न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 397, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] अनुमानप्रामाण्योपपादनम् । ३६५ तदिदमाहुः— अन्वे परप्रयुक्तानां व्याप्तीनामुपजीवकाः । तैर्दृष्टैरपि नैवेष्टा व्यापकांशऽवधारणा ॥ इति, तदनेन विपक्षदण्डभूतेन तर्केण सनाथे भूयोदर्शने, कार्यं वा कारणं वा ततो- ऽन्यद्वा समवायि वा संयोगि वा अन्यथा वा भावो वाऽभावो वा सविशेषणं वा निर्विशेषणं वा लिङ्गमिति निःशङ्कमवधारणीयम् । अन्यथा तदाभास इति रहस्यम् ॥ तादात्म्यतदुत्पत्त्योरप्येतदेव बीजम् । यदि कार्याऽऽत्मानौ कारणमात्मानञ्चाति- पतेतां, तदा तयोस्तत्त्वं व्याहन्येत । अत एव, सामग्रीनिवेशिनश्चरमकारणादपि कार्यमनुमिमते सौगता अपि । तस्माद्विपक्षबाधकमेव प्रतिबन्धलक्षणम् । तथाहि । शाकाद्याहारपरिणतिविरहिणि मित्रातनये न किञ्चिदनिष्टमिति नासौ तस्य व्या- पिका, व्यापिका तु श्यामिकायाः, कारणत्वावधारणात् । कारणञ्च तत् तस्य, तद- तिपत्य भवति चेति व्याहतम् । एवमन्यत्राप्यूहनीयमिति ॥ ॰बोधनी । निमित्तत्वमुपाधिशब्दप्रवृत्तिनिमित्तमिति । अत्रापि वार्त्तिकमुदाहरति तदिदमाहुः-इति । येऽपि वैशेषिकादयः “अस्येदं कार्यं कारणं संयोगि समवायि विरोधि चेति लैङ्गिकम्” इति (वै. सू. ९.२.१.) वदन्ति तेषामपि तत्प्रतिबन्धनिर्णये तर्कसनाथं भूयोदर्शनमेव निदानम् , न च तस्मि- न्सति सविशेषणनिर्विशेषयोर्बलाबलं प्रति कश्चिद्विशेषः; अन्यथा यदि तर्कसनाथं भूयोदर्शनं न स्यात् ततस्तत् सर्वं लिङ्गाभासं भवेदित्याह तदनेन-इति । तादात्म्यतदुत्पत्तिनिबन्धनः प्रतिबन्ध इति वदतामपि तन्निर्णयोपायस्तर्क एवेत्याह तादा- त्म्य—इति । तत्र तर्क दर्शयति यदि हि-इति । तयोः कार्यात्मनोस्तत्त्वं कार्यत्वमात्मत्वं चेति यतस्तर्क एव प्रतिबन्धबीजं न तु कार्यत्वमात्मत्वं वा, तत एव बौद्धानामयमभ्युपगमः सिद्धान्तीत्याह अत एव-इति । तस्माद्विपक्षे दण्डभूतस्तर्क एव प्रतिबन्धहेतुः सर्वत्रेत्युप- संहरति तस्मात्-इति । विपक्षे बाधकाभावेन सोपाधिकमुदाहरति तथाहि-इति । श्यामत्वे साध्ये मैत्रतनयत्वस्य हेतोः शाकाद्याहारपरिणतिरुपाधिः पक्षभूते मैत्रतनये शाकाद्याहारपरिणतेर्- प्रकाशः । अन्ये इति । ये सोपाधयस्ते परप्रयुक्तानामुपाधिप्रयुक्तानां व्याप्तीनामुपजीवकाः, तैः सोपाधिभिर्हेतुभिः पक्षे निधितैरपि, न साध्यव्यापकस्य सिद्धिरित्यर्थः । कार्यकारणसम्बन्धानामननुगमेऽप्यनुगमक- माह । तदनेनेति । अनौपाधिकसम्बन्धत्वमेव सर्वत्रानुगमकमित्यर्थः । भूयोदर्शन इति । अत्र न वारसङ्ख्यानियमः, किन्तु यावता दर्शनेन यस्य व्यभिचारशङ्कानिवृत्तिस्तस्य तावत्त्वं विवक्षितमिति ॥ परैरपि व्यभिचारशङ्काऽपसरणेऽस्मदुक्तप्रकारोऽभ्युपेयः; अन्यथा तन्निवृत्तिर्दुर्लभा इत्याह— तादात्म्येति ॥ व्यभिचारिण्यपि कुतस्तादात्म्यतदुत्पत्तीन स्यातामिति शङ्का सुलभेत्यर्थः । यत एव विपक्षे बाधकादविनाभावग्रहो न स्वभावकार्ययोरेवात एव वधिरादेर्मुरजाभिघातादिना शब्दाद्यनु- मानमित्याह । अत एवेति । उपसंहरति । तस्मादिति । प्रतिबन्धो लक्ष्यते निश्चीयतेऽनेनेति लक्षणं बोधकं विपक्षबाधकमित्यर्थः । यत्र तु तदभावः, तत्राप्रयोजकेन तन्निर्णयो यथाऽऽप्येत्याह । तथा हीति । अतः शाकपाकजत्वं न साधनव्यापकमित्यर्थः । मित्रातनयत्वादिना यथोपाधिर्नानुमीयते, तयोक्तमधस्तात् । तत् किं साधनाव्यापकत्वसन्देहवत् साध्यव्यापकत्वेऽपि सन्देह एव, नेत्याह । व्यापिका त्विति । मकरन्दः । पक्षेऽपीति । साधनव्यापकत्वनिश्चयान्न सन्दिग्धोपाधित्वमित्यर्थः। साध्याभावप्रमा बाध इति मतानु-