न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 398, कुल 608 में से
संदर्भ में पढ़ें३६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्यानं क्व पुनरप्रयोजकोऽन्तर्भवति ?। न क्वचिदित्येके । तथाहि, सिद्धसाधनं न बाधि- तविषयम्, । विषयापहाराभावात् । नापि निर्णये सति पक्षतातिपातादपक्षधर्मः । कालातीतविलोप्रसङ्गात् । न चानेकान्तिकादिः । व्यभिचाराद्यभावात् । तथाऽप्य- मपि । सूत्रं तूपलक्षणपरमिति ॥ तदसत् । विभागस्य न्यूनाधिकसंख्याव्यवच्छेदफलत्वात् । क्व तर्हि द्वयोरन्त- र्निवेशः । असिद्ध एव । तथाहि व्याप्तस्य हि पक्षधर्मताप्रतीतिः सिद्धिः । तद्- बोधनी । उक्तत्वे बाधकाभावेन तद्विरहसंभवेन साधनं मैत्रतनयत्वं प्रति तस्या अव्यापकत्वात् श्यामत्वां प्रति च कारणत्वेन व्यापकत्वात्कारणातिपाते च कार्यासम्भवप्रसङ्ग इति चिरन्तने वाक्येन कार्यं प्रति कारणस्य व्यापकत्वसिद्धेः । इदं च शङ्कितोपाधेः प्रयोजकस्योदाहरणं शाकादिपरिणतेर्मैत्रतनयत्वं प्रति व्यापकत्वानिश्चयात् निश्चयोपाधेस्त्वधर्मत्वसाधनं निषिद्धत्वोपाधिकं हिंसात्वं गमकमिति सव्य- भिचारादिषु कुत्रान्तर्भावो अप्रयोजकस्येति प्रसङ्गात् पृच्छति क्व पुनः-इति । तत्रैकदेश्युत्तरमाह न क्वचित्-इति । कथं सव्यभिचारादिषु पञ्चस्वनन्तर्भूतो हेत्वाभासः स्यादित्याशङ्क्याह यथा हि- इति । सिद्धसाधनद्वयमपि पृथगेव हेत्वाभास इति संदिग्धसाध्यधर्मविशिष्टस्य पक्षत्वात् साध्य- निर्णये सति तदभावादपक्षधर्मः सिद्धसाधनमिति सिद्धान्तदृष्ट्याशङ्क्याह नापि-इति । एवं काला- तीतोऽपि न पृथक् हेत्वाभासः स्यात् तत्रापि विपर्ययनिर्णयेन साध्यसन्देहाभावात् सपक्षाधर्मतोपपत्ते- रिति । न च-इति । विरुद्धत्वादेस्तत्संभावनैव नास्तीति भावः । दार्ष्टान्तिके निगमयति तथाप्य- मपि-इति । यद्यनयोर्नान्यत्रान्तर्भावः कथं तर्हि "सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा” इति विभागोद्देशसूत्रमित्यत आह सूत्रं तु-इति । विभागस्य-इति । अन्यथा विभा- गोद्देशोऽनर्थकः स्यादिति । यद्यनयोर्हेत्वाभासान्तरत्वं न स्यात् तर्हि सव्यभिचारादिषु कस्मिन्न- न्तर्भाव इत्याह क्व तर्हि-इति । असिद्ध एव-इति तयोर्निवेश इत्यनुषङ्गः, सिद्धिनिरूपणपुरःस- रमसिद्धिप्रकारानभिधाय तत्रैवानयोरन्तर्भावमुपपादयति तथाहि- इति । तत्रान्यथासिद्धोऽप्र- योजकः, मध्यमाप्याश्रयासिद्धिर्द्विधा भवति । आश्रयस्य धर्मिणोऽभावात् । तद्विशेषणस्य सन्दिग्ध- साध्यधर्मवत्त्वस्याभावाद्विशेष्याभाव इव विशेषणाभावेऽपि विशिष्टधर्मस्याविशिष्टत्वात्तयोर्द्वितीया प्रकाशः । क्व पुनरिति । पञ्चसु हेत्वाभासेष्वित्यर्थः । तत्र कस्यचिन्मतमाह । न क्वचिदिति । पञ्चभ्यो हेत्वाभासान्तरमेवेत्यर्थः । विषयेति । प्रमितसाध्याभाववद्धर्मिकत्वाभावादित्यर्थः । नापीति । साध्यनिश्चये सन्देहघटितपक्षत्वाभावादित्यर्थः । कालेति । साध्याभावस्य धर्मिणि प्रमायामपि तत्सन्देहाभावादपक्षधर्मत्वाद् बाधोऽप्यसिद्ध एवान्तर्भवत्वित्यर्थः । सूत्रं त्विति । सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः (न्याय० १. २. ४५) इति विभागोद्दे- शसूत्रमित्यर्थः । विभागस्येति । यद्यपि विभागसूत्रं न शब्दविधया न्यूनाधिकसंख्याव्यवच्छेदं प्रत्याययति युक्तिशास्त्रस्वव्याघातादिति परीक्षैकवाक्यतया च तेन प्रत्याय्यस्तथा च परीक्षाशास्त्र तात्पर्यावश्यकत्वे विभागसूत्रस्यापि तत्र तात्पर्यकल्पने मानाभावः । तथापि परीक्षैकवाक्यतया पर्यवसित एवार्थो विभागस्य दर्शितः । द्वयोरिति । सिद्धसाधनाप्रयोजकयोरित्यर्थः । व्याप्तस्ये- प्रकाशिका । राद् स्थलशङ्कवे पङ्कजपदमिवेत्यर्थः । आधिक्येऽपि क्वचिदन्तर्भाव एवेत्यत आह । पञ्चस्विति । साध्याभावप्रमावाध इति मतानुसारादाह । प्रमितेति । असावकतानुमान इति विशिष्टाभावस्य मकरन्दः । रोधादाह प्रमितेति । ननु दृष्टावनुपजीव्यत्वेऽपि स्वस्य एवोपजीव्यत्वं तस्य स्यादित्यत आह