न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 44, कुल 608 में से
संदर्भ में पढ़ें१४ न्यायकुसुमाञ्जलौ [ प्रथमः- इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः, शुद्धबुद्धस्वभाव इत्यौप- निषदाः, आदिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्म्मविपाकाशयैरपरामृष्टो- बोधनी । प्रकरणारम्भमाक्षिपति । इहेत्यादिना । किं निरूपणीयमित्यन्तेन । सन्दिग्धे न्यायः प्रवर्त्तते न हि सिद्धे । सिद्धश्चायमात्मा सर्ववादिनाम् । तस्मादस्य न्यायविषयत्वासम्भवात् तद्विषयकन्यायव्युत्पा- दकं प्रकरणं नारम्भणीयमिति तात्पर्य्यम् । इह=परमात्मनि प्रकरणे वा, किं निरूपणीयमिति सम्ब- न्धः, अर्थयमाना इत्यस्य चोपासते इत्यनेन । सर्ववादिसम्प्रतिपत्तिदर्शनं शुद्धेत्यादि । शुद्धः= केवलः, अद्वितीय इति यावत् । अत एव बुद्धः=स्वप्रकाशः । द्वितीयाभावे परप्रकाशयत्वासम्भवात् । आदिविद्वान्=स्वारसिकचैतन्यः, न तु बुद्धिवदिति; छायापत्त्या तथात्वे सत्यादिविद्वत्ताविरोधात् । सिद्धः=कूटस्थनित्यः, न तु प्रकृत्यादिवत् केनचिदपि रूपेण साध्य इति । अविद्यास्मितारागद्वेषाभि- निवेशाः क्लेशाः । तत्र विपरीतख्यातिरविद्या । अहमस्मीत्यभिमानोऽस्मिता । रागद्वेषौ सुखदुःख प्रकाशः । भगवदुपासना फलवती, निरूपणञ्च क्रियते, इत्यसङ्गतिं परिहरन् वादिनां विप्रतिपत्त्यभावेन न्यायाङ्गं संशयमाक्षिपति— इहेति । इह = विचारे । सन्देह एव न्यायपूर्वाङ्गं कुतः । अत्र हेतुः प्रसिद्धानुभावे । अनुभावः असाधारणीं कारणतामाह—यं कमपीति । यं कमपि=मोक्षादिकं स्वाभिमतं पुरु- षार्थमर्थयमानाः, यमीश्वरमुपासते मननविषयीकुर्वन्तीत्यौपनिषदा इत्यादौ सर्वत्र सम्ब- न्धः । शुद्धः = एको, द्वितीयाभावात् । बुद्धः = स्वप्रकाशज्ञानात्मकः । द्वितीयाभावेन परप्रकाशय- त्वानुपपत्तेः, एतदुभयवेदान्तिसाधारणम् । आदीति । आदौ=प्रथमतः, विद्वांश्चिद्रूपः स्वभाव- तश्चेतनो, न तु प्रकृतिवच्चेतनोपरागादौपाधिकं चैतन्यं तस्येत्यर्थः । सिद्धो = नित्यो, न तु बुद्ध्या- दिवत् साध्यः । तेन कूटस्थनित्यो, न तु प्रकृतिवत् परिणामिनित्य इत्यर्थः । एतच्च सकलक्षेत्रज्ञसा- धारणत्वान्न परमात्मोत्कर्षाभिधायकमित्यन्यथा व्याख्येयम् । आदौ=सर्गादौ । विद्वान् = ज्ञानवान्, सिद्धो = योगर्द्धिसम्पदुत्पादिताष्टाविधैश्वर्य्यसम्पद्युक्त इत्यर्थः । यथोक्तं तत्त्वकौमुद्यां वाचस्पति- मिश्रैः—“सर्गादावादिविद्वानत्रभवान् कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रादुर्भूवेति स्मरन्तीति” । क्लेशेति । अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः । कर्म्म=धर्माधर्महेतु- प्रकाशिका । परिहरन्निति वर्त्तमानसामीप्ये, तेन परिहरिष्यन्नित्यर्थः । अन्यथा परिहारस्य सिद्धान्ते- नाभिधानादाक्षिपतीत्यनेनानन्वयापत्तेः । ननु सन्देहाभावे का क्षतिरत आह—न्यायेति । उभ- मकरन्दः । ननु माऽस्तु सन्देह इत्यत आह । न्यायेति ॥ त्रिदण्डिमतमेकदण्डिमतञ्चेत्युभयम् । बुद्धद्यात्मनोरेकत्वेन ज्ञानमस्मितेत्येके । अहङ्कार टिप्पणी । परिहरन् वादिनां विप्रतिपत्त्यभावेनेति । परिहन्निति वर्त्तमानसामीप्ये तेन परिहरिष्यन्नित्यर्थः । अन्यथा परिहारस्य सिद्धान्तेनाभिधानादाक्षिपतीत्यनन्वयापत्तेरिति । अनुभा- वोऽत्रासाधारणीङ्कारणतामाहेति । प्रसिद्धोऽनुभावोऽसाधारणकार्य्यं यस्येति व्युत्पत्त्या प्रसि- द्धस्वकार्यकत्वरूपकारणत्वस्य लाभानानुभावशब्दस्याग्रेऽसाधारणकार्ये व्याख्यानेन विरोधः । उपा- सनास्वरूपमाह । शुद्ध एको द्वितीयाभावादिति । एतदुभयवेदान्तिसाधारणमिति ।