न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 405, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] उपमानस्यप्रमाणान्तरत्वखण्डनम् । ३७३ तन्तु सामान्यवन्निःसामान्यञ्चेति पूर्ववत् द्वयमेव । तत्र प्रथममपि स्पन्दोऽस्पन्द इति द्वयमेव । एतच्च यथासङ्ख्यं कर्म गुण इति व्यपदिश्यते । निःसामान्यं निर्गुण- माश्रितन्त्वेकाश्रितमनेकाश्रितं वेति प्रागिव द्वयमेव । एतदपि यथासंख्यं विशेषः सामान्यञ्चेत्यभिधीयते । तदेतत्सादृश्यमेतास्वेकां विधामसादयन्नातिरिच्यते । अनासादयन्न पदार्थीभूय स्थातुमुत्सहते ॥ एतेन शक्तिसंख्यादयो व्याख्याताः । ततोऽभावेन सह सप्तैव पदार्था इति नियमः । अतो नोपमानविषयोऽर्थान्तरमिति ॥ ८ ॥ बोधनी । वायस्याश्रितत्वाभ्युपगमेऽनवस्था स्यात् । इह पटे रूपसमुदाय इति प्रतीतिस्तु विशेषणविशेष्यमात्र- निबन्धनेति, तदेवं पदार्थव्यवस्थितौ यदि सादृश्यं सगुणत्वादिविधास्वन्तर्भवेत् पदार्थषट्कानातिरि- च्येत, अनन्तर्भावे वा पदार्थ एव न स्यादित्याह तत्-इति । शक्तिसंख्यादीनामपि षट्पदार्थान्तर- त्वमनेनैव मार्गेण निराकृतमिति प्रसङ्गादाह एतेन-इति । उपसंहरति ततः-इति । तत्तत्प्रमाण- त्वादेव न बाधकमिति ॥ ८ ॥ तदेवं तत्त्वान्तरभूततन्त्रान्तर्भूतसादृश्यविषयमुपमानं पृथक्प्रमाणमिति गुरुमतं निराकृत्य प्रकाशः । पदार्थान्तरत्वे च सप्रतियोगिकत्वेऽपि सावधित्वाभावेन तदभावोपपत्तेः । न च सप्रतियोगित्वमेव सावधित्वं, घटान्नेति प्रतीत्यापत्तेः । अत्राहूः। असाधारणान्यतद्गतबहुधर्मवत्त्वं तत्सादृश्यं जात्यादिसाधारणं, भेदाघटितत्वाच्च निरवधि । तद्गतबहुधर्मवत्त्वं च तन्निरूप्यमितीतरनिरूप्यत्वमेव तस्य सप्रतियोगिकत्वम् । तत्रापि सादृश्ये तदेव सप्रतियोगिकत्वं, न तु भेददीर्घादिवत् सावधिकत्वम् । तस्मात्सदृश इति प्रतीत्या- पत्तेः । किञ्च यादृशं तद्गतबहुधर्मवत्वमनतिप्रसक्तं तव सादृश्यव्यञ्जकं, तदेव सदृशव्यवहारनिमि- त्तमस्तु, किमधिकेनेति सङ्क्षेपः । एतेनेति ॥ षट्पदार्थानतिरेकेण्येत्यर्थः । तत इति ॥ भावरूपपदार्थाः षडभावस्यापि मान- सिद्धतया पदार्थत्वोपगमादिति भावः । प्रत्यक्षादिविषयद्रव्यादिपदार्थातिरिक्तं सादृश्यमुपमानपरि- च्छेद्यमित्यसिद्धमित्याह । अत इति ॥ ८ ॥ मा भूत् सादृश्यं पदार्थान्तरं, तथापि तदेवोपमानपरिच्छेद्यम् , प्रत्यक्षाद्यपरिच्छेद्यत्वात् , इन्द्रियसन्निकर्षेऽपि तदज्ञानात् , लिङ्गाद्यज्ञानेऽपि ज्ञायमानत्वाच्चेति जरन्मीमांसकमतमाह- प्रकाशिका । ऽत्र पृथक्त्वं न त्वन्योन्याभावः, तस्य सावधित्वाभावात्, अन्यथा घटान्नेति प्रतीत्यापत्तेः । असाधारणेति । तदसाधारणधर्माभावे सति तस्य तद्गतबहुधर्मवत्त्वमित्यर्थः । तेन नाभेदे सादृ- श्यप्रसङ्गः । तत्र चेष्टापत्तावसाधारणेऽन्यपदवैय्यर्थ्यापत्तेरिति ध्येयम् ॥ ८ ॥ मकरन्दः । पृथक्त्वपरम् । अत एव भेदाघटितत्वादिति सिद्धान्तोऽपि सङ्गच्छते । अन्यथा तस्याप्यन्योन्याभाव- घटितत्वे विरोधापत्तेः । असाधारणेति । असाधारणान्यमात्रेत्यर्थः । एतच्च स्वस्मिन्नपि स्वसह- शत्वप्रसङ्गवारणाय ॥ ८ ॥ टिप्पणी । भेदघटितत्वेन सावधित्व इति ग्रन्थस्य नासङ्गतिः । भेदस्य सप्रतियोगिकत्वेऽपि सावधित्वाभावात् । सावधित्वाभावेनेति । तादृशव्यवहाराभावेन निरवधितयैव कल्पनात् ॥ ८ ॥ ९ ॥ १० ॥ ११ ॥