न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 429, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] शब्दस्य बाधकत्वखण्डनम्। ३६७ चिति चेद्, न तावदसौ दुष्टेन्द्रियजा, परोक्षाकारत्वात्। न लिङ्गाभासजा, लिङ्गा- भिमानाभावेऽपि जायमानत्वात्। एतादृक् पदकदम्बप्रतिसन्धानमेव तां जनयतीति चेत्। यद्येवमेतदेवादुष्टं सद्भ्रान्तिं जनयत् केन वारणीयम् ? । व्याप्तिप्रतिसन्धानं विनापि तस्य संसर्गप्रत्यायने सामर्थ्यावधारणात्, चक्षुरादिवत्। नास्त्येव तत्र संसर्गप्रत्ययोऽसंसर्गाग्रहमात्रेण तु तथा व्यवहार इति चेत्। तर्हि यावत्समभि- व्याहारेणापि विशेषणे नाप्रतीकारः, तथाभूतस्यानाप्तवाक्यस्य संसर्गज्ञानपूर्वकत्वा- भावात्। असंसर्गाग्रहपूर्वकत्वमात्रे साध्ये न व्यभिचार इति चेत्। एवन्तर्हि
बोधनी। त्प्रमाणाभासाद्भवितव्यं, न तावत्प्रत्यक्षाभासात् लिङ्गाभासाद्वा भवति, तत्फलवैधर्म्यादित्याह न ता- वदिति। यदि कतिपयग्रहणदूषितं पदकदम्बकप्रतिसंधानमेव भ्रान्तिं जनयेत्तदैवादुष्टमभ्रान्तिं जनयेच्चानुमानं लिङ्गाभिमानाभावेऽपि यथोक्तप्रकारेण प्रतीतिजननसामर्थ्यावधारणादित्याह एता- दृक् इति । ननु स्यादेवं यदि यावत्समभिव्याहृतत्वसंदेहेऽपि व्याप्तिप्रतिसन्धानविधुरस्य संसर्गा- वगमो जायेत, न त्वेतदस्तीत्याह नास्त्येव इति । कुतस्तर्हि तत्र संसर्गव्यवहार इत्याह
प्रकाशः। कतिपयपदश्राविणो यः संसर्गप्रत्यय इत्यर्थः। व्याप्तीति। शब्दो न लिङ्गतया ज्ञापकः व्याप्त्यादि- ज्ञानरहितस्यापि दोषवतः अविपर्ययहेतुत्वाच्चक्षुर्वदित्यर्थः। नास्त्येवेति। कतिपयपदश्रवणं यत्रेत्यर्थः। संसर्गे बाधकाच्चेति भावः। एवं तर्हीति। असंसर्गाग्रहपूर्वकत्वसिद्धावपि तस्याप्रवर्त्त-
प्रकाशिका। त्वमेवेत्यर्थः। दोषवत इति। व्याप्तिज्ञानं विना ज्ञानहेतुत्वादिति हेतुः, ज्ञानहेतुत्वञ्च प्रकृते विपर्य- यमादायैव सिद्धमिति विभावयितुं विपर्ययपदम्। ननु कुतो विशेषाद् विपर्यय इत्यत उक्तं दोषवत
मकरन्दः। इति च स्वरूपनिर्वचनं, ज्ञानहेतुत्वादित्यत्र तात्पर्यम्। संसर्ग इति। समस्ताश्रवणमेव बाधकमित्याशयः।
टिप्पणी। श्यकत्वात्। नचैवं तदनुरोधेन बाधनिश्चयाप्रतिबन्धकत्वमेवास्त्विति वाच्यम्। वह्निना सिञ्चतीत्यादावपि तदापत्तेः, योग्यताज्ञानस्य चमत्कारिद्विष्टसाधनत्वग्रहविरहनिश्चयेच्छाविरहेणानुत्पत्त्या मन्मतेऽ- सम्भवात् । न चेच्छया शाब्द एवाङ्गीक्रियतामिति वाच्यम्। परोक्षं ज्ञानमनाहार्यमिति सिद्धान्त- भङ्गात्। योग्यताज्ञानाभावप्रत्यक्षे शाब्दसामग्र्याः प्रतिबन्धकत्वाकल्पनेन लाघवानुरोधेनापि योग्यता- याः कारणत्वाच्च । नचोक्तयुक्तिभिः पदार्थे तत्र तद्वत्त्वरूपयोग्यताज्ञानमेवास्तु हेतुर्लाघवादिति वाच्यम् । अपूर्ववाक्यार्थस्थले यत्र क्वचित् साधारणधर्मज्ञानादिविरहादुक्तयोग्यतायाः संशयोऽपि नोत्पन्नस्तत्रापि स्वस्य बाधकप्रमाविरहनिश्चये पुरुषत्वादिरूपसाधारणधर्मदर्शनात् पुरुषान्तरेऽप्युक्तयोग्यताया निश्चयस्य संशयस्य च सम्भवादस्मन्मते तत्रापि शाब्दसम्भवात्। ये त्वेतादृशं स्थलं न मन्यन्ते तैः पदार्थे तत्र तद्व- त्वमेव योग्यत्वमुपेयते तन्मतेऽपि स्वपरेत्यादिग्रन्थः स्वपरबाधकप्रमाविरहः क्वचिन्निश्चीयते न सर्वत्र तदा कैव कथा योग्यता निश्चयस्य सर्वत्रानेवंगरत्या व्याख्येयः अत्र पक्षे बाधकसंशयस्येत्यादिग्रन्थः यथाश्रुत इति । अन्यथा प्रमामात्रोच्छेदप्रसङ्गादिति । बाधसंशयस्थलीयप्रमाशेषवैजात्यावच्छि- न्नोच्छेदप्रसङ्गादित्यर्थः । एतदेवाभासमन्वायेति । संशयसाधारणं योग्यतादिज्ञानं हेतुरित्येतदेवे- त्यर्थः । पूर्वापरितोषेणाहैति । पूर्वदोषस्याकाङ्क्षादेः स्वरूपत एव कारणत्वात् लिङ्गविधया हेतुत्वे ज्ञानस्यापेक्षणीयत्वं स्यात् तच्च नास्तीत्येतदभिप्रायकत्वात् । ज्ञातस्योपयोगित्वे लिङ्गविधयापि हेतुत्वे उक्तदोषासम्भव इत्यपरितोषः। व्याप्त्यादिज्ञानेति । यथाश्रुतस्य प्रकृतहेतुत्वासम्भवात् प्रकृतसङ्गम- नाय व्याचष्टे व्याप्त्यादीति । आदिपदान्निङ्गतावच्छेदकस्य पक्षे लिङ्गस्य च परिग्रहः । यज्जातीयस्य व्याप्त्यादिप्रतिसन्धानं विना दोषवति विपर्ययहेतुत्वं तज्जातीयस्य न लिङ्गविधया प्रमाणत्वम् लिङ्गवि-