न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
तृतीयस्तवके ] . . . . शब्दस्य बाधकत्वखण्डनम् । . . . . ४०७ नोक्तदोषावकाशः । नाऽपि पर्यायतापत्तिः, प्राधान्येन नियमात् । नापि पौनरुक्त्यं, विशेषाऽन्वये तात्पर्यात् । नापीतरेतराश्रयत्वम्, स्वार्थस्मृतावपेक्षणात् । नापि वाक्यभेदापत्तिः । परस्परपदाऽर्थस्मृतिसन्निधौ तदितरानपेक्षणादिति चेत् । न । अन्विते सङ्गतिग्रह इति कोऽर्थः ? यदि यत्र सङ्गतिस्तद्वस्तुगत्या पदार्थाऽन्वितं, न किञ्चित् प्रकृतोपयोगीत । न हि यत्र चक्षुषः सामर्थ्यमवगतं तद्वस्तुगत्या स्पर्शवदिति तद्वत्ताऽपि तस्य विषयः । अथान्विततयैव तत्र व्युत्पत्तिरित्यर्थः । तदसत् । प्रमा- णाभावात् । प्रकाशः । पनादित्यत आह ना पीति। प्राधान्येनेति । क्रियापदं कारकमभिदधदपि कारकविशेष्यां क्रियामाह, कारकपदञ्च क्रियामप्यभिदधत् क्रियाविशेष्यं कारकमाहेति विशेषणविशेष्यभावभेदेनार्थभेदादि- त्यर्थः । ननु क्रियाकारकविशेषवाचकं पदं पुनरुक्तं, - कारकोपहितक्रियादेरितरपदेनैवोपस्थापनादि- त्यत आह नापीति । विशेषेति । सामान्यज्ञानेऽपि तद्विशेषज्ञापनाय विशेषपदमित्यर्थः । ननु कारकपदात् कारकोपस्थिति मपेक्ष्य क्रियापदेन तद्विशिष्टा क्रियोपस्थाप्या, कारकपदेन च क्रियाप- दात् क्रियोपस्थितिमपेक्ष्य तद्विशिष्टं कारकमवस्थाप्यमित्यन्योन्याश्रय इत्याह नापीति। स्वार्थेति । कारकक्रियोपस्थितमनपेक्ष्य क्रियाकारकपदाभ्यां विशिष्टास्मरणादित्यर्थः । नन्वेवं घटाऽन्वितमान- यनमानयनान्वितो घट इति विशेषणविशेष्यभावभेदादर्थभेदे वाक्यभेदः स्यादित्यत आह नापि वा क्येति । यत्रैकस्मिन् वाक्यार्थे पर्यवसन्ने वाक्यार्थान्तरबोधस्तत्र वाक्यभेदः, अत्र तु न तथा, विशे- षणविशेष्यमात्रभेदेऽपि घटानयनात्मककार्यसाम्याद्भेदादित्यर्थः । यत्रेति । यत्र वाक्यार्थे व्युत्पत्तिः सङ्गतिग्रह इत्यर्थः ॥ प्रमाणाभावादिति । ननु वृद्धव्यवहारेणानुमितेतरान्वितपदार्थज्ञाने पदकरणत्वग्रहादुपस्थि- तत्वाच्च तत्रैव शक्तिग्रहो न पदार्थज्ञानमात्रे, तस्य व्यवहाराहेतुतया ततोऽनुपस्थितेः । मैवम् । विशिष्टज्ञानस्य विशेष्यविषयत्वनियतत्वेनेतरान्वितपदार्थज्ञानोपस्थितौ विशेष्यस्य पदार्थज्ञानस्याप्युपस्थि- तेस्तत्रैव शक्तिग्रहाल्लाघवात् । न त्वितरान्वितेऽपि, गौरवात् । न चानन्यलभ्यत्वात्तत्र शक्तिः, पदार्थज्ञानशत्वेन ज्ञातयदस्य स्वार्थस्मृतिद्वाराऽऽवश्यकत्वादाकाङ्क्षादिसचिव्यात् समभिव्याहृतपदार्थेन स्वार्थान्वयानुभावकत्वस्वभावकल्पनात् । न चाशक्यान्वयानुभवेऽतिप्रसङ्गः, शक्यान्वयत्वस्य स्वरूप- सतो नियामकत्वात् । अन्वयसामान्यशक्तावपि अन्वयविशेषज्ञानार्थमाकाङ्क्षादेरवश्यमपेक्षणात् । तस्मात् पदार्थानामन्वितज्ञानजनकत्वेऽपि यथा जातिवाचकपदानां व्यक्तावेकैव शक्तिर्जात्यंशे ज्ञाता व्यक्त्यंशे तु स्वरूपसती व्याप्रियते, तथा एकैव शक्तिरन्वयांशे स्वरूपसती पदार्थांशे ज्ञाता व्याप्रि- यत इति नान्वयांशेऽपि शक्तिः । ज्ञातशब्दशक्तिजन्यज्ञानविषयस्यैव शक्यत्वात् ॥ नन्वन्वये पदानां तात्पर्यं तन्निर्वाहिका च वृत्तिः । न च स्वार्थसम्बन्धिनि स्वान्वये तात्पर्या- ल्लक्षणा, अन्वयविशेषणतया पदार्थोपस्थितेश्च न वृत्तिद्वयविरोध इति वाच्यम् । वाक्यार्थस्यापूर्व्वतयाऽ न्वयस्य स्वार्थसम्बन्धित्वेन पूर्वमज्ञानात् । एंवञ्चान्वयः पदशक्यः वृत्यन्तरं विना पदबोध्यत्वात् प्रकाशिका । कारकविशेष्यामिति । इदमुपलक्षणम् आनयनत्वादिना विशेषप्रकारेण्येत्यपि द्रष्टव्यम्। एवमग्रेऽ- टिप्पणी । सङ्कतेरिति । पदार्थविषयकत्वेनेत्यर्थः । न च शक्यान्वयानुभावे ऽतिप्रसङ्ग इति । सति सप्तमीयम्, अशक्यस्यान्वयस्यानुभवे सति शक्यान्वयनियमभङ्गेऽतिप्रसङ्गः गोपद्रस्य घटानुभावकत्व- प्रसङ्ग इत्यर्थः । शक्यान्वयत्वस्य स्वरूपसत इति । अशक्यं यदि पदमनुभावयेच्छक्यान्व-
