न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 403, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] उपमानस्य प्रामाणान्तरत्वखण्डनम् । ३७१ यत्त्वप्रयोजकः सन्दिग्धोनैकान्तिक इत्यनैकान्तिकेऽन्तर्भाव्यते । तदसत् । व्या- प्यसिद्ध्या हि निमित्तेन व्यभिचारः शङ्कनीयः, अन्यथा वा ? । प्रथमे, असिद्धिरेव दूषणमुपजीव्यत्वात्, 'नानैकान्तिकम्, उपजीवकत्वात्। अन्यथा शङ्का त्वदूषणमेव; निर्णीते तदनवकाशादिति ॥ ७ ॥ उपमानन्तु बाधकम्नशङ्कनीयमेव, विषयाव्यतिरेकादिति केचित् । तथाहि। न तावदस्य विषयः सादृश्यव्यपदेश्यं पदार्थान्तरमेव सम्भावनीयम् । बोधनी । प्त्यसिद्धावन्तर्भावं मन्यमानो मतान्तरमाशङ्क्य दूषयति यत्त्विति । प्रथमव्याप्यसिद्धिं निमि- त्तीकृत्य व्यभिचारशङ्केत्यत्र पूर्वसिद्धासिद्धिरेव दूषणं स्यान्न तु तदुपजीवनेन प्रवृत्ता व्यभिचारशङ्का, अन्यथा व्याप्तिनिर्णये तु, व्यभिचारशङ्कात्मकं दूषणमेव नोदेतीति निर्णीते विषये शङ्काया निरव- काशत्वादिति ॥ ७ ॥ तदेवं प्रत्यक्षातुमानयोस्तदभावावेदकत्वं निराकृत्य संप्रत्युपमानस्य निराचिकीर्षुरेकेषां मतं तावदुपम्यस्यति उपमानं त्विति । कॢप्तप्रमाणविषयातिरिक्तविषयासंभवादुपमानस्य पृथक्प्रामा- ण्यमेव नास्ति कुतस्तेन बाध आशङ्कयेतेति । विषयाव्यतिरेकमेवाह न तावत्-इति । पदार्थान्तरं हि भवत् सादृश्यं किं भावाभावाभ्यामन्यत्किं वोभयात्मकं किमुत भावात्मकमेव षट्पदार्थातिरेकेणेति विकल्पं हृदि निघाय सामान्येन कोटिद्वयातिरेकस्यापि न संभवतीत्याह । प्रकाशः । अथैवं विद्यमानेयं नदी, उपरि देशे वृष्टिमती, विशिष्टपूरवत्त्वादित्यत्र विद्यमानवृष्ट्यनुमाना- पत्तिः । न चेष्टापादनं, विद्यमानवृष्टेर्वर्तमाननदीपूरं प्रत्यहेतुत्वादिति चेन्न । तत्र समयभेदेनैव व्या- प्तिग्रहात्तथैव साध्यसिद्धेः । किञ्चैवं सिद्धसाधने प्रागभावतत्प्रतियोगिनोरेकदेशवृत्तित्वेनैककालवृत्ति- त्वमपि स्यात् । यदि न तयोरेकसमयावच्छेदेनैकत्रानुत्तेर्न तथात्वं, तर्हि तत्प्रागभावावच्छिन्ने धर्मिणि तत्प्रतियोग्यनुमितावपि न सिद्धसाधनमपि तु बाध एव । अधिकन्तु न्यायनिबन्धनप्रकाशे विपश्चि- तमस्माभिः । मतान्तरं विकल्प्य निराकरोति । यत्त्विति ॥ ७ ॥ अनुमानादिभ्यः फलव्यापारवैजात्याभावादुपमानं न मानान्तरमिति तन्नेश्वरबाधकमित्याह- उपमानं त्विति ॥ ननु सादृश्यमेव तद्विषयः स्यात् । न हि तदिन्द्रियगम्यं, तदापातमात्रे- णाज्ञानात् । नापि लिङ्गादिगम्यं, तदभावेऽपि सादृश्यज्ञानात् । तच्च न द्रव्यमगुणत्वात् । न गुणः कर्म वा गुणेऽपि वृत्तेः । न सामान्यं, सप्रतियोगिकत्वात् । न च विशेषसमवायौ, प्रत्यक्षत्वाद्वि- त्याह। तथा हीति । प्रकाशिका । णतया तद्विषयतानियामकत्वायोगादिति । विद्यमानेति । एतत्कालावच्छिन्नेत्यर्थः । तन्न समये- ति । तथा च तत्तत्कालावच्छिन्नानुमितौ व्याप्तिविरोध एव बाधक इति भावः । वस्तुतस्तत्रापि बाधादेव नानुमितिरितीदमपि बाधोदाहरणं द्रष्टव्यम् ॥ ७ ॥ प्रत्यक्षत्वादिति । समवायप्रत्यक्षत्वे सतीत्यस्य हेतुरन्यथा तु समवायभेदसाधनेऽनेकत्वं लि- मकरन्दः । याः पक्षताशरीरनिष्पादकत्वेनान्यथासिद्धतया व्यभिचारेण चानुमित्यहेतुत्वात् । न चानुमितिविशेषे तद्धेतुत्वं, मानाभावात्, पक्षताया अहेतुत्वापाताच्चेति सङ्क्षेपः । विद्यमानेति । वर्तमानकालाव- च्छिन्नेत्यर्थः । तत्रेति । पूर्वकालीनवृष्ट्यैव व्याप्तेस्तस्या एव सिद्धिरित्यर्थः । बाधादेव न तत्सिद्धिर- बाधे चेष्टापत्तिरित्युपि बोध्यम् ॥ ७ ॥ प्रत्यक्षत्वादिति वैशेषिकमतेन । न्यायमते समवायभेदसाधनेऽनेकत्वादिकं लिङ्गमिति ध्येयम् ।