न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 41, कुल 608 में से
संदर्भ में पढ़ेंस्तवकः १ ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते ११ स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः ।
· बोधनी । किमनेन परमात्मनिरूपणेनेत्यत्राह—स्वर्गापवर्गयोः इति। साक्षात्कृतपरमेश्वरप्रसादसहकृतमेव हि जीवात्मज्ञानमपवर्गमातनोति । तथाचामनन्ति—“द्वे ब्रह्मणी वेदितव्ये परं चापरं च” “द्वा सुपर्णा सयुजा सखाया” इत्यादि । गुडजिह्विकया रागिजनमात्रर्जयितुमत्र स्वर्गोपादानं, तेऽपि दुःखसन्तमससन्तप्तासु सुखखद्योतिकासु निर्विद्य मुमुक्षवो भविष्यन्तीति भावः । न चैकस्या एवो- पास्तेः कथं परस्परविरोधिस्वर्गापवर्गहेतुत्वमिति वाच्यम् । उपासकसङ्कल्पादिसहकारिविशेषेण सामग्रीभेदादुपपत्तेः । यद्वा, अत्र पूर्वत्र सूचितयोर्विषयप्रयोजनयोः स्पष्टी करणेनेश्वरोपास्तेरपवर्ग-
प्रकाशः। स्वर्गेति । स्वर्गायो रुत्कटरागगोचरयोः, अपवर्गयोरपरपरयोर्मुक्तयोः, मार्गमुपायमित्यर्थः । तथा च परापरमुक्त्योरेकानुष्ठानसाध्यतां दर्शयता जीवन्मुक्तिसहिता परममुक्तिः साध्येति दर्शितम् । तेन च न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य देहिन इत्यपूर्वकर्म्मोपार्जनशङ्का निरस्ता। ईश्वर- मननञ्च न तद्गोचरं प्रमाणमव्युत्पाद्य शक्यं व्युत्पादयितुमिति तद्बोधक(१)प्रमाणव्युत्पादनमपि मोक्षहेतुः । प्रमाणव्युत्पादने च तत एव मननसिद्धौ न मननपर्यन्तं ग्रन्थव्यापारः, धूमोऽस्तीति
प्रकाशिका। त्समात्रगोचर इति दृष्टान्तार्थम् । ननु तत्प्रमाणव्युत्पादनस्य ग्रन्थरूपस्य शाब्दात्मकतया तस्या- नुमितिजनकत्वे शाब्दत्वानुमितित्वयोः सङ्करः स्यादत आह—प्रमाणव्युत्पादने चेति ।
मकरन्दः। नरूपग्रन्थस्य शाब्दात्मकस्येश्वरानुमितिजनकत्वे जातिसङ्कर इत्यत आह। प्रमाणव्युत्पादने चेति।
टिप्पणी । वेति ध्येयम् । हीनक्लेशस्य जीवन्मुक्तस्य प्रवृत्तिः, 'प्रतिसन्धानाय' अपूर्वकर्म्मणे न भवतीत्यर्थः। इति हेतौ, अयं शङ्कानिरासेऽन्वेति तथा च मुक्तिर्नास्तीति भावः । जीवन्मुक्तानां मद्यस्त्रीनिषेवणं, ब्रह्महत्यादिकं, तपो यज्ञादिकं च, केवलपूर्वकृतकर्म्मणां फलीभूतसुखदुःखादिहेतुतयैवावतिष्ठते न पुनः फलाय । तथा च श्रुतिः “जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे” “अभयं वै जनक प्राप्तो- ऽसीत्याद्या, एवं “तत्सुकृतदुष्कृते विधुनुते” “एनं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरव”मित्याद्यापीति। तद्द्वारेति। द्वारताया जन्यत्वव्याप्यत्वेनेश्वरमननस्य तत्त्वे शाब्दा- नुमितित्वयोः सङ्करप्रसङ्गोऽत आह—प्रमाणव्युत्पादने चेति । तत एव प्रमाणादेवेत्यर्थः । यागादेः स्वर्गपर्यन्तव्यापारत्वमदृष्टस्यान्यथाहेतुत्वानुपपत्त्या कल्प्यते । अनुमानप्रमाणस्यान्यत्र हेतुतायाः क्लृप्तत्वादिति भाव । ग्रन्थव्यापार इति । साक्षाद्व्यापार इत्यर्थः । येन तत्र शाब्दत्वं स्यात् । साक्षाद्व्यापारस्तु प्रमाणप्रतिपत्तिपर्यन्तमेवेति भावः । द्वारता च परम्परयेति बोध्यम् । ननु प्रमाणव्युत्पादनस्य मननपर्यन्तव्यापाराभावेऽमृतस्येत्यादिना सूचितस्य प्रयोजनवत्त्वस्यानिर्वाह इत्यत आह—धूमोऽस्तीत्यादि । प्रमाणव्युत्पादनस्य सन्निहितत्वेन न मनने कश्चिद्विलक्षणो व्यापारः, अपि तु धूमोऽस्तीत्यादिवाक्यस्य व्यवहितस्यैव साधारणो व्यापारोऽस्त्येवेति भावः ।
( १ ) तद्वारेति पाठान्तरम् ।