न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 427, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] \qquad\qquad\qquad\quad शब्दस्य बाधकत्वखण्डनम् । \qquad\qquad\qquad\quad ३६५ तिरिति । न च विशेषोपस्थानात् प्रागेव जिज्ञासाऽवगतिः प्रकृतोपयोगिनी, तादृ- ङ्मात्रस्यानाकाङ्क्षित्वात् । न चैवम्भूतोऽप्ययमैकान्तिको हेतुः । यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्ते- नायमेति पुत्र इत्यश्रुत्वैव राज्ञः पुरुषोऽपसार्यतामिति शृणोति, तदाऽस्त्याकाङ्क्षादि- मत्त्वे सति पदकदम्वकत्वं, न च स्मारितार्थसंसर्गज्ञानपूर्वकत्वमिति ॥ बोधनी । शेषणं, तथापि न वाक्यार्थप्रतीतिरानुमानिकी विशेषणत्रयविशिष्टस्यापि पदार्थस्मारकत्वस्य हेतोर- नैकान्तिकत्वादित्याह न चैवम्भूतोऽपि इति । न च इति । न हि राज्ञ इत्यादिपदत्रयस्मारितानां राजपुरुषापसारणानां संसर्गबुद्ध्या तदुच्चारितं राजपुरुषयोः पुत्रापसारणाभ्यां संसर्गज्ञानपूर्वकत्वादिति । प्रकाशः । न चाप्रयोजकत्वम् , आकाङ्क्षासत्त्वेऽपि ज्ञानादन्वयबोधाभावापातात् । राजा पुत्रमाकाङ्क्षति पुरुषं वेति संशये तद्विपर्यये वाऽन्वयधीप्रतिबन्धाच्च । अत्रास्मत्पितृचरणाः— प्रवृत्तिपरत्वं शब्दस्य लिङ्गत्वे न स्यात् । अर्थज्ञानं हि प्रवर्त्तकं न तु तज्ज्ञानज्ञानं, गौरवात् , तदभावेऽप्यर्थज्ञानात् प्रवृत्तेश्च । अतो वक्ता घटज्ञानवानिति ज्ञानं न प्रवर्त्तकमपि स्वयं घट इति । घटज्ञानज्ञानमपि घटविषयमिति चेत् । सत्यम् । न तु घटत्वप्रकारकं, प्रवर्त्तकञ्च तथा । अन्यथा भ्रान्तस्येव भ्रान्तिज्ञस्याऽपि प्रवृत्तिप्रसङ्गः । अत एव लक्षणानानार्थाद्य- न्वयबोधात् तात्पर्यग्रहो वाक्यार्थधीहेतुस्तच्च पदार्थसंसर्गविशेषज्ञानोद्देश्यकत्वमतस्तद्ग्राहकानुमानादेव तात्पर्यज्ञानावच्छेदकतया संसर्गसिद्धिरित्यपास्तम् । तात्पर्यज्ञानं न वाक्यार्थहेतुरिति वक्ष्यमाणत्वाच्च । प्रकाशिका । मुचितमिति न व्यभिचार इति भावः । ननु संशयसाधारणं ज्ञानमित्यर्थमयुक्तं निश्चयस्य क्वचिदप्य- मकरन्दः । लिङ्गविशेषणत्वसम्भवादनुमान एवान्तर्भाव इति भावः । क चिदपि तदनिश्चये तत्संशयोऽपि टिप्पणी । क्षतिः । ज्ञायमानकारण इति प्रत्यक्षासाधारणकारणे स्वरूपत उपयोगिनि व्यभिचारवारणायेति बोध्यम् । अज्ञातोपयोगिव्यभिचारीति पाठे व्यभिचारिणो प्रमाणादज्ञातोपयोगिनो यद्वैलक्ष- ण्यन्तत्वादित्यर्थः । अप्रमाणदोषादि बोध्यम् । इष्टापतेराह राजेति । स्वज्ञानाधीनस्वसम्बन्धिविशेषजि- ज्ञासाविषयपदस्मारितपुत्रकत्वराजनि तादृशजिज्ञासाविषयस्मारकपुत्रसमभिव्याहृतत्वं राजपदे तादृश- जिज्ञासावत्त्वमप्रमातरि यथायथमाकाङ्क्षा बोध्या । न तु तज्ज्ञानज्ञानङ्गौर्वाद्दिति । शरीरगौरवात् सर्वत्रानुव्यवसायकल्पनागौरवाच्चेत्यर्थः । तदभावेऽप्यर्थज्ञानादिति । विपक्षबाधकतर्काभावे व्यभिचारसंशयस्यापि कारणत्वग्रहविरोधित्वादिदमुक्तम्, तेन तदभावानिश्चयेऽपि न क्षतिः । न तु घटत्वप्रकारकमिति । इदंत्वावच्छिन्नघटत्वप्रकारकम्, किन्तु इदंविशेष्यकघटत्वप्रकारकत्ववि- षयकमित्यर्थः । अन्यथा भ्रान्तस्येव भ्रान्तिज्ञस्यापीति । विशेष्ये प्रकारानवगाहिनोऽपि विशेष्यप्रकारकत्वमात्रेण प्रवर्त्तकत्वे बाधकाले भ्रान्तिभ्रान्तित्वेन प्रकाररहिते विशेष्ये तत्प्रकारकत्वेन ज्ञानं जनयतोऽपीत्यर्थः । अत एव लक्षणानानार्थादीति । लक्षणानुरोधान्नानार्थानुरोधाच्चेत्यर्थः । काकेभ्यो दधि रक्ष्यतामित्यत्रान्वयानुपपत्तेरभावात्तात्पर्यानुपपत्तेरेव तद्वीजत्वम् तच्च तात्पर्यज्ञान- स्यानपेक्षितत्वे न घटेतेति लक्षणानुरोधेन तात्पय्र्यज्ञानस्योपयोगः, नानार्थस्थलेऽपि तात्पर्यग्रहं विना व्यवस्थितैकार्थबोधो न स्यादिति तदुपयोग इति भावः । पदार्थसंसर्गविशेषज्ञानोद्देश्य- कत्वमिति । पदार्थसंसर्गविशेषज्ञानमुद्देश्यं स्वजन्यत्वेनेच्छाविषयो यस्य तत्कत्वम्, तदिच्छयोच्चारित- त्वमिति यावत् । संसर्गसिद्धिरित्यपास्तमिति । तत्प्रकारकत्वविशेष्यकत्वस्यैव ज्ञानविशेषणतया