न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 404, कुल 608 में से
संदर्भ में पढ़ें३८२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [८ कारिकाव्याख्यायां परस्परविरोधे हि न प्रकारान्तरस्थितिः ॥ नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः ॥ ८ ॥ न हि भावाभावाभ्यामन्यः प्रकारः सम्भावनीयः, परस्परविधिनिषेधरूपत्वात् । न भाव इति भावनिषेधमात्रेणैवाभावविधिः। ततस्तं विहाय कथं स्ववचनेनैव पुनः सहृदयो निषेधेन्नाभाव इति । एवं, नाभाव इति निषेध एव भावविधिः । ततस्तं विहाय स्ववाचैवानुन्मत्तः कथं पुनर्निषेधेन्न भाव इति । अत एवम्भूतानामेकता- प्यशक्यप्रतिपत्तिः । प्रतिषेधविध्योरेकत्रासम्भवात् । तस्माद्भावाभावावेव तत्त्वम् ॥ भावत्वेऽपि गुणवन्निर्गुणं वेति द्वयमेव पूर्ववत् । पूर्वं द्रव्यमेव । उत्तरञ्चाश्रित- मनाश्रितं वेति द्वयमेव पूर्ववत् । तत्रोत्तरं समवाय एव । अनवस्थाभयात् । आश्रि- बोधनी । परस्पर-इति । भावाभावयोः परस्परप्रतिक्षेपत्वलक्षणस्वरूपत्वाद्भावनिषेधोऽभावविधिः स्यात् तन्निषेधश्च भावविधिः, तेन ताभ्यामन्यः प्रकारः संभवति न कस्यापीति शेषः । हि यस्मात्तस्माद्दूरे सादृश्यस्य विशेषस्य प्रकारान्तरस्थितिवार्तेति भावः । न च क्वापि विरुद्धानामैकात्म्यं विरुद्धत्वादेव अन्यथा विरोध एव न स्यात् । तथा च कथं परस्परविरुद्धभावाभावात्मकं भवेत्सा दृश्यमिति भावः । किं च आस्तां तावद्वस्तुगतो विरोधः, वचनमात्रस्यैव विरोधात् भावाभावात्मता निरस्तेत्याह उक्ति-इति ॥ एतेनैव भावत्वेऽपि षट्पदार्थातिरेको निरस्तः । परस्परविरोधिगुणनिर्गुणादिव्यतिरेकेण प्रकारान्तरासंभवाद्द्वयात्मकत्वासंभवाच्चेति व्याचष्टे न हि-इति । भवतु भावात्मकमेव तत्त्वान्तर- मित्यत्रापि श्लोकं व्याचक्षाण आह भावत्वेऽपि-इति । पूर्ववत्-इति । भावाभावयोरिव परस्पर- विधिनिषेधरूपत्वातसगुणनिर्गुणयोरित्यर्थः । एवमुत्तरेष्वपि द्रष्टव्यम् । समवायस्याश्रितत्वे बाधकमन- वस्था इति । आश्रितत्वं नाम समवायस्य समवायित्वमेवाद्रव्यत्वेन संयोगासम्भवात् । तत्र च सम- प्रकाशः । 'परस्परेति ॥ विरोधोऽत्र न परस्पराभावव्याप्यत्वम् । नीलपीतयोरन्यतरनिषेधेऽप्यन्यतर- स्याविधेः । किन्तु परस्पराभावरूपत्वम् । पूर्ववदिति । परस्परविरोधे प्रकारान्तराभावादित्यर्थः । एवमग्रेऽपि । नन्वेतादृशविकल्पेन परिशेषे सामान्यविशेषसमवायानामपि द्रव्यादित्रयसाधर्म्यात्तदन्तर्भावः स्यात् । अथानुगतव्यवहारान्यथानुपपत्त्या तेषां तद्बहिर्भावः । तुल्यं सादृश्येऽपि । न हि तत् सामान्यं, तत्रोत्कर्षादिव्यवहारानुपपत्तेः सामान्यस्यैकरूपत्वात् । सामान्यस्याश्रयभेदेऽप्यभेदात् । सादृश्यस्य च प्रत्याश्रयं भेदात् । अथ तद्भेदे सति तद्गतभूयःसामान्यवत्त्वं सादृश्यं, भेदश्च प्रत्याश्रयं भिन्नः सप्रतियोगिकश्चेति चेन्न । सादृश्यस्य भेदघटितत्वेन सावधित्त्वे तस्मात् सदृश इति प्रतीत्यापत्तेः । प्रकाशिका । द्वमिति द्रष्टव्यम् । तदन्तर्भाव इति । गुणवन्निर्गुणं वा, अन्तेऽपि कर्मभिन्नं कर्म वा यथाक्रमं द्रव्यगुणकर्मान्तर्भाव इत्यर्थः । व्यवहारान्यथानुपपत्तिमेवाह । न हीति । भेदघटितरत्वेनेति । भेदो- मकरन्दः । व्यवहारान्यथानुपपत्तिमेवाह न हीति । भेदघटितत्वेनेति । यद्यपि भेदोऽन्योन्याभावः, स च न सावधिः, किन्तु सप्रतियोगिकः अन्यथा घटो नेत्यत्र घटान्नेति प्रतीत्यापत्तेः, तथापि भेदपदमत्र टिप्पणी । द्रव्यादित्रयसाधर्म्यादिति । द्रव्यं द्विविधं स्पन्दवन्निःस्पन्दञ्च निःस्पन्देष्वन्तर्भवतु सामान्यादिकमित्यर्थः । अनुगतव्यवहारान्यथानुपपत्तेरिति । अनुगतव्यवहारान्यथानुपपत्त्या सिद्धं सामान्यं न द्रव्यं न गुणो न कर्म्म गुणकर्मणोरनुगतव्यवहाराभावप्रसङ्गादिति सामा- न्यस्य द्रव्यादिवहिर्भाव इति भावः । भेदश्च प्रत्याश्रयं भिन्न इति । पृथक्त्वञ्चेत्यर्थः । तेन