न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 43, कुल 608 में से
संदर्भ में पढ़ेंस्तवकः ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते १३ प्रकाशिका । त्यगाभ्यां लक्षण्या शक्त्या वोपास्धातुज्ञाने जाते ज्ञाप्यसम्बन्धिन्युपासनारूपेऽर्थे श्तिप्पदस्य लक्षणा गम्भीरायां नद्यामित्यत्र गम्भीरनदीतीरे नदीपदस्येव, अस्तु वा क्रियावाचित्वरूपे धर्ममात्र एव शक्ति- र्लाघवात् । अत्रापि कल्पे विशिष्टलक्षणा पूर्वकल्पवदेव। नचैवमेकलक्षणैवेति द्विरेफपददृष्टान्तोपादानम सङ्गतमिति वाच्यम् । न हि द्विरेफपदे लक्षणाद्वयं किन्तु शब्दघटितसम्बन्धेनैकेव लक्षणा, तथाचा- त्रापि शब्दघटितेन सम्बन्धेन शब्दोपस्थापकस्यार्थे लक्षणेत्यत्रैव च तद्दृष्टान्तोपादानात् । न च तत्र द्विरेफपदेन भ्रमरपदोपस्थितिः, तेन चार्थस्य शक्यस्योपस्थितिरिति नोक्तक्रमेणापि तद्दृष्टान्ततेति वाच्यम् । तथा सति द्विरेफपदोत्तरविभक्त्यर्थस्यार्थेऽन्वयापत्तेरिति । वस्तुतस्तु उपास्तिपदस्यार्थे लक्षणेति कल्प एवायमसङ्गतः, "इक्श्तिपौ धातुनिर्देशे" इति वार्त्तिकेन शब्दपरतायामेव तस्य साधु- त्वानुशासनात् अन्यथाऽपादानानुशिष्टायाः पञ्चम्याः कर्मणि लक्षण्या प्रयोगापत्तेः । न च सुब्विभक्तौ लक्षणाविरहान्न तथेति वाच्यम् । तत्कल्पनायामपि साधुत्वविरहस्यैव मूलत्वात् । अत एव व्यत्य- यानुशासनस्थले लक्षणा स्वीक्रियत एव । न च तत्र शक्तिरेव, अन्यथा व्यत्ययानुशासनवैयर्थ्यमिति वाच्यम् । गौरवात्, व्यत्ययानुशासनस्य लक्ष्यविशेषे साधुत्वज्ञापकत्वात् । श्तिपो धातुत्वविशिष्टे शक्तिरित्यपि न युक्तम् । तस्य प्रकृतेः स्वरूपपरतायां तात्पर्यमात्रग्राहकत्वात् , अन्यथाऽस्तिर्धातु रित्यादिप्रयोगे पौनरुक्त्यापत्तेरिति ॥ २ ॥ मकरन्दः । क्षणया लाभे तच्छक्यकल्पनात् । अन्यथा पौनरुक्त्यापत्तेः । तत्तद्धातुसमभिव्याहारे तत्तदनन्त शक्त्यापत्तेश्च । नचोपास्पद एव लक्षणा । तस्योपासनारूपार्थशक्तत्वादेव । प्रत्युत स्वलक्षणाभ्यु- पगमादिति चेत् । अत्राहुः । उपास्तीत्यादिना उपास्धातुरित्यादिप्रत्ययाद् धातुत्वेन धातौ श्तिपः शक्तिः । तदिदमुक्तं, धातुरूपशब्दाभिधायकत्वेऽपीति । तथाच न शक्त्यानन्त्यादिदोषः । अन्यथा धातुत्वप्रकारकप्रत्ययानुपपत्तेः । न च धातुत्वं नानुगतमिति वाच्यम् । क्रियावाचित्वस्य तथात्वा- त् । नचैवं यागपाकपदादपि तत्प्रयोगापत्तिः । केवलस्यासाधुत्वात् । धातुसमभिव्याहारे च तत्त- द्धात्वन्वयबोधजनननियमेन तदप्रतिपादकत्वात् । अत एव परमते कार्यत्वं लिङः प्रवृत्तिनिमित्तम् । अस्तु वा क्रियावाचित्वे धर्ममात्र एव शक्तिः, धर्मिणः प्रकृतिलभ्यत्वात् । एवञ्च प्रकृतिप्रत्ययाभ्यां स्वलक्षण्या शक्त्या च उपास्धातुरिति विशिष्टानुभवे जनिते स्वज्ञाप्यधातुत्वविशिष्टोपास्सम्ब- न्धिनि उपासनारूपेऽर्थे गभीरनदीतीरे तीरपदस्येव श्तिप्पदे लक्षणा । ज्ञाप्यसम्बन्धमात्रस्य लक्षणा- त्वात् । एवञ्च धातुशक्तत्वेऽपि लक्षण्या धात्वर्थमात्रलाभः स्यान्न तूपासनारूपार्थलाभ इति निर- स्तम् । नचैवमेकलक्षणैव, न तु लक्षितलक्षणेति द्विरेफपददृष्टान्तोपादानमसङ्गतमिति वाच्यम् । शब्दोपस्थापकस्यार्थे लक्षणेत्यत्र दृष्टान्तात् । किञ्च, द्विरेफपदेऽप्येकलक्षणैव परम्परासम्बन्धेनार्थो- पस्थापिका । यदि च तत्र भ्रमरपदं लक्षयित्वाऽर्थो लक्ष्यते इति लक्षणाद्वयं, तदा प्रकृतेऽप्युपास्- पदं लक्षयित्वैवार्थो लक्ष्यते इति तुल्यम् । इयांस्तु विशेषो यत्तत्रैकमेवोभयलक्षकम् अत्र तु न तथेति । न हि सर्वप्रकारेण दृष्टान्तत्वम् । असम्भवात् । नचान्यपदार्थोपस्थितभ्रमरपदादेव भ्रमरपदार्थो- पस्थितिसम्भवे द्विरेफपदे कथमर्थलक्षणेति वाच्यम् । तथात्वे द्विरेफपदोत्तरविभक्त्यर्थस्य तत्रान- न्वयापत्तेरिति दिक् ॥ २ ॥ टिप्पणी । भावः ॥ २ ॥