न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 396, कुल 608 में से
संदर्भ में पढ़ें३६४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ७ कारिकाव्याख्याया प्रकाशः । अनुकूलतर्काभावेन तस्य साध्यव्यापकत्वानिश्चयात् । न हि सहचारदर्शनव्यभिचारादर्शनमात्राद्या- प्तिग्रहः । अप्रयोजकेऽपि तद्ग्रहप्रसङ्गात् । न चाप्रयोजकत्वादेव तदगमकम् । न हि व्याप्तस्य पक्ष- धर्मत्वेऽप्रयोजकत्वम् । सहचारदर्शनमात्रस्य संशायकत्वाच्च । न च व्यभिचारसंशयाधायकत्वेन तथापि सन्दिग्धोपाधित्वम् । स्वव्याघातकत्वेन तस्य तत्संशयानाधायकत्वात् । बाधोन्नीते च सा- ध्यव्यापकताग्राहकानुकूलतर्कसत्त्वात् । अत एव पर्वतावयववृत्त्यन्यत्वादिकमप्युपाधित्वेन निरस्तम् । धूमवत्त्वे साध्ये आर्द्रन्धनप्रभववह्निमत्त्वस्य, बहिरिन्द्रियद्रव्यप्रत्यक्षत्वे चोद्भूतरूपवत्त्वस्य, व्यापकताग्राह- कः प्रत्यक्षावधृतः, मैत्रातनयत्वेन साध्ये श्यामत्वे साध्यशाकपाकजत्वस्य च वैद्यकाऽवधृतः कार्य- कारणभावः । एवं जन्यत्वेनानित्यत्वे साध्ये भावत्वव्यापकताग्राहको घटोन्मज्जनप्रसङ्गः । एवमन्येषाम- पि, तत्तदनुकूलतर्कात् साध्यव्यापकत्वग्रहः । यत्र च साध्योपाध्योर्हेतुसाध्ययोर्व्याप्तिग्राहकसामग्र्य- नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धोपाधित्वम् । न च यत्र सन्दिग्धोपाधिः, तत्र तत एव हेतोरु- पाधिः साध्यः । तत्रापि श्यामत्वादेरुपाधित्वात् । न चोभयमपि साध्यम् । अर्थान्तरत्वात् । केवल- साध्ये हि विप्रतिपत्तिर्न तूभयत्र । यत एवोपाधेः साध्यव्यापकत्वं तर्का निश्चेयमत एव तुल्ययोग- क्षेमत्वाभावान्न साध्यव्याप्याव्यापकत्वेन साध्यव्यापकत्वं साधनीयमिति । व्यभिचारोन्नयनद्वारा सा- ध्यव्यापकान्याप्यत्वेन व्याप्तिविरहोन्नायकतयोपाधेर्दूषकत्वम् । एवं चासिद्धेरूपजीव्योऽप्युपाधिर्न हेत्वाभासान्तरम् । सिद्धसाधनवद् दूषकतायां परमुखनिरीक्षकत्वेन स्वतो दूषकत्वाभावात् । न ह्यन्य- स्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यस्य साध्यव्याप्यत्वज्ञाने प्रतिबन्धकमिति ॥ अन्वर्थत्वमुपाधिशब्दस्याह । तद्धर्मेति । यद्धर्मोऽन्यत्र भासते स एवोपाधिपदवाच्यो यथा जवाकु- सुमं स्फटिके । तथा यद्वृत्तिव्याप्यत्वं साधनत्वाभिमते भासते, स धर्मस्तत्र हेतावुपाधिरिति सम- व्याप्तौ उपाधिपदं मुख्यं, विषमव्याप्तौ तु साध्यव्यापकत्वादिगुणयोगाद्गौणमुपाधिपदमित्यर्थः । प्रकाशिका । दूषणान्तरमाह सहचारदर्शनेति । तथा च संशयसामग्री न निश्चायिकेति भावः । न च यत्रेति पक्षे साधनाब्यापकसन्देहप्रयुक्तं यत्र सन्देहोपाधित्वं सन्दिग्धत्वं मैत्रतनयत्वादौ हेतौ शाकपाक- जत्वादेस्तत्र मैत्रतनयत्वादित्यत्र हेतोरेव शाकपाकजत्वादिकं साधनीयमिति साधने साध्यव्या- पकत्वनिश्चयान्नोपाधिरित्यर्थः । अर्थान्तरत्वादिति । इदमापाततो वस्तुत उभयसाधनेऽपि प्रत्ये- कस्य प्रत्येकमूपाधित्वमिति द्रष्टव्यम् । परमुखेति । अनुमितिपरमार्शान्यतरसाक्षाद्विरोधित्वेने- त्यर्थः । उपाधिपदं मुख्यमिति । योगरूढ्युभयपुरस्कारेणेत्यर्थः । गौणमिति । केवलरूढिपुरस्का- मकरन्दः । निवर्त्तनं बोध्यम् । तत एव हेतोरिति । मैत्रातनयत्वादेव शाकपाकजत्वमुपाधिः साध्यः । टिप्पणी । विद्येन केनापि धर्मेण साधने पक्षधर्मेण वावच्छिन्नस्य साध्यस्य व्यापकत्वात् गन्धाद्यवच्छिन्नसाध्य- व्यापकत्वेऽपि तेनोपाधिव्यभिचारेण विशिष्टसाध्यव्यभिचारे साधनीये विशेषणव्यभिचार एव तस्य पर्यवसानाद् विशेष्यव्यभिचारस्य केवलान्वयित्वग्राहकमानेन बाधितत्वात् उक्तपक्षधर्म्यन्तं हि तादृशधर्मा- भावं गमयद् विशिष्टाव्यापकत्वे हेतुरिति भावः । तर्कं विनापि सन्दिग्धोपाधौ साध्यव्यापकत्वनिश्चा- यक्त्वमाशङ्क्य निराकरोति न च यत्र सन्दिग्धोपाधिरिति । तत एव हेतोरुपाधिरिति । तस्य मैत्रातनयत्वस्य हेतोः पक्षे उपाधिसन्देहात् साध्यव्यापकत्वसन्देहस्तत्र तत एव मैत्रातनयत्वहेतोः पक्षे उपाधिनिश्चित्य साध्यव्यापकत्वं निश्चेयमित्यर्थः । अत एव तुल्ययोगक्षेमत्वाभावा- दिति । साध्यसाधनयोन्यीप्यव्यापकभावग्राहकस्तर्काभावादुपाधिसाध्ययोस्तद्ग्राहकस्तर्कसम्भवाच्च तुल्य- योगक्षेमतेत्यर्थः ।