४०८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१५ कारिकाव्याख्यायो अन्वितार्थप्रतिपत्त्यन्यथानुपपत्तिरिति चेन्न । अनन्विताभिधानेनाप्युपपत्तेः । आकाङ्क्षानुपपत्तिरस्तु, न हि सामान्यतोऽन्वितानवगमेऽन्वयविशेषे जिज्ञासा स्यात् । न। दृष्टे फलविशेषे रसविशेषजिज्ञासावदानेपतऽप्युपपत्तेः । शब्दमहिम्ना- नमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात् । न चैवम् । ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत् । कुतस्तर्हि कविकाव्यानि विलसन्ति । न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम । न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्द- प्रकाशः । पदार्थवदिति । मैवम् । वृत्तिं विनाऽप्युक्तरीत्या पदानामन्वयबोधकत्वसम्भवेनाप्रयोजकत्वात् । अन्यथा शक्त्या तात्पर्यनिर्वाहदर्शनाद् वृत्त्यन्तरोच्छेदात् । अत एव धूमोऽस्तीत्यत्र शक्त्या धूमो- पस्थितावनुमानद्वारा वह्नौ तात्पर्यनिर्वाहान्न लक्ष्योत्यस्माकं पैतृकः पन्था इति सङ्क्षेपः ॥ उक्तान्यलभ्यत्वमभिविद्याह— अन्वितार्थेति । उक्तमभिप्रेत्याह अनन्वितेति ॥ पदार्थज्ञानशक्तत्वेन ज्ञानादेव पदादाव- श्यकाकाङ्क्षादिसहकारिवशादेवन्वयज्ञानसम्भवान्नान्वये शक्तिः कल्प्यते इत्यर्थः । आकाङ्क्षेति । प्रमाणमिति विपरिणतेन सम्बन्धः । ओदनमित्युक्तेऽन्वयविशेषे जिज्ञासाऽस्ति, सा च सामान्यतो ज्ञाते विशेषतश्चाज्ञाते भवतीति तदन्वथानुपपत्त्याऽन्वयसामान्ये शक्तिः कल्प्यते इत्यर्थः । दृष्ट इति । यथा दृष्टे रूपविशेषे रससामान्यमनुमाय तद्विशेषे जिज्ञासा, तथा पदार्थमात्रस्य कोष्ठगत्यान्वयमात्र- व्याप्तेरन्वयसामान्यज्ञानेनोपपत्तेरित्यर्थः । शब्देति । पचतीत्युक्ते प्रत्यक्षायुपस्थितकलायादेरन्वयबोधो न भवति, किन्तु पदोपस्थापितस्यैवेत्यन्वयविशेषे शब्दोपयोगादन्वयसामान्ये शक्तिः कल्प्येत्यर्थः ॥ तदेतदिष्टपादनमित्यन्तरा पदार्थकरणवादी भट्टोऽन्विताभिधानवादिनमास्कन्दति कुतस्तर्हि प्रकाशिका । पि एतच्चाग्रे स्फुटम् । आकाङ्क्षादीनामावश्यकत्वं युक्तं तत्र हेतुमाह अन्वयसामान्येति । अत एव न चेति पूर्वमियं फक्किका युज्यत इत्याहुः । एवञ्चान्वय इति । घटानयनयोरन्वय इत्यर्थः। तेनान्वयपदशक्यतया न सिद्धसाधनमिति द्रष्टव्यम् । विपरिणतेनेति । प्रमाणाभावादिति मूले षष्ठ्यर्थावरुद्धस्य श्रवणादिति भावः । कोष्ठगत्येति । वस्तुगत्येत्यर्थः । अन्वयविशेषे शब्दोपयोगादिति । पदस्य पदार्थमात्रोपस्थितिरैव यदि व्यापारस्तदा प्रत्यक्षोपस्थितकलायेनापि पचतीति पदस्यान्वयबोधापत्तिरतः पदोपस्थितस्यैव न्यायमते शाब्दबोधविषयत्वमित्यन्वये पदशक्तिः कल्पनीयेति नैयायिकं प्रति प्राभाकरस्याक्षेपः । अन्तरेति । शब्दोपस्थितपदार्थानामेव परस्परम- न्वयः शब्देन बोध्यत इति समाधानमाश्रित्यै यावन्नैयायिको न वक्तीत्यर्थः । अत एव नैयायिकेनायं पूर्वपक्षोऽग्रे न समाहितः, तात्पर्यगत्यैव समाधानादिति ध्येयम् । इष्टापादनमिति । प्रकारान्तरो- मकरन्दः । आवश्यक्याकाङ्क्षादिसाचिव्यादिति