न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 40, कुल 608 में से
संदर्भ में पढ़ें१० न्यायकुसुमाञ्जलौ [ प्रथमः- बोधनी । क्षते, तत्र न्यायेनोपार्जितः प्रसूनाञ्जलिर्न्यायप्रसूनाञ्जलिरिति ॥ १ ॥ ननु देहादिव्यतिरिक्तस्य नित्यस्यापरस्यात्मनस्तत्त्वज्ञानं संसारनिदानतद्विषयमिथ्याज्ञानादि- निवृत्तिद्वारेण निर्वाणकारणं वर्णयन्ति । यथाहुः—"दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापा- यात्तदनन्तराभावादपवर्गः"(१) (न्या. सू. १. १. २) इति । विवेचितश्चायमात्मतत्त्वविवेक इति प्रकाशः । अथ च न्याय इव प्रसूनाञ्जलिः = अञ्जलिस्थानि कुसुमानि, तत्रानघत्वं न्यायोपात्तत्वमप र्युषितत्वादि च । रूपकपक्षेऽपि न साधर्म्यं विना तदिति तदुभयसाधर्म्यमाह--सत्पक्षेति । "पचि व्यक्तीकरणे" इति धात्वनुसारात् पक्षशब्दो दलवचनः । सत्पक्षाणां प्रसरो यत्र, सता पक्षेणानुकूलेन रविकरणादिना विकासो यस्येति वा । तेन हस्तादिना कलिकाप्रकाशो निषिद्धः । यद्वा, सत्पक्षप्रसरः = सदनुकूलविकासः । सतां = सुकृतिनामनुपहतघ्राणानां, परिमलः = सौरभविशेषः, तस्य यः प्रोद्बोधः = प्रकृष्टज्ञानम् । तेन बद्धः = स्थिरीकृत उत्सवो येन स तथा। विमर्दने = करपुटसम्पर्के, न विम्लानो = नान्यथाभूतसंस्थानः । अमृतप्रायो रसः, तं प्रस्यन्दते इति प्रस्यन्दः । कर्मण्यण् । अमृतरसप्रस्यन्द एव माध्वीकम् , तस्य भूरुत्पत्तिस्था- नम् । यद्वा, अमृतमिव रसो यस्य । प्रस्यन्दते इति प्रस्यन्दः । अनयोः कर्मधारयः ॥ १ ॥ ननु कर्मसु विद्यमानेषु जन्मानुच्छेदात् , तेषां चाभुक्तानामक्षयाद् भोगेन च तद्धेतुना पुनः कर्मान्तरार्जनात् काशेषविशेषगुणोच्छेदो मोक्षः । नापीश्वरे प्रमाणव्युत्पादनस्य मोक्षहेतुत्वे मानमिति तन्निष्फलम् । किञ्च, ईश्वरमननस्य मोक्षहेतुत्वे मानाभावः "आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्तव्य"इति श्रुतौ सामानाधिकरण्याद् यद्विषयकः साक्षात्कारो मोक्षजनक- स्तद्विषयकं मननं मोक्षहेतुः । साक्षात्कारश्च न जीवात्ममात्रगोचरो, न वेश्वरविषयकस्तथा । मिथ्या- ज्ञानध्वंसद्वारा ह्यस्य तद्धेतुत्वम् । न च जीवात्ममात्रगोचरमीश्वरगोचरं वा मिथ्याज्ञानं संसारहेतु- र्येन तदुच्छेदस्तद्द्वारं स्यात् । किन्तु स्वात्मगोचरं मिथ्याज्ञानमिति तत्तत्त्वसाक्षात्कार एव मोक्ष- हेतुरित्यत आह । प्रकाशिका । न्यथा व्याचष्टे । अञ्जलिस्थानीति । नन्वमृतप्रायो रस इत्यत्र रसशब्दस्य गुणपरत्वे तं प्रस्यन्दत इत्यनन्वयः तस्य कर्मविशेषवाचकत्वात् , द्रव्यपरत्वे सुतरां तत एव । न च जनयतीति तस्यार्थः, तथाच गुणपरतयैव सङ्गतिरिति वाच्यम् । लक्षणापत्तेरित्यरुचेराह । यद्वेति ॥ १ ॥ नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह--किञ्चेति । जीवा- मकरन्दः । ध्वीकोत्पत्तिस्थानकत्वादिकमसम्भवदित्यत आह । अञ्जलिस्थानीति ॥ १ ॥ किञ्चेति। तथाचेश्वरमननद्वाराऽपि तद्व्युत्पादनं न मोक्षप्रयोजनमिति भावः। ननु प्रमाणव्युत्पाद- टिप्पणी । प्रस्यन्दत इति अन्तर्भावितणिचः प्रयोगः, तेन स्यन्दधातोरकर्मकत्वेऽपि न क्षतिः ॥ १ ॥ नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह--किञ्चेति । साक्षा- त्कारश्च न जीवात्ममात्रगोचर इति । नायं प्रकृतोपयोगी किन्तु विवेचनमात्रं, दृष्टान्तार्थं ( १ ) दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति विश्व- नाथपञ्चाननसम्मतः पाठः । तदनन्तराभावादिति न्यायसूचीनिबन्धे न्यायसूत्रविवरणे च पाठः ।