न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 391, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३५६ प्रकाशः । पक्षात्तन्निर्वाहार्थमुपाधिर्वाच्य इति चेत् । न । एवं सति प्रकृतानुमाने उपाधेर्दूषणत्वापत्तेः । अत एव पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्यपास्तम् । आर्द्रन्धनवत्त्वादौ नियततादृशधर्माभावेनाव्याप्तेश्च । शब्दोऽभिधेयः प्रमेयत्वादित्यत्र शब्दधर्म्मगुणत्वावच्छिन्नाभिधे- यत्वव्यापकस्याश्रावणत्वस्योपाधित्वापाताच्च । नापि पक्षावृत्तित्वे साध्यव्यापकत्वमुपाधित्वम् । शब्दो- ऽनित्यः गुणत्वादित्यत्र कृतकत्वस्य शब्दवृत्तेरुपाधित्वापातात् । न च स्फुटे व्यभिचारे निष्फल- मुपाध्यनुसरणमिति वाच्यम् । व्यभिचारेऽवश्यमुपाधिसत्त्वात् । अन्यथैकत्र साधने साध्यतदभावस- म्बन्धस्यावच्छेदभेदं विनाऽनुपपत्तेः ॥ अथ पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । पर्यवसितं च साध्यं पक्षधर्मता- वल्लभ्यम् । यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् प्रमेयत्वादित्यत्र यथोक्तसाध्या- व्यापकत्वेऽपि पक्षधर्मताबल्लभ्यस्यानित्यत्वस्य साध्यस्य व्यापकं कृतकत्वमुपाधिः, कृतकत्वे चैवं साध्यमानेऽनित्यत्वमुपाधिः । तन्न । पक्षधर्मताबल्लभ्यसाध्यसिद्धौ हि निष्फल उपाधिः, तदसिद्धौ च कस्य व्यापकः ? । न हि सोपाधौ पक्षधर्मताबलात् साध्यं सिद्ध्यति, यद्व्यापक प्रकाशिका । तथापि विशेषणस्य साध्येऽवच्छेदकत्वमाश्रित्येदं दूषणमुक्तम् । वस्तुत आत्मा प्रत्यक्षः प्रत्यक्षस्पर्शा- श्रयत्वादित्यत्र साधनावच्छिन्नसाध्यव्यापकरूपवत्त्वोपाधावव्याप्तिरिति दूषणं द्रष्टव्यम् । नन्वस्योपाधे- र्व्यभिचारोन्नायकत्वमसम्भवि यथाश्रुतसाध्यस्य केवलान्वयित्वात् पर्यवसितसाध्यव्यभिचारस्य प्रकृ- तानुमानादूषणत्वात् तथा च सत्प्रतिपक्षोन्नायकतया दूषणत्वं वाच्यम् तच्चासम्भावि, कृतकत्वस्या- प्युक्तरीत्या शब्दे सिद्धौ तद्व्यतिरेकस्य हेतौ स्वरूपासिद्धेरत आह । कृतकत्वे चेति । तथा चोपाधिदातृम्मते शब्दे कृतकत्वमसिद्धमेवेति तद्व्यतिरेकेण सत्प्रतिपक्षत्वमविकलमेवेति भावः । मकरन्दः । पदाद्व्यभिचारादिपरिग्रहः । अन्यतरव्यतिरेकेऽप्यन्यतरसत्वे लिङ्गस्यासमीचीनत्वादित्यर्थः । ननु साधनावच्छिन्नसाध्यस्य पक्षेऽपि सत्त्वात्तद्व्यापकत्या नातिप्रसङ्ग इत्यनुशयादाह पक्षधम्र्मेति । वायुः प्रत्यक्षः प्रमेयत्वादित्यादामुद्भूतरूपवत्त्वाद्युपाधावव्यापनादित्यर्थः । आर्द्रन्धनवत्त्वाद्विति । यद्यपि द्रव्यत्वादिकमवच्छेदकं सम्भवत्येव तथाप्यवच्छेदकस्य साध्ये व्याप्यतावच्छेदकत्वमभिप्रेत्यै- तदुक्तम् । तदिदमाह नियतेति । नियतावच्छेदकेत्यर्थः । धूमत्वस्यैवाईन्धनव्याप्यतावच्छेदकत्वा- दिति भावः । वस्तुतः प्रागभावो विनाशी जन्यत्वादित्वादौ भावत्वाद्युपाध्यव्याप्तिर्बोध्या । शब्दोऽ- भिधेय इति । एतच्च पक्षातिरिक्तसाध्यव्यापकत्वमादाय बोध्यम् । व्यभिचार इति । अस्फुट- त्वदशायां तदनुसरणसम्भवाच्चेत्यपि द्रष्टव्यम् । यथेति । यद्यप्यत्र व्यभिचाराभावान्नदथाप्तोपाधे- रनुत्पत्तिः, तथापि सत्प्रतिपक्षे विरोधमात्रस्य तन्त्रत्वेन पर्य्यवसितानित्यत्वरूपसाध्याभावसाधनद्वारा तदुत्थापकतयैवोपाधित्वमित्येतन्मततात्पर्यम् । न च कृतकत्वस्य पक्षवृत्तितया तद्व्यतिरेकस्यासिद्ध- त्वात्र तदुत्थापकत्वमपीति वाच्यम् । शब्दनित्यतावादिना उपाधिदातृर्मते शब्दस्याकृतकत्वादिति टिप्पणी । प्रत्यक्षः प्रत्यक्षगुणत्वादित्यत्र बहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकोद्भूतरूपवत्त्व इत्यर्थः । उपाधे- रदूषकतापत्तेरिति । तस्य प्रकृतसाध्यव्यभिचारोन्नायकत्वाभावाद् विशिष्टसाध्यव्यभिचारस्यैव तथा त्वादित्यर्थः । नियततादृशधर्माभावेनेति । साध्यतावच्छेदकमात्रस्यैवोपाधिव्याप्यतावच्छे- दकत्वेन व्यर्थाविशेषणघटितसाध्यतावच्छेदकस्य व्याप्यता नवच्छेदकत्वात् तद्धर्मावच्छिन्नव्यापक- त्वाप्रसिद्धेरित्यर्थः । नियततादृशधर्मेत्यस्य नियततावच्छेदकेति तात्पर्य्यार्थः । यदि स्वतः साध्य- मुपाधिव्याप्यन्न भवेद् भवेत् कश्चित् तत्सम्पादको धर्मो नियतः स नास्तीत्यक्षरार्थः ।