न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 428, कुल 608 में से
संदर्भ में पढ़ें३६६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १३ कारिकाव्याख्यायो स्यादेतत् । यावत्समभिव्याहृतत्वेन विशेषिते हेतौ नायं दोषः, तथाविधस्य व्यभिचारोदाहरणाऽसंस्पर्शात् । कुतस्तर्हि कतिपयपदश्राविणः संसर्गप्रत्ययः ? । अलिङ्ग एव लिङ्गत्वारोपात् । एतावानेवायं समभिव्याहार इति तत्र श्रोतूरभि- मानः । न । तत्सन्देहेऽपि श्रुतानुरूपसंसर्गावगमात् । भवति हि तत्र प्रत्ययो, न जाने किमपरमनेनोक्तमेतावदेव श्रुतं, यद्राज्ञः पुरुषोऽपसार्यतामिति । भ्रान्तिरसो- बोधनी । स्यादेतत् इति । यावन्ति समभिव्याहृतानि पदानि तावतामाकाङ्क्षादिमत्त्वे सति पदार्थस्मा- रकत्वं हेतुस्ततो न व्यभिचार इति यदि विशिष्टो हेतुः कुतस्तर्हि तदभावे संसर्गप्रत्यय इत्याह कुत- इति । वाक्यैकदेश एव यावत्समभिव्याहृतत्वभ्रान्तेरित्याह अलिङ्गे इति । भ्रान्तिमेव दर्श- यति एतावानेव इति । यावत्समभिव्याहृतत्वसन्देहेऽपि संसर्गावगमान्न तदध्यारोपकारणमिति । नन्वेकदेशभाविनः संसर्गप्रत्ययो भ्रान्तिरित्यत आह भ्रान्तिरिति । भवतु भ्रान्तिस्तथापि कुतश्चि- प्रकाशः । अपि चानुमितेर्व्यापकतावच्छेदकमात्रप्रकारत्वात् पदानि स्मारितार्थसंसर्गज्ञानपूर्व्वकानीत्यनुमितिः स्यान्न घटज्ञानपूर्व्वकानीति । योग्यतायाश्च लाघवात् संशयादिसाधारणं ज्ञानमात्रं हेतुः । बाधसंश- यस्य ज्ञानाप्रतिबन्धकत्वाच्च । अन्यथा प्रमामात्रोच्छेदप्रसङ्गात् । स्वपरबोधकप्रमाविरहः क्वचिनि- श्चीयेतेऽपि यंथेह भूतले घटो नास्तीत्यत्र स्वयोग्यानुपलब्ध्या घटाभावनिश्चयेनान्यस्यापि घटाप्रमा- विरहो निश्चीयते । अत एव सा न लिङ्गविशेषणम् । बाधकप्रमाणविरहस्य सर्व्वत्र निश्चेतुमशक्यत्वात्, तत्संशयेऽपि शब्दान्वयबोधान्निश्चविशेषणस्य च सर्व्वत्र निश्चितत्वादिति सङ्क्षेपः । एतदेवाभिसन्धाय पूर्वापरितोषेणाह न चैवमिति । आकाङ्क्षादेर्ज्ञायमानतया हेतुविशेषण- त्वेऽपीत्यर्थः । तत्सन्देहे इति । यावत्समभिव्याहृतत्वसन्देहेऽपीत्यर्थः । भ्रान्तिर साविति । प्रकाशिका । भावादत आह स्वपरेति । अत एवेति । यत एव संशयसाधारणं तज्ज्ञानं हेतुरित्यर्थः । ननु योग्यतासंशयस्य हेतुत्वमेव कुत इत्यत आह बाधकेति । एतदेवेति । आकाङ्क्षाज्ञानहेतु- मकरन्दः । दुर्लभं इत्यत आह स्वपरेति । अत एवेति । यत एव संशयसाधारणं तज्ज्ञानं हेतुरित्यर्थः । नन्वेतदेव कुत इत्यत आह बाधकेति । एतदेवेति । आकाङ्क्षाज्ञानहेतुत्वमेवेत्यर्थः । दोषवत इति विपर्य्यय टिप्पणी । तत्पदार्थज्ञाने मानाभ्युपगमान्न तु विशेष्यप्रकारस्येति भावः । तात्पर्य्यज्ञानं न वाक्यार्थधीहेतु- रिति । आवश्यकप्रकरणज्ञाने हेतुतयोपपत्तेर्लक्षणां विना विवक्षितस्य दध्युपघातकत्वस्यान्वयानुपप- त्तेरेव लक्षणाबीजत्वान्नक्षणाऽनुरोधेन तत्रोपयोगेऽपि हेतुत्वे मानाभावाच्चेति । न घटज्ञानपूर्व्वका- नीति । तथैवं तु न साध्यता दृष्टान्तेऽसम्भवादपूर्व्ववाक्यार्थस्थले साध्यज्ञानस्यैव सम्भवाच्चेति । योग्यतायाश्च लाघवादिति । बाधकप्रमाविरहो यत्र योग्यता स्वपरेत्याद्यग्रिमग्रन्थानुरोधात् न तु बाधकप्रमासंशयस्य बाधकसंशयपर्य्यन्तत्वात्तस्मिन् सति कथं शाब्दज्ञानं स्यादित्यत आह बाधसंशयस्येति । अथ बाधनिश्चयाभावस्यैव स्वरूपतो हेतुत्वमस्तु तस्य विशिष्टबुद्धिामान्ये क्लृप्तत्वात् । न च वह्निना सिञ्चतीत्यादायोग्यस्य शाब्ददर्शनाच्छाब्दबोधे योग्यतापेक्षणीया, सा न बाधनिश्चयविरहमात्रं योग्गे बाधभ्रमसम्भवेनायोग्यत्वापत्तेः, नापि सा स्वरूपसत्येव हेतुः बाधप्रमाविरहेऽभ्रमे शाब्दबोधास्यानुभविकत्वादिति वाच्यम् । वह्निना सिञ्चतीत्यादौ बाधनिश्चये कारणाभावादेव शाब्दाभावोप- पत्तेर्योग्यताया अनपेक्षितत्वादिति चेत् । सत्यम्, यत्र भ्रमतवप्रमात्वप्रमोदासीन्येन बाधनिश्चये सत्यपी- च्छावशादुक्तयोग्यताप्रहे काव्यादिस्थले शाब्दबोधोऽनुभवसिद्धस्तत्रैव योग्यताज्ञानकारणताया आव-