न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 439, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके ] . . . . शब्दस्य बाधकत्वखण्डनम् । . . . . ४०७ नोक्तदोषावकाशः । नाऽपि पर्यायतापत्तिः, प्राधान्येन नियमात् । नापि पौनरुक्त्यं, विशेषाऽन्वये तात्पर्यात् । नापीतरेतराश्रयत्वम्, स्वार्थस्मृतावपेक्षणात् । नापि वाक्यभेदापत्तिः । परस्परपदाऽर्थस्मृतिसन्निधौ तदितरानपेक्षणादिति चेत् । न । अन्विते सङ्गतिग्रह इति कोऽर्थः ? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थाऽन्वितं, न किञ्चित् प्रकृतोपयोगीत । न हि यत्र चक्षुषः सामर्थ्यमवगतं तद्वस्तुगत्या स्पर्शवदिति तद्वत्ताऽपि तस्य विषयः । अथान्विततयैव तत्र व्युत्पत्तिरित्यर्थः । तदसत् । प्रमा- णाभावात् । प्रकाशः । पनादित्यत आह ना पीति। प्राधान्येनेति । क्रियापदं कारकमभिदधदपि कारकविशेष्यां क्रियामाह, कारकपदञ्च क्रियामप्यभिदधत् क्रियाविशेष्यं कारकमाहेति विशेषणविशेष्यभावभेदेनार्थभेदादि- त्यर्थः । ननु क्रियाकारकविशेषवाचकं पदं पुनरुक्तं, - कारकोपहितक्रियादेरितरपदेनैवोपस्थापनादि- त्यत आह नापीति । विशेषेति । सामान्यज्ञानेऽपि तद्विशेषज्ञापनाय विशेषपदमित्यर्थः । ननु कारकपदात् कारकोपस्थिति मपेक्ष्य क्रियापदेन तद्विशिष्टा क्रियोपस्थाप्या, कारकपदेन च क्रियाप- दात् क्रियोपस्थितिमपेक्ष्य तद्विशिष्टं कारकमवस्थाप्यमित्यन्योन्याश्रय इत्याह नापीति। स्वार्थेति । कारकक्रियोपस्थितमनपेक्ष्य क्रियाकारकपदाभ्यां विशिष्टास्मरणादित्यर्थः । नन्वेवं घटाऽन्वितमान- यनमानयनान्वितो घट इति विशेषणविशेष्यभावभेदादर्थभेदे वाक्यभेदः स्यादित्यत आह नापि वा क्येति । यत्रैकस्मिन् वाक्यार्थे पर्यवसन्ने वाक्यार्थान्तरबोधस्तत्र वाक्यभेदः, अत्र तु न तथा, विशे- षणविशेष्यमात्रभेदेऽपि घटानयनात्मककार्यसाम्याद्भेदादित्यर्थः । यत्रेति । यत्र वाक्यार्थे व्युत्पत्तिः सङ्गतिग्रह इत्यर्थः ॥ प्रमाणाभावादिति । ननु वृद्धव्यवहारेणानुमितेतरान्वितपदार्थज्ञाने पदकरणत्वग्रहादुपस्थि- तत्वाच्च तत्रैव शक्तिग्रहो न पदार्थज्ञानमात्रे, तस्य व्यवहाराहेतुतया ततोऽनुपस्थितेः । मैवम् । विशिष्टज्ञानस्य विशेष्यविषयत्वनियतत्वेनेतरान्वितपदार्थज्ञानोपस्थितौ विशेष्यस्य पदार्थज्ञानस्याप्युपस्थि- तेस्तत्रैव शक्तिग्रहाल्लाघवात् । न त्वितरान्वितेऽपि, गौरवात् । न चानन्यलभ्यत्वात्तत्र शक्तिः, पदार्थज्ञानशत्वेन ज्ञातयदस्य स्वार्थस्मृतिद्वाराऽऽवश्यकत्वादाकाङ्क्षादिसचिव्यात् समभिव्याहृतपदार्थेन स्वार्थान्वयानुभावकत्वस्वभावकल्पनात् । न चाशक्यान्वयानुभवेऽतिप्रसङ्गः, शक्यान्वयत्वस्य स्वरूप- सतो नियामकत्वात् । अन्वयसामान्यशक्तावपि अन्वयविशेषज्ञानार्थमाकाङ्क्षादेरवश्यमपेक्षणात् । तस्मात् पदार्थानामन्वितज्ञानजनकत्वेऽपि यथा जातिवाचकपदानां व्यक्तावेकैव शक्तिर्जात्यंशे ज्ञाता व्यक्त्यंशे तु स्वरूपसती व्याप्रियते, तथा एकैव शक्तिरन्वयांशे स्वरूपसती पदार्थांशे ज्ञाता व्याप्रि- यत इति नान्वयांशेऽपि शक्तिः । ज्ञातशब्दशक्तिजन्यज्ञानविषयस्यैव शक्यत्वात् ॥ नन्वन्वये पदानां तात्पर्यं तन्निर्वाहिका च वृत्तिः । न च स्वार्थसम्बन्धिनि स्वान्वये तात्पर्या- ल्लक्षणा, अन्वयविशेषणतया पदार्थोपस्थितेश्च न वृत्तिद्वयविरोध इति वाच्यम् । वाक्यार्थस्यापूर्व्वतयाऽ न्वयस्य स्वार्थसम्बन्धित्वेन पूर्वमज्ञानात् । एंवञ्चान्वयः पदशक्यः वृत्यन्तरं विना पदबोध्यत्वात् प्रकाशिका । कारकविशेष्यामिति । इदमुपलक्षणम् आनयनत्वादिना विशेषप्रकारेण्येत्यपि द्रष्टव्यम्। एवमग्रेऽ- टिप्पणी । सङ्कतेरिति । पदार्थविषयकत्वेनेत्यर्थः । न च शक्यान्वयानुभावे ऽतिप्रसङ्ग इति । सति सप्तमीयम्, अशक्यस्यान्वयस्यानुभवे सति शक्यान्वयनियमभङ्गेऽतिप्रसङ्गः गोपद्रस्य घटानुभावकत्व- प्रसङ्ग इत्यर्थः । शक्यान्वयत्वस्य स्वरूपसत इति । अशक्यं यदि पदमनुभावयेच्छक्यान्व-