहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकमुपाधिः ।