न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 421, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] शब्दस्य बाधकत्वखण्डनम् । ३८६ पदार्था मिथः संसर्गवन्तो वाक्यत्वादिति व्यधिकरणं, पदार्थत्वादिति चाऽनैका- न्तिकं, पदैः स्मारितत्वादित्यपि तथा। यद्यपि चैतानि पदानि स्मारितार्थसंसर्गवन्ति तत्स्मारकत्वादित्यादौ साध्याभावः। नह्यत्र मत्वर्थः संयोगः समवायस्तादात्म्यं विशेषणविशेष्यभावो वा सम्भवति । ज्ञाप्यज्ञापकभावस्तु स्वातन्त्र्येणानुमानान्तर्भा- ववादिभिर्नेष्यते। न च लिङ्गतया ज्ञापकत्वं, यल्लिङ्गस्य विषयस्तदेव तस्य, पर- स्पराश्रयप्रसङ्गात्—तदुपलम्भे हि व्याप्तिसिद्धिस्तत्सिद्धौ च तदनुमानमिति ॥ बोधनी । मत्वर्थः साध्यः स्यादित्याह न च लिङ्गतया इति । प्रसङ्गमेवाह तदुपलम्भे इति । तस्य लिङ्ग- तया ज्ञापकत्वस्य साध्यस्योपलम्भे हि सति तेन सह शब्दलिङ्गस्य व्याप्तिनिश्चयः तन्निश्चये च ज्ञाप- कत्वानुमानमिति प्रकारान्तरासम्भवेऽनतिरेक एव, पदार्थपक्षीकारेण तु तेषां मिथः संसर्गस्यैवमनुमा- प्रकाशः। पदानां तदर्थानां वाऽऽकाङ्क्षादिमतां वाक्यार्थप्रत्ययाने लिङ्गभावेनैव करणत्वमस्तु, किं शब्दे- नातिरिक्तमानेनेत्यभिप्रेत्य पदार्थकरणत्वपक्षेऽनुमानामेदं साधयति यद्यपीति ॥ अनैकान्ति- कमिति ॥ निराकाङ्क्षादिभिरित्यर्थः ॥ तथेति ॥ तैरेवानैकान्तिकमित्यर्थः । पदकरणत्वमाश्रि- त्याह यद्यपि चेति ॥ समवाय इति ॥ न पदार्थसंसर्गाणां पदेषु समवाय इत्यर्थः ॥ विशे- षणेति ॥ स हि पदार्थानां मिथोऽन्वयो न पदधर्म इत्यर्थः ॥ न चेति ॥ लिङ्गतया ज्ञापकत्वं यच्छ- ब्दस्य, तदेव तस्य लिङ्गस्य तत्स्मारकत्वादित्यर्थस्य विषयः कर्मेति न चेति योजना । परस्परा- श्रयत्वं स्पष्टयति तदुपलम्भे हीति ॥ लिङ्गतया ज्ञापकत्वोपलम्भे हीत्यर्थः । मानान्तरेण शब्द- स्य लिङ्गत्वसिद्धौ ततोऽनुमित्या लिङ्गतया ज्ञापकत्वे व्याप्तिः सिद्ध्येत , इत्यञ्च ज्ञापकत्वे लिङ्गत्वसि- द्धिरिति भावः । यद्यपि पूर्वपूर्वविषयानुमितिजनकत्वेनानादित्वाच्च परस्पराश्रयत्वं, तथापि ज्ञापकत्व- सिद्धावपि नार्थसिद्धिः, प्रमापकत्वे तु साध्येऽनैकान्तिकमिति भावः ॥ प्रकाशिका । तथापोति । तथा च शब्दो नेश्वरे बाधको अबाधकत्वव्यवस्थितानुमानाभिन्नत्वादिति हेत्वर्थ इति भावः । पञ्चम्या हेतुत्वार्थत्यागाद्धेत्वन्तरं पूरयति प्रकृतेरिति । हेत्वध्याहारगौरवेणारुचिं विभावयति अन्य इति । निराकाङ्क्षादिभिरिति । अतद्गुणसंविज्ञानबहुव्रीहिनाऽयोग्यैरित्यत्र तात्पर्यम् योग्यतासत्त्वे आकाङ्क्षादिविरहेण व्यभिचाराभावादिति ध्येयम् । पदपक्षकप्रयोगे मूले आकाङ्क्षासत्त्वादित्येव हेतुरधिकस्य व्यर्थत्वादित्यवधेयम् । प्रमापकत्व इति । पयसा सिञ्चती- मकरन्दः । एवं सति हेतुं पूरयति प्रकृतेरिति । निराकाङ्क्षादिभिरिति । अयोग्यैरित्यत्रैव तात्पर्यम् । योग्यतासत्त्वे आकाङ्क्षाविरहे व्यभिचाराभावादिति ध्येयम् । शेषं शब्दप्रकाशे विवक्षितम् । द्विती- यप्रयोगे मूले आकाङ्क्षादिमत्त्वादित्येव हेतुः तत्स्मारकत्वादित्यस्य व्यर्थत्वात् । प्रमापकत्वे इति । आकाङ्क्षादिमतोऽपि सहकारिविरहेण कदाचित् प्रमाऽनुत्पादकत्वादिति भावः । यद्यपि टिप्पणी । ज्ञापकत्वे लिङ्गत्वसिद्धिरित्यर्थ इति । न मानान्तरेणेति शेषः । तथा चान्योन्याश्रय- दोषसङ्गतिः॥ प्रमापकत्वे साध्येऽनैकान्तिक इति । पदार्थस्मारके सहकारिविरहेण प्रमाया अज- नके योग्यताभ्रमेण भ्रमजनके व्यभिचारः ॥