न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 434, कुल 608 में से
संदर्भ में पढ़ेंन ह्यपेक्षणीयान्तरमस्ति, लिङ्गे तु परिपूर्णेऽप्यवगते व्याप्तिस्मृतिरपेक्षणीयाऽस्तीति विलम्बेन किं निर्णयेम् ? । अन्वयस्य प्रागेव प्रतीतेः ॥ लोके वक्तुराप्तत्वनिश्चयोऽपेक्षणीय इति चेन्न । तद्रहितस्यापि स्वार्थप्रत्यायने शब्दस्य शक्तेरवधारणात् । अन्यथा वेदेऽप्यर्थप्रत्ययो न स्यात्, तदभावात् । न च लोके अन्यान्येव पदानि, येन शक्तिवैचित्र्यं स्यात् । अनाप्तोक्तौ व्यभिचारदर्शनात् तुल्याऽपि सामग्री सन्देहेन शिथिलायते इति चेन्न । चक्षुरादौ व्यभिचारदर्शनेन शङ्कायामपि सत्यां ज्ञानसामग्रीतरतदुत्पत्तिदर्शनात् ॥ ज्ञायमानस्यायं विधिरित्यसन्देहे सति निश्चायकं यथा लिङ्गं, चक्षुरादि तु सत्त- येति चेन्न । वाक्यस्य निश्चितत्वात्, फलप्रामाण्यसन्देहस्य च फलोत्तरकालीन- त्वात् । आप्तोक्तत्वस्य चार्थप्रत्ययं प्रत्यनङ्गत्वात् । लोकेऽपि चाप्तत्वानिश्चयेऽपि वाक्यार्थप्रतीतेः। भवति हि वेदानुकारेण पठ्यमानेषु मन्वादिवाक्येषु अपौरुषे-
बोधनी।
व्युत्पत्तिकाल तस्यातन्त्रीकृतत्वादित्याह लोके तु इति । आप्तेरपि शक्त्यवधारणोपयोगित्वे तद्विर- हिणि वेदे वाक्यार्थप्रत्ययो न स्यादित्याह अन्यथा इति । न च इति । लौकिकवेदाधिकरणसिद्धा- न्तन्यायोपप्रसङ्गादिति । ननु तुल्यापि सामग्री अनाप्तवाक्येषु दृष्टव्यभिचारपौरुषेयत्वसाधर्म्येण सर्व- त्रापि व्यभिचारशङ्कायां नार्थप्रतिपादनसमर्था भवतीत्याह अनाप्तोक्तौ इति । न इति । न हि दृष्टव्यभिचारं चक्षुर्ज्ञानं न जनयतीति । ननु ज्ञायमानतया ज्ञापकत्वाद्वाक्येन लिङ्गस्य रीतिरनुसर्तव्या न तु चक्षुरादेरित्याह ज्ञायमानस्य इति । किमत्र वाक्यस्य स्वरूपसंदेहो वाक्यार्थज्ञानजननं प्रतिबध्नाति, किं वा वाक्यफलस्य ज्ञानस्य विसंवादात् प्रामाण्यसंदेहः । तत्र वाक्यं तावन्निश्चितमेव, ज्ञानप्रामाण्यसंदेहस्तु कथं ज्ञानोत्पत्तेः पश्चा- द्भवन् पूर्वभाविनीं तदुत्पत्तिं प्रतिबध्नीयादित्याह न वाक्यस्य इति । नन्वाप्तोक्तत्वसंदेह एव वाक्यस्य प्रत्यायकत्वं प्रतिबध्नातीत्यत आह आप्तोक्तत्वस्य इति । वेदे तदभावेऽप्यर्थप्रत्यायकत्वदर्शनाद- नङ्गत्वमिति मा भूद्वेदे, लौकिके तु तदङ्गं भविष्यतीत्यत्राह लोकेऽपि इति । वेदानुकारः स्वर- विशेषस्तेन सादृश्याद्वेदत्वाभिमानालम्बनमुक्तं, मन्वादिवाक्येष्वित्यर्थसादृश्यात् । गौडो मीमांसकः पञ्चिकाकारः । गौडो हि वेदाध्ययनाभावाद्वेदत्वं न जानातीति गौडमीमांसकस्येत्युक्तमिति । ननु
प्रकाशः।
भावः । प्रत्युतानुमाने व्याप्तिस्मृत्यादिविलम्बादनुमितिविलम्बेन तस्यैवानुवादकत्वमित्याह व्याप्ति- स्मृतीति । लोके इति। स च न वक्तृज्ञानानुमानं विनेति भावः । तं विनाऽपि वेदादन्वयबोधा- द्व्यभिचारात् स न तत्र हेतुरित्याह तद्रहितस्याऽपीति । य एव लौकिकास्त एव वैदिकास्त एवामीषामर्था इत्याह न चेति । यथा स्थाणुपुरुषसंशये चक्षुर्न निश्चायकं, तथाऽऽप्तोक्तवानाप्तो- क्तत्वसन्देहे तुल्याऽपि सामग्री न निश्चायिकेत्याह अनाप्तोक्ताविति । यथा समानविषयकसन्दे- हस्यैव प्रतिबन्धकत्वान्निश्चयविषयकोऽप्रमाजनकत्वसंशयो न चाक्षुषनिश्चयप्रतिबन्धकः, तथाऽऽप्तोक्त- त्वसन्देहोऽपि न शाब्दनिश्चयप्रतिबन्धक इत्याह चक्षुरादाविति । सन्देहः किं वाक्यस्वरूपे, तज्जनितज्ञानप्रामाण्ये वा, आप्तोक्तत्वे वा ? । आद्ये वाक्यस्येति । द्वितीये फलेति । अन्त्ये आप्तोक्तत्वस्येति । न चाप्रमाजनकत्वे सन्देहः, तत्प्रतिबन्धकत्वे मानाभावादिति भावः । ननु लोके आप्तोक्तत्वसन्देहे वाक्यार्थज्ञानानुदयात् तन्निश्चयस्तद्धेतुः, तथा च वाक्यार्थगोचरपदार्थज्ञानज- न्यत्वमाह्वकात् तदुपजीविनोऽनुमानाद्वाक्यार्थधीरित्यत आह लोकेऽपीति ॥ १४ ॥