भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 45, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 45

निर्म्माणकायमधिप्राय (१)सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जलाः, लोकवेद- बोधनी । तत्साधनविषयौ प्रसिद्धौ । प्राप्तेश्वर्यभङ्गभीतिरभिनिवेशः । धर्माधर्मसाधनमश्वमेधादिब्रह्महत्यादि कर्म । जात्यायुर्भोगा विपाकाः । तत्र जातिर्देवत्वमनुष्यत्वादिः। प्राणाख्यस्य वायोः कायावच्छिन्नः सम्बन्ध आयुः । स्वसमवेतसुखदुःखान्यतरसाक्षात्कारो भोगः । आफलनिष्पत्तेरात्मनि शेत इत्याशयो धर्माधर्मरूपमपूर्वम् । एतैरपरामृष्टः सर्वदा सर्वथाऽसंसृष्टः । कथं तर्हि कर्माद्यभावे शरीरसम्बन्धः, कथं वा तदभावे सम्प्रदायप्रवर्त्तकत्वं, कथं वानुग्राहकत्वमित्यत उक्तं—निर्माण इति । जगन्निर्माणार्थं स्वेच्छामात्रनिर्मितानि संसारिचेतनवर्गनिर्मितानि वा शरीराणि व्युत्पाद्यव्युत्पादकभावेनाधितिष्ठति । सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो = वेदो घटपटव्यवहारश्च, तत्प्रवर्त्तको वक्ता प्रवक्ता च वेदे कर्त्ता ग्राहयिता चान्यत्र, अनुग्राहकः = स्वर्गापवर्गादिफलप्रदानादिनेति । लोकवेदविरुद्धैः = चिताभस्मोद्धूलन देवदारुवनद्विजवधूविप्लवादिभिरनुष्ठितैरलेपः लोकगर्ह्याऽधर्मेण रहितः । क्लेशसलिलाव- सिक्तायामात्मभूमौ उप्तं कर्मबीजमधर्माङ्कुरमारभते, न च नित्यसर्वज्ञस्य क्लेशसम्भवः । प्रकाशः । र्भावनासाध्यं यागहिंसादि । विपाको=जात्यायुर्भोगाः । फलपर्य्यन्तमाशेरत इत्याशया = धर्मा- धर्म्माः । तैरपरामृष्टोऽसम्बद्ध इत्यर्थः । शरीरैकनिष्पाद्यवेदादिनिर्म्माणार्थं कायो निर्माण- कायः । सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो वेदः । स चानादिरेव भगवता द्योत्यते । भगवतश्चादृष्टाभावेऽपि तच्छरीरसाध्यघटादिजन्यभोगजनकास्मदाद्यदृष्टैरेव तन्निष्पाद्यते । अनु- ग्राहको घटादिनिर्माणे शिक्षाद्वारेत्यर्थः । लोकेति । लोकविरुद्धैः = सर्पदहनधारणादिभिः, (२) प्रकाशिका । येति । एकदण्डित्रिदण्डीत्यर्थः । यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदास्याङ्गीकारात् । तथाप्यभेदोऽपि तेन स्वीक्रियत एवेत्यभिप्रायेणेदमुक्तम् । बुद्धत्वमात्राभिप्रायेण वा साधारण्यमुक्तम्। एतदुभयमिति क्वचित् पाठः । तत्र केवलोपनिषदुपजीवी औपनिषदशब्दार्थः, तन्मूलकवेदान्त- सूत्रोपजीवी वेदान्तिपदार्थ इति बोध्यम्। लेपपदस्य पापपरतायां तृतीयायाः करणार्थत्वमसम्भवि निर्लेपत्वप्रतियोगिनि लोकविरुद्धहेतुकस्यानन्वयादनुयोगिनि चोभयस्यैवानन्वयादित्यपलक्षणं मकरन्दः । इत्यन्ये । वेदे नित्यपाल्यत्वमुच्चार्यत्वं, न तूह्याद्यत्वम् । स चेत्याद्यग्रिमग्रन्थानुरोधात् । ननु लेप शब्दस्य पापपरत्वे तृतीयायाः करणार्थत्वमयुक्तम् । लोकविरुद्धहेतुकलेपस्याप्रसिद्धेरित्यत आह । टिप्पणी । एकदण्डित्रिदण्डिसाधारणम् । यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदाङ्गीकारात् , तथाप्य- भेदोऽपि तेनाङ्गीक्रियत एवेत्यभिप्रायोक्तिः । जात्यायुर्भोगा इति । जातिः ब्राह्म- ण्यादि । आयुः = श्वासप्रश्वासपरिच्छिन्नकालविशेषावधिकप्राणशरीरसंयोगः । भोगः = सुखदुःखादिः । फलपर्य्यन्तमाशेरते इत्याशया धर्माधर्मा इति तैरपरामृष्टोऽसम्बद्ध इत्यर्थः । ( १ ) सम्प्रदायप्रवर्तक इति वरदराजाभिमतः पाठः । ( २ ) सर्पदहनेत्यत्र द्वन्द्वः ।