न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 408, कुल 608 में से
संदर्भ में पढ़ें३७६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [९ कारिकाव्याख्यायां स्यादेतत्। तद्धर्मा इह न सन्तीत्यवगते, अर्थादापद्यते इहाविद्यमानास्तत्र सन्तीति। न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्माऽसौ न भवतीति चेत्। एवं तर्हि प्रकृतमप्यर्थापत्तिरेव। न हि तत्सादृश्यविशिष्टत्वं मेतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते ॥ एतेन दृष्टासन्निकृष्टप्रत्यभिज्ञानं व्याख्यातम्। तत्रापि तद्धर्मशालित्वं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति। तस्मान्नोप- मानमधिकमिति ॥ ९ ॥ बोधनी। इतः पुरोवर्त्तिनः पिण्डाद्व्यावृत्तधर्मयोगोऽपि वैधर्म्यं, तस्य च भावरूपाभावप्रमाणविषयतेति। उत्तरार्धं व्याचष्टे स्यादेतत्-इति। व्यवहितपिण्डवर्त्तिधर्माभाववत्त्वं तत्राविद्यमानधर्मत्वं वा- संनिहितस्य तावत्प्रत्यक्षं, तच्च व्यवहितस्यैतद्धर्माभाववत्त्वेनात्राविद्यमानधर्मवत्त्वेन वा विनानुपपद्य- मानं तत्कल्पयतीति न तदर्थं प्रमाणान्तरं मृग्यमिति। तर्हि सादृश्यमप्यर्थापत्तिरेव गमयेत् तुल्य- न्यायत्वादित्याह एवं तर्हि-इति। एतेन इति। पूर्वं मथुरायां पश्चादुज्जयिन्यां दृष्टस्य पुनः प्रत्यभिज्ञानसमये चाथ संनिकृष्टस्य यत्प्रत्यभिज्ञानं य एव मथुरायां दृष्टः स एवोज्जयिन्यां दृष्ट इति तदप्यर्था- पत्तिरिति व्याख्यातं कथमिति तत्राह तत्रापि-इति। मथुरायां दृष्टपुरुषवर्त्तिस्वरवर्णादि- शालित्वमुज्जयिनीदृष्टस्येदानीं स्मर्यमाणमुभयत्रापि दृष्टस्यैकतामन्तरेणानुपपद्यमानं तां कल्पयतीति। यद्वा, दृष्टस्यासंनिकृष्टस्य चैकगोचरं यत्प्रत्यभिज्ञानमयं स इति विपरीतप्रत्यभिज्ञानं तदप्यर्थापत्तिरेव, तत्र संनिकृष्टस्य पिण्डस्य ये धर्मा उपलभ्यन्ते तद्धर्मशालित्वमसंनिकृष्टस्य स्मर्यमाणं तस्य संनिकृ- ष्टस्य चैकतामन्तरेणानुपपद्यमानं तयोस्तां कल्पयति, इदन्ताश्रय एव तत्ताश्रय इति व्यवस्थापयति। न हि तत् प्रत्यक्षफलम्, अयं स इत्यसंनिकृष्टपर्यवसायित्वात्तेन चेन्द्रियसन्निकर्षाभावादिति। तस्मा- त्सामान्यरूपसादृश्यविषयत्वेऽप्युपमानस्य प्रमाणान्तरत्वाभावात् सिद्धं 'विषयानतिरेकाद्वाधफत्व- मिति उपसंहरति तस्मात्-इति। ॥ ९ ॥ प्रकाशः। अथ गवयसादृश्यं गवि गवयगतशृङ्गित्वादिधर्मवत्त्वं, तच्च गवये गोसादृश्ये भासमाने गवि भासत एव। सामान्यस्यैकत्वेनेन्द्रियसन्निकर्षादिति चेत्। न। तथापि गोविशेष्यकगवयगतशृङ्गित्वादिज्ञा- नस्य गोरसन्निकर्षेणेन्द्रियाजन्यत्वात्। मैवम्। अन्योन्यसदृशवस्तुप्रत्यक्षेण जानतो यो यत्सा दृश्यप्रतियोगी स तत्सदृश इति सामा- न्यतो व्याप्तिज्ञाने सति गौर्गवयसदृशः तत्सादृश्यप्रतियोगित्वात् यथा भ्रात्रा भगिनी गवयगतसादृ- श्यप्रतियोगित्वञ्च गोर्गवयगतसादृश्यवित्तिवेद्यमेव। सादृश्ये गोः प्रतियोगित्वेनैव ज्ञानात्। यत्तुद्रूपं सामान्यतो व्याप्तिग्रहञ्च विना गवयसदृशो गौरिति फलासिद्धेः। ताद्रूप्येण व्याप्तिग्रहेऽस्माकं व्यति- रेकी, परेषामर्थापत्तिरित्यन्यदेतत्। ननु प्रत्यभिज्ञायमानस्य पूर्वापरकालमध्यावस्थानं नाध्यक्षगम्यम्। मध्ये इन्द्रियासम्बन्धात्। न लिङ्गादिगम्यम्। तदज्ञानेऽपि ज्ञानात्। तदिदमेवोपमानपरिच्छेद्यं स्यादित्यत आह। एतेनेति। साधर्म्यवैधर्म्ययोरर्थापत्त्यन्तर्भावनेत्यर्थः। दृष्टञ्च तन्मध्येऽसन्निकृष्टं चेति तत् तथा, तस्य प्रत्यभिज्ञा- नम्। तदेव स्फुटयति। तत्रापीति। तत्तेदन्ताविशिष्टाभेदो मध्यासन्निकृष्टस्य मध्यसत्त्वं विना अनु- पपन्नो मध्यस्य सत्त्वं कल्पयतीत्यर्थः ॥ ९ ॥