भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 407, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 407

तृतीयस्तवके ] उपमानस्य प्रमाणान्तरत्वखण्डनम् । ३७५ भावात् । तस्मात्, तत्पिण्डस्मरणसहायमेतत्पिण्डवृत्तिसादृश्यज्ञानमेव तथाविधं ज्ञानमुत्पादयदुपमानं प्रमाणमिति । एतदपि नास्ति ॥ साधर्म्यमिव वैधर्म्यं मानमेवं प्रसज्यते ॥ अर्थापत्तिरसौ व्यक्तामिति चेत् प्रकृतं न किम् ॥ ९ ॥ यदा हि एतद्विसदृशोऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत् । न हि तत्प्रत्यक्ष- मसन्निकृष्टविषयत्वात् । न स्मरणम् । विशिष्टस्याननुभवात् । नोपमानमसादृश्य- विषयत्वात् । नन्वेतद्धर्माभावविशिष्टत्वमेव तस्य वैधर्म्यं, तच्चाभावगम्यमेवेष्यते । न च प्रकृतेऽपि तथाऽस्तु । सादृश्यस्य भावरूपत्वादिति चेन्न । इतो व्यावृत्तधर्म- विशिष्टताया अपि वैधर्म्यरूपत्वात् । तस्य च भावरूपत्वात् ॥ बोधनी । विषयं विज्ञानं जनयत्तदुपमानं नाम प्रमाणान्तरमास्थेयमित्युपसंहरति तस्मात्-इति । सदेतदति- प्रसङ्गापादनेन दूषयति एतदपि-इति । तद्यथासंनिहितपिण्डवृत्तिवैसादृश्यज्ञानं जनयत्तत्प्रतियोगिकसंनिहितपिण्डवृत्तिवैधर्म्यज्ञानं सप्तमं प्रमाणं प्रसज्येत, तुल्यन्यायत्वात् । अथ तद्वैधर्म्यमेतस्य प्रत्यक्षसिद्धमन्यथानुपपद्यमानं तस्यैतद्वैधर्म्यं कल्पयतीति न तत्र प्रमाणान्तरप्रसक्तिरिति चेत् तर्हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धं तस्यै- त्तत्सादृश्यं विनानुपपन्नं तस्यैतत्सादृश्यं कल्पयदर्थापत्तिरेव स्यादिति व्याचष्टे यदा हि-इति । ननु संनिहितपिण्डगतधर्माभावविशिष्टत्वमेव संनिहितस्य तद्वैधर्म्यं तत्राभावरूपत्वादभावप्रमाणस्यैव विषयः, सादृश्यस्य तु भावरूपत्वात्प्रमाणान्तरमन्वेषणीयमित्याशङ्कायादाह न चेति । न इति । प्रकाशः । तादृशी धीः प्रत्यक्षायफलमप्यर्थापत्तिफलमिति नैतत्करणमुपमानं मानान्तरं सिद्ध्यति । अन्यथा तद्दिर्घायमिति बुद्धयनन्तरमेतद्दिर्धोऽसाविति धीकरणं मानान्तरं स्यादित्याह । साधर्म्यमिति । गवि करभवैधर्म्यं हि करभवृत्तिधर्माभाववत्त्वम् । तच्च स्मृते गवि प्राङ्नास्तितावदनुपलब्धिगम्य- मेवेति न तत्र मानान्तरापत्तिरित्याह । नन्वेतदिति । करभावृत्तिधर्मवत्त्वं गवि तद्वैधर्म्यं, तच्च भाव एवेति नानुलब्धिगम्यमित्याह । इत इति । नन्विदमप्युपमानमेव । तथाहि, सप्रतियोगिकपदार्थज्ञानेन तत्प्रतियोगिकपदार्थज्ञानमुपमानम् । अन्यथैतद्दिर्घर्मा स एतस्माद्दीर्घ इति प्रतीतिः कुतः ? न तावदनुमानात् । विशेषासन्निकर्षे तद्ग- तैतन्निष्ठसादृश्यप्रतियोगित्वादैर्लिङ्गस्याज्ञानात् । नाप्यर्थापत्तेः, तस्या व्यतिरेक्यनुमानरूपत्वात् । न च तत्प्रतियोगिकैतन्निष्ठसादृश्यादौ भासमाने समानसंवित्संवेद्यतया एतत्प्रतियोगिकतन्निष्ठसादृश्यादिरपि भासते इति वाच्यम् । विशेषणविशेष्यप्रतियोगिभेदेन समानसंविद्वेद्यत्वासिद्धेः । एतत्सदृश एतद्दिर्घर्मा स इति तद्विशेष्यकज्ञानानुदयाच्च । तद्विशेष्यकप्रत्यक्षे तत्सन्निकर्षस्य हेतुत्वात् । न च प्रत्यक्षे विशेष्यसन्निकर्षो हेतुः, न तु यावद्विशेष्यसन्निकर्षो गौरवात् । अन्यथा अतीतानागतव्याप्यविशेष्यकं व्याप्तिप्रत्यक्षं न स्यादिति वाच्यम् । अतीतानागतविशेष्ये सामान्यलक्षणायाः प्रत्यासत्तेः सत्त्वात् । प्रकाशिका । अतीतानागतविशेष्य इति । यद्यपि गौरवेमेतावतापि नापाहृतम् । तथापि तद्विषयकप्रत्यक्षे तदिन्द्रियसन्निकर्षत्वेन कारणत्वमवश्यं वाच्यम् । अन्यथा घटसन्निकर्षमात्रेण घटापटोभयविशेष्य- कप्रमुहालम्बनापत्तेरिति गौरवं प्रामाणिकतया न दूषणमिति भावः ॥ ९ ॥ मकरन्दः । अतीतानागतेति । यद्यप्येवमपि गौरवं नापाहृतं तथापि प्रमाणिकं तदिति भावः। अन्यथा घटसन्निकर्षात् पटविशेष्यकस्यापि समूहालम्बनस्यापत्तेः । तथा च तत्तद्विशेष्यकप्रत्यक्षे तत्तद्विशेष्य- सन्निकर्षो हेतुः, अत एव सामान्यलक्षणाभ्युपगमोऽपीति ॥९॥