यदुक्तं; तत्र तदावश्यकत्वे हेतुमाह अन्वयसामा- न्येति । अत एवेयं फक्किका, न चेत्यस्य पूर्वं युज्यते इति प्राहुः । कोष्ठगत्या वस्तुगत्येत्यर्थः । टिप्पणी । यमेवेति नियमकत्वनादित्यर्थः । अन्वयविशेषे शब्दोपयोगादिति । पचतीत्यादौ कलायमि- त्यायुक्त एव पाककलाययोरन्वयविशेषात प्रतीयेत, नचैकपदस्याप्यभाव इति सर्वसम्मत नियमः अन्वयस्य सामान्यतः शक्यत्वे उपपद्यते सामान्योपस्थितेऽन्वये या जिज्ञासात्मिका ह्याकाङ्क्षा तस्याः शाब्दीत्वाच्छब्देनैव प्रपूरणस्य युक्तत्वात्,, विशेषस्य शब्दज्ञाततापेक्षान्वितशक्तपदद्वया र्थेस्मृतिंपर्य्यवसंज्ञो विशेषः शाब्द इति तज्ज्ञानस्य शाब्दजिज्ञासानिवर्त्तकत्वम् । अन्वयस्याशक्यत्वेऽ- शाब्दे तस्मिन् जिज्ञासा शाब्दी न स्यात्, येन प्रमाणेनावगम्यते सामान्यमुत्सर्गस्तत्तत्प्रमाणेनेन तत्र हि जिज्ञासेति प्रत्यक्षायवगतार्थमानेऽपि जिहासािवृत्तिः स्यादित्युक्तनियमो न स्यादिति भावः ।
तृतीयस्तबके ], शब्दस्य बाधकत्वखण्डनम् । ४०६ बोधनी। (१) यदा हि इति। अपौरुषेयत्वनिश्चयेन दोषाभावे निश्चितेऽनुमानसामग्री पूर्णेत्यनुमानादेव संसर्गसिद्धेर्वे- दानुवाद एव स्यादिति किमविशेष एव सर्वथा लोकवेदयोरित्यत्राह इयांस्तु इति। वेदे वक्तुरभावात् पदार्थानैव पक्षीकृत्य तत्संसर्गः साध्यः, लोके तु वक्तृज्ञानविशेषणतयेत्येतावान्विशेषः। संसर्गस्यानुमानतः सिद्धिरित्यत्र फले तु न विशेष इति। तथा च इति। वेदेऽपि संसर्गस्यानुमानतः सिद्धिरित्यर्थः। किञ्चैवंमनुमानात्संसर्गसिद्धौ न तत्रान्विताभिधाने शब्दस्य प्रमाणमस्ति तत्प्रमाणस्यानन्वितत्वेन प्रती- तेरन्यथाप्युपपन्नतत्वादित्याह न चैवम् इति। वृथा प्रयासः। अन्विताभिधानकल्पन इति शेषः। तस्माल्लोक एव शब्दस्यानुवादकत्वमिच्छतो वेदस्याप्यनुवादकत्वमनिष्टं प्रसज्यत इति श्लोकार्थमुप- संहरति तस्मात् इति। यद्वा लिङ्गेन निर्णीतेऽर्थे शब्दस्यानुवादकत्वं वदतो विलम्बितप्रवृत्तेर्लि- ङ्गस्यैवानुवादकत्वं न शब्दस्येति निर्णीतशक्तेर्वाक्यादिति, पूर्वश्लोकार्थोपसंहारः इति। एवमन्विताभिधानमङ्गीकृत्य लोकवेदयोस्तुल्यत्वमावेदितम्, इदानीं तदपि निराकुर्वन्नाह किं चेदम् इति। अविवादात् इति। अभिहितान्वयवादिनोऽप्यन्वितप्रतिपादनमात्रं संवदन्ति, तद- भिधान एव ते विवदन्त इति। विवादादेव इति। अन्वितप्रतिपादनोद्देशेन पदार्थानभिदधति। पदानीत्यत्रापि नास्माकं विवाद इति। तयदि व्युत्पत्तिवलेनान्वितप्रतिपादनं तर्हि अनुभूतो वा- क्यार्थो नावगम्येतेत्याह नापि संगति इति। न च पदार्थविषययैव संगतया वाक्यार्थप्रतिपादनं तस्याः पदार्थप्रतीतिमात्रोपक्षीणत्वादित्याह नापि स्वार्थ इति। अर्थसंगतिरेव तत्रानुपक्षीणा वा- क्यार्थेऽप्युपयुज्यत इत्युच्येत तर्हि पदार्थवाक्यार्थप्रतीत्योः पूर्वापरभावो न स्यादित्याह नापि सैव इति। अस्तु तर्हि यौगपद्यमित्यत्राह यौगपद्य इति। अवगतपदार्थो हि तेषां योग्यतादिकं प्रति- संधातुं क्षमत इति। नन्वेकस्या एव संगतेः पदार्थवाक्यार्थप्रतीत्योः क्रमेणैव हेतुत्वं काष्ठस्येव ज्वा- लापाकयोरित्यत्राह नापि सैव इति। करणानामेव ह्यवान्तरव्यापारापेक्षेति भावः। ननु तदनुवाद- कत्वं वदतो विलम्बितप्रवृत्तेर्लिङ्गस्यैवानुवादकत्वं संगतिमन्ति पदानि करणं तथापि वाक्यार्थानुगुणसं- गतिभाञ्जि तानि तथा न तु केवलानि, ततश्च संगतिरपि करणशरीरानुप्रवेशिन्येवेत्याह तथापि इति। न तावत् इति। पदार्थविषयत्वेन संगतेस्त्वद्दृष्ट्या सामान्यमात्रविषयत्वात् अस्मद्दृष्ट्या तद्विशिष्टव्यक्तिमात्रविषयत्वाद्वा न तत्संसर्गात्मकवाक्यार्थप्रतिपादनानुगुणा संभवतीति पदार्थप्रय- त्वेऽपि संगतेर्वाक्यार्थप्रतिपादनानुगुण्यापारवत्त्वेन तदानुगुण्यमस्तीत्यत्राह नापि तदनुगुण इति। उक्तं ह्येतत्संगतेरकरणत्वान्नावान्तरव्यापारयोगित्वमिति। नन्वस्तु पदानामेव करणत्वादवान्तर- व्यापारः, स तु संगत्यधीन इति वाक्यार्थप्रत्ययानुगुणत्वं तस्या इत्यत्राह तदनुगुण इति। कर- णानां पदानां पदार्थप्रतिपादनलक्षणोऽवान्तरव्यापारः संगत्यधीन इत्यत्र नास्माकं विवाद इति। प्रकाशः। इति। अन्यथा मानाभावात् संसर्गज्ञानानुदयान्नवकाव्यरचना न स्यादिति पदार्था एव चिन्तावशो- पस्थिता अन्वयबोधकाः। यत्रापि पदात् पदार्थोपस्थितिस्तत्रापि पदार्था एवान्वयबोधकाः, न तु पदान्यपि, पदार्थस्मृत्यैवान्यथासिद्धत्वात्, कथमन्यथा श्वेतरूपदर्शनाद्धेषाशब्दश्रवणात् खुरविक्षेप- शब्दश्रवणाच्छब्दं विना श्वेतोऽश्वो धावतीति धीः। न चैवं पचतीत्युक्ते प्रत्यक्षोपस्थितकलायेनान्व- प्रकाशिका। पस्थितपदार्थानामपि शाब्दोऽन्वयबोधो भवतीत्येति प्राभाकरोक्तान्वितशक्तिमुक्तावसह्मानो भट्टः मकरन्दः। अन्विताभिधानवादिनमिति प्रभाकरमित्यर्थः। ( १ ) इयं बोधिनी ४०४ पृष्ठं प्रारभ्य ४०८ पृष्ठपर्यन्तमूलव्याख्याऽऽदर्शपुस्तकाशुद्ध्या संपादकप्रमादाच्चात्रागता तत्र पठितव्या । ५२ न्या० कु०
यहाँ पृष्ठ का देवनागरी में पंक्तिशः (line-by-line) लिप्यन्तरण प्रस्तुत है:
४१० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१५ कारिकाव्याख्यायां बोधनी। नेन्वाकाङ्क्षादित्रयोपेतपदार्थान्तरान्वित एवार्थे संगतिरिरिति ब्रूमः, तन्नास्त्येव विवाद इत्याह अन्वित इति। विस्मरणमेवात्रापराध्यतीत्याह उक्तम् इति। अथ संभावितसकलदोषपरिहारेण प्राभाकरः प्रत्यवतिष्ठते स्मृतेति चेदित्यन्तेन। पदान्तरस्मृतेन प्रतियोगिमात्रेण कारकेण क्रिया वाऽन्विते स्वार्थे क्रियायां कारके वा संगतिर्गृह्यते न तु विशेषान्विते, तथा च सर्वेष्वपि वाक्येषु तथात्वावि- शेषात् संगतिर्ग्रहीता स्यादिति, ततश्च न तावद्वाक्यार्थस्यापूर्वत्वदोषः पदार्थस्मृत्युत्तरकालभावित्वा- तदन्वयप्रतीतेः क्रमभावोऽपि संगच्छत इति तर्हि कारकपदस्य क्रियाप्यर्थः क्रियापदस्यापि कारक- मिति तयोः पर्यायता स्यादित्यत्राह नापि इति। ओदनमिति कारकपदमোদনत्वं निमित्तीकृत्य स्वेन रूपेणौदनमभिधत्ते, ओदनं तु तत्प्रतियोगित्वमात्रेण, ततश्च स्वरूपामिधानलक्षणस्य प्राधान्यस्य स्वार्थ एव नियतत्वान्न पर्यायतेति। यदि पदार्थस्यैवान्वितोऽर्थः तर्हि पदसंघातात्मनो वाक्यस्यापि स एवेति वाक्यार्थः पुनरुक्तः स्यादित्यत्राह नापि पौनरुक्त्यम् इति। पदार्थविशेषविशिष्टेऽन्वये तात्पर्यं वाक्यस्य, न त्वेवं पदस्येति। यद्वा क्रियाकारकपदयोः पौनरुक्त्यमाशङ्क्य स्वार्थविशेषा- न्वयतात्पर्यभेदात्परिहारः। ननु क्रियाभिधाने सति तदन्वितं कारकमभिधेयं कारकपदेन, तथा कारकाभिधाने सति तदन्विता क्रियाभिधेया क्रियापदेनेतीतरेतराश्रयत्वं स्यादित्याह नापि इति। तथा स्यादयं दोषः यद्यभिहितेनार्थान्तरेणान्वितः स्वार्थोऽभिधीयते, न त्वेवं स्मारितेनान्वितस्याभि- धानादन्वितस्यैव च स्मरणादिति। नन्वोदनं पचतीत्यत्र क्रियापदं कारकापेक्षं सत्समुच्चारितादन्येन तेमनादिनान्विते स्वार्थं अभिदध्यात्, एवमोदनमपि क्रियान्तरेणौदनमानयेत्यादिनान्वितमित्यर्थभे- दाद्वाक्यभेदः स्यादित्यत्राह नापि वाक्यभेद इति। संनिधेरप्यन्वयहेतुत्वान्न संनिहितमतिक्रम्या- न्यदपेक्ष्यत इति। यद्वा अन्विताभिधायिनि पदानि प्रत्येकवाक्यानि भवेयुरित्याशङ्क्य यदि परस्परं संसृष्टौ संनिहितानामन्योन्याकाङ्क्षा न भवति तदा वाक्यभेदात् भवेत्, यथाऽयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राजपुरुषयोर्यन्त्र तु स्मृतिसंनिहितानामन्योन्याकाङ्क्षाऽस्ति यथा राज्ञः पुरु- षोऽपसार्यतामित्येतावन्मात्रोच्चारणे राजपुरुषयोस्तथैकवाक्यतेति परिहारः। अथ सिद्धान्ती याव- त्संभवं विकल्प्य, दूषयति नान्विते इति। अन्वितमित्यत्रेतिशब्दो द्रष्टव्यः प्रकृतस्यान्विताभिधान- स्य यन्न रूपवति तद्वत्ता स्पर्शवत्ता तस्य चक्षुषः अन्विते संगतिग्रह इत्यस्य प्रकृतोपयोगिनमर्थमा- शङ्क्य प्रमाणाभावेन दूषयति अथ इति। नन्वस्ति प्रमाणमर्थापत्तिरित्याह अन्वितं इति। न इति। आकाङ्क्षादिमत्पदार्थप्रतिसंधाना- दृप्यन्वितप्रतीत्युपपत्तेरिति। ननु पचतोत्युक्ते किमोदनं तेमनं वेति कारकविशेषजिज्ञासा तावज्जायते, न चासावगृहीते सामान्येऽवकल्प्यते तेन क्रियापदादेव कारकसामान्यान्वितां क्रियामवगम्याशीदेवं कार- कपदादेव क्रियासामान्यान्वितं कारकमित्यन्विते व्युत्पत्तिः कल्प्यत इत्याह आकाङ्क्षा इति। न इति। क्रियाकारकयोरविनाभावेनेतरेतरसामान्याक्षेपादपि विशेषजिज्ञासोपपद्यते, न हि चक्षुषा रूपेऽ- धिगते द्रव्ये रसविशेषजिज्ञासा भवन्ती रससामान्यस्य चाक्षुषत्वं कल्पयतीति। ननु यदि पदार्थमात्र- पर्यवसितेषु पदेषु पदार्थेभ्य एवान्वयप्रतीतिः स्यात्तर्हि हेत्वन्तरप्रतीतेभ्योऽपि भवेन्न चैवमस्ति ततः पदान्येव यावदन्वयं गच्छन्तीत्याह शब्द इति। अस्त्येव हेत्वन्तरप्रतीतेभ्योऽपि पदार्थेभ्योऽन्वय- प्रकाश। यबोधापत्तिः। शब्दोपस्थिते पदार्थे शब्दोपस्थापितपदार्थान्तरेणैवान्वयात्, शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते इति न्यायात्। अत एव श्रुतार्थापत्तिस्थलेऽपि शब्द एव कल्प्यते इत्यर्थः। प्रकाशिका। प्राभाकरमास्कन्दतीत्यर्थः, अन्विताभिधानवादिनं प्राभाकरं शब्दोपस्थित इति। साकांक्षप- दार्थोपस्थितित्वेन कारणता आंकांक्षा च स्वभावात्, शब्दोपहितयोरेव प्रकारान्तरोपस्थितयोरेव-
तृतीयस्तबके ] शब्दस्य सार्थक्यखण्डनम् । ४११ स्तदाभासा वा सम्भवन्ति, अन्यत्र चिन्तावशेन पदार्थस्मरणेभ्यः । असंसर्गाग्र- होऽसाविति चेत् । मम तावत् संसर्गग्रह एवासौ । तवाऽपि सैव पदावली कचि- दन्वये पर्यवस्यति कचिदनन्वयाग्रहे इति कुतो विशेषात् । आप्तानाप्तवक्तृकतयेति- चेत् । किं तथाविधेन वक्त्रा तत्र कश्चिद्विशेष आहितः ? आहो वक्तैवावच्छेदकतया बोधनी । प्रतीतिरित्याह कुतस्तर्हि इति । न ह्युत्प्रेक्षिते संसर्गे कर्तुः प्रत्यक्षादीनि तदाभासा वा संभवन्ति । स्मृता एव पदार्थास्तत्र कारणम् । यथा चाहुः— पश्यतः श्वेतमारूढं हेषाशब्दं च शृण्वतः । खुरनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ॥ इति । असंसर्ग इति । तेन न शब्दव्यभिचार इति । मम इति । तेन यतः कुतश्चिदपि स्मृतेरन्वय- प्रतीतेर्नानिष्टप्रसङ्ग इति । न वापि विशेषहेत्वभावेनायं विभागो युज्यत इत्याह तत्रापि । इति विशेष- हेतुमाह आप्त इति । विकल्प्य दूषयति किम् इति । तथाविधेनाप्तेन वक्त्रा तेषु पदेष्वन्वयपर्यवसा- नानुगुणः कश्चिदतिशय आधीयते किमाप्तवक्तृत्वमेव वा तेषां विशेषः ? प्रथमे यथामिहितान्वयवा- दिनां पदार्थप्रतिपादनानुगुणपदगतशक्तिव्यतिरेकेण पदप्रतिपादितानामेव पदार्थानां वाक्यार्थप्रत्याय- नदर्शनात्तेष्वपि पदार्थानां शक्तिरङ्गीकर्त्तव्येति गौरवमापद्यते तथा भवतोऽपि पदान्तरसाधारणशक्ति- व्यतिरेकेणाप्तोक्तेषु पदेष्वन्वयप्रतीत्यनुगुणस्यानेनाधीयमानस्यातिशयस्याभ्युपगमाद् गौरवम् । द्वितीये तु यथा तव वक्तुरवच्छेदकत्वेन पदविशेषत्वं तथा ममापि पदानां पदार्थावच्छेदकत्वेनेव विशेषक- त्वमस्तु न चातिशायाधानेनेति । यदि प्रतिपादितत्वविशेषेण पदार्था वाक्यार्थं गमयेयुः तर्हि नाभि- प्रकाशः । असंसर्गेति । उत्प्रेक्षादिवशाद्वाक्यार्थासंसर्गाग्रहः काव्यरचनाहेतुरित्यर्थः । ममेति । मया पदैरप्र- तिपादितानामपि पदार्थानां संसर्गप्रमोत्पादकत्वानभ्युपगमान्नासंसर्गाग्रहस्तत्र हेतुरित्यर्थः । त्वया- प्येतदभ्युपेयं, गत्यन्तराभावादित्याह तवापीति । गुरोरपीत्यर्थः । उच्चारणमात्रकर्तृत्वं तत्र विशेष इत्यर्थः । यद्याप्तेन तेषु पदेषु कश्चिद्विशेषो नाहितः, तदा नाप्तोक्तान्यन्वयबोधकानि स्युरित्याशेन प्रकाशिका । वेति न तत्रान्वयबोध इत्यर्थः । एतदिति । पदानां पदार्थोपस्थापकत्वमात्रमित्यर्थः । तवापीतीति । संसर्गज्ञानजनताकनियामकत्वं यथा तवाप्तोक्तवस्य तथा ममापि पदार्थोपस्थितौ पदजन्यत्व- स्येति भवदुक्तातिप्रसङ्गाभावात् नान्वये त्वदुक्तयुक्त्या पदशक्तिरिति मूलघट्टकार्थः । नन्वेवं कविककाव्यस्थले शाब्दं ज्ञानं स्यादिति भट्टस्यानभिसिद्धान्त इत्याशङ्कायामग्रे मूलं तस्मादिति । तुष्य- तु दुर्ज्जन इति न्यायेनैव तदुक्तमुद्दश्यपदार्थोपस्थापकत्वमात्रस्य तावतापि सिद्धेः । वस्तुतः साकांक्ष- पदार्थोपस्थितित्वेनैव कारणतेति तत्रापि शाब्दमेव ज्ञानमिति तस्य मूलस्याशयः। केचित्तु सैव पदावली कचिदन्वयग्रहपूर्व्विका कचिदनन्वयाग्रहपूर्व्विकेति परस्परव्यभिचारात्, कथं तयोश्च कारणतेति- तवापीति पङ्क्तिकार्यमुक्त्वा तदनुसारेण मूलप्रकाशौ व्याख्यातवन्तः । ते भ्रान्ताः । तया सत्याप्तानाप्ते- त्यादिपङ्क्तिका कार्यतावच्छेदकविशेषोक्तिपरत्वेन योज्येति "आप्तानामेव सा शक्तिरित्याद्यनुयोगस्य प्राभाकरं प्रत्यसङ्गतत्वापातात् , आप्तस्य कारणकोटिनिवेशे हि सा शोभेतेति नचेत्सा परिभावनीया प्रकाशोऽपि बहुषु स्थलेषु तथा सति विरुद्धयत इति संक्षेपः । तत्रान्वयेऽपि । पदार्थोपस्थिता- मकरन्द । त्वापीति । अन्यथा कचिदन्वयधीपूर्वकत्वं कचिदनन्वयाग्रहपूर्वकत्वमिति व्यभिचारापत्तेरिति भावः । टिप्पणी । संसर्गप्रमोत्पादकत्वमभ्युपगमादिति । प्रमेति सम्पातायातं बोधेति वक्तव्यम् गत्यन्तराभावा- दित्याह तवापीतीति । तवापीत्यादिसन्दर्भस्य निगूढोऽयमभिप्रायः व्यक्तस्तु पदार्थे पदस्य विशेषण- त्वानभ्युपगमात् प्रत्यक्षोपस्थितान्वयवारणेऽन्वितभिधाननिराकरण एव यातः, नन्ममतनिगर्वप्रतिपा-
४१२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां विशेषः ? । प्रथमे अभिहितान्वयवादिनामिव तवापि शक्तिकल्पनागौरवम् । द्वितीये तु वक्तुरिव पदानामप्यवच्छेदकतयैव विशेषकत्वमस्तु । एवं तर्हि पदानामप्यन्वय- प्रतीतावस्त्युपयोगः । कः सन्देहः । परं पदार्थाभिधानेन, न त्वन्यथा । यथा तवे- बोधनी । मतानवथसिद्धान्तसिद्धिरित्याशयेन पृच्छति एवं तर्हि इति । गूढाभिसंधिराह कः संदेह इति । तर्ह्यन्विताभिधानसेवाङ्गीकृतं स्यादित्याशङ्क्याभिसंधिमुद्घाटयन्नाह परम् इति । अन्वयोद्देशेन पदार्थाभिधानेन पदानामुपयोगो न त्वन्विताभिधानेनेति । यथाप्तानामन्वयप्रतीतावप्युपयोगः तदा शालिकानाथस्यायं प्राथम्यादभिधातृत्वात्तात्पर्योपगमादपि । पदानामेव सा शक्तिर्वरमभ्युपगम्यताम् ॥ इति श्लोकः पदानामिति पदं प्रतिक्षिप्य तस्य स्थाने आप्तानामितिपदं प्रक्षिप्य पठितव्यमित्याह प्रकाशः । पदनिष्ठातिशायाधानकल्पने यथा पदानां स्वार्थाभिधाने शक्तिस्तत्रान्वयधीहेत्वतिशायाधानश- क्तिश्चेत्यऽभिहितान्वयपक्षे गौरवं, तद्वत्तवाप्तानां पदोच्चारणशक्तिः पदनिष्ठातिशायाधानशक्तिर्वा- क्यार्थधीशक्तिश्चेति गौरवमापतितमित्याह प्रथम इति । अन्त्ये, ममापि पदैर्न पदार्थे शक्तिरा- धीयते, किन्तु पदोपस्थापितत्वमेवाप्तोक्तत्वमिव विशेषः स्यादित्याह द्वितीये त्विति । नन्वेवं पदा- नामेव वाक्यार्थवाचकत्वे सिद्धमन्विताभिधानमित्याह एवं तर्हीति । त्वन्मते यथाऽऽप्तानां पदोच्चार- णमात्रे हेतुत्वं नान्वयबोधे, तथा ममापि पदानां पदार्थोपस्थापनमात्रे हेतुत्वं पदार्था एवा- काङ्क्षायुपेता अन्वयबोधका इत्याह कः सन्देह इति । तदाहुः— न विमुञ्चन्ति सामर्थ्यं वाक्यार्थेऽपि पदानि नः । यज्ज्वलन्ति हि काष्ठानि तत् किं पाकं न कुर्वते ॥ इति ॥ न तु वाक्यार्थवाचकत्वेन । तथा सति त्वन्नयेऽप्याप्तानां तद्वाचकत्वापत्तेरित्याह न त्विति । एवञ्च प्राथमिकत्वाद् यदि पदानामन्वयबोधे करणत्वमापाद्यते, तदाऽऽप्तानामेव तथात्वात् तेषामेव प्रकाशिका । वित्यर्थः । अभिहितान्वयपक्षे भट्टपक्षे गौरवं प्राभाकरेण त्वयोक्तमिति शेषः । प्रयोजकत्वे वृद्धसम्मत- तिमाह = न विमुञ्चन्तीति । सामर्थ्यं = तादृशस्य पदार्थोपस्थितिजननेन प्रयोजकत्वम् । मकरन्दः । यथा पदानामिति । यथा पदानां स्वार्थाभिधानशक्तिस्तत्र पदेऽन्वयधीहेत्वभिधाऽऽख्यातिश- याधानशक्तिर्वाक्यार्थधीशक्तिश्चेत्यभिहि-तान्वयवादिनो मम भट्टस्य पक्षे गौरवं त्वयोच्यते, तथा तवाप्तानां पदोच्चारशक्तिः पदनिष्ठातिशयाधानशक्तिर्वाक्यार्थधीशक्तिश्चेति शक्तित्रयगौरवमिति भावः । तथा ममापीति । तथा च पदानां प्रयोजकत्वमात्रं न तु हेतुत्वमिति भावः । प्रयोजकत्वे प्राचीनसम्मतिमाह न विमुञ्चन्तीति । व्यभिचारजातीयतेत्युपलक्षणं, निर्व्यापारत्वादित्यपि द्रष्टव्यम् । ननु पदार्थस्मरणवत टिप्पणी । दने निरुक्तसन्दर्भेण पदस्य विशेषणत्वप्रतीतौ कविकाव्यस्थले कवेस्तच्छेदतुशब्देोपपादनासम्भवात् । तत्रान्वयधीहेत्वतिशायाभिधान इति । उपस्थिते पदादेव वाक्यार्थान्वयधीहेतुः शक्तिर्न कुतः प्रत्यक्षादित इति पद एव तादृशशक्त्यनुकूला शक्तिर्न तत्रेत्यपि स्वीकारणीयम् इति शक्तित्रयमावश्य- कम् । आप्तानां पदोच्चारणशक्तिरिति । वाक्यार्थान्वयधीहेतुंपदं कुतो नाप्तात् उद्भावयतीत्युच्चा- रणानुकूलशक्तिराप्ते स्वीकार्या, आप्तोच्चरित एव तत्र पदे कुतोऽन्वयबोधानुकूलोऽतिशयो न ह्यना-
तृतीयस्तवके ] शब्दस्य वाचकत्वखण्डनम् । २१३ वाक्यस्य संसर्गपरतया पदसमभिव्याहारमात्रेण, न त्वन्यथा । अन्यथा तु गुरुमत- विदामेव श्लोक आप्तपदप्रक्षेपेण पठनीयः — प्राथम्यादभिधातृत्वात् तात्पर्यापगमादपि । आप्तानामेव सा शक्तिर्वरमभ्युपगम्यताम् ॥ इति ॥ तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे सति अभिहितानामवश्यमन्वय इति कुतोऽतिप्रसङ्गः । न चैवं सति पदार्था एव करणं, तेषामनागतादिरूपतया कारकत्वानुपपत्तौ तद्विशेषस्य करणत्वस्यायोगात् । तत्संसर्गे प्रमाणान्तरसंकीर्णोदाहरणाभावाच्च । बोधनी । अन्यथा तु इति । तया पठति प्राथम्यादित्येतदुक्तं भवति । पदार्थेभ्यः पदानां प्राथम्यात्तेषामभि- धातृत्वस्य च संप्रतिपन्नत्वादभिहितान्वयवादिभिरपि हेषां वाक्यार्थे तात्पर्यस्य चाभ्युपगमादन्वयं प्रति पदानामेव शक्तिरभ्युपगम्यतां न पदार्थानामिति हि श्लोकेन प्रतिपाद्यते । तत्र यद्याप्तानां सम- भिव्याहारयोग्यपदोच्चारणव्यतिरेकेण पदेषु शक्त्याधानमभ्युपेक्षीक्रियते तदा पदेभ्य आप्तानामेव प्राथ- म्यादित्यादिहेतुभिः अन्वयप्रतिपादने शक्तिरङ्गीक्रियतां न पदानामिति । तदेवं यतः कुतश्चिदपि प्रतीतेरन्वयप्रतीतिरिस्त्येवेत्युक्तं, संप्रति नास्माकमत्र निर्बन्धः पदाभि- हितानामन्वयप्रतीतिरित्यतावतैवास्मत्सिद्धान्तसिद्धेस्तत्र चातिप्रसङ्गाभावादित्युपसंहारव्याजेनाह तस्मात् इति । नन्वेवं वाक्यार्थबुद्धौ पदार्थानामेव कारणत्वापत्तेः अशाब्दो वाक्यार्थः स्यादित्य- त्राह न चैवम् इति । पूर्वभाविनियमो हि कारणत्वं, तत्कथं संसर्गप्रत्ययपतितानामनागतानां पदा- र्थानां भवेत्, दूरे च कारणत्वविशेषः करणत्वमिति । न च शब्दादिप्रमाणव्यतिरेकेण पदार्थेभ्य एवान्वयप्रतीतिः क्वचिदपि दृश्यते येन पदार्थानामेव हेतुत्वं भवेदित्याह प्रमाणान्तरेति । प्रकाशः। तत् किं न स्यादित्याह अन्यथेति । पदानामेवेति गुरुमतश्लोके विशेषः । सा शक्तिरन्विताभिधाने शक्तिरित्यर्थः । तस्मादिति । कविकाय्यस्थले मनसोत्प्रेक्षासहितेषु चिन्तावशोपस्थितेषु पदार्थेषु क्वचिद्दोषव- शात् क्वचिदनुमानात् संसर्गज्ञानमसंसर्गाग्रहो वा भवतु, यत्र तु शब्दादाकाङ्क्षामुपेतपदार्थोप- स्थितिस्तत्र पदार्था एव करणम् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते इति न्यायाच्च न शब्दं विना प्रकारान्तरोपस्थितपदार्थानां शब्दोपस्थापितपदार्थैरन्वयबोध इत्यर्थः । तदेवं महन्मुखेन प्रभाकरं निराकृत्य पदार्थकरणत्वसिद्धान्तं निराकरोति न चैवमिति । तत्संसर्ग इति । पदं विना यत्र पदार्थज्ञानात् संसर्गज्ञानं, तत्र यथायथं मानान्तरसत्त्वात् पदार्थानां प्रकाशिका । दोषवशादिति । मानसं ज्ञानमिति शेषः । इदं च सर्वमभ्युपगमवादेन मूलकृतोक्तमिति वर्द्धमानोऽपि यथाश्रुतमेव व्याख्यातवान् । तात्पर्यन्तु मूलव्याख्यायामेवोक्तम् । तदेवमिति । प्राभाकरोक्तातिप्र- सङ्गनिराकरणं नैयायिकेन तात्पर्यगत्यैव कृतम्, यच्च तात्पर्यं मया प्रागेवोक्तं व्यभिचारिज्ञातीयत- येत्युपपन्नमम् निर्व्यापारत्वाच्चेत्यापि द्रष्टव्यम् । ननु पदज्ञानमपि न कारणमुत्प्रेक्षास्थले व्यभिचारात्, न चतत्र मानसमेव ज्ञानं, प्रकृतेऽपि तथासम्भवेन क्लृपनीयप्रमाप्रमावस्य पदज्ञानस्य कारणत्वाकल्प- मकरन्दः । पदज्ञानमपि न करणं, औत्प्रेक्षिकान्वयानुभवे व्यभिचारात् । किञ्च क्लृप्तप्रमागभावेन मनसा पदार्थस्मरण- टिप्पणी । तोक्त इत्यतिशयानुवृत्त्या शक्तिरात एव स्वीकर्या वाक्यार्थधीश्च लिङ्ग पदे इति शक्तिव्यम् । नचै-
४१४. व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १५ कारिकाव्याख्यायां पदानान्तु पूर्वभावनियमेन पदार्थस्मरणऽवान्तरव्यापारवत्तया तदुपपत्तेः, व्यापार- स्याव्यवधायकत्वादिति कृतं प्रसक्ताऽनुप्रसक्त्या ॥ १५ ॥ बोधनी । पश्यतः श्वेतमित्यादौ तु व्याप्त्यनुसंधानेनैव पदार्थैरन्वयप्रतीतिरित्यनुमानादित्वमेवेति भावः । पदानां तु करणत्वे न कश्चिद्दोष इत्याह पदानां तु इति । ननु तेषामपि पदार्थप्रतीतिव्यवधानेन न पूर्वभावोऽस्तीत्यत उक्तं व्यापारस्येति । यथाहुः– 'पाके ज्वालेव काष्ठानां पदार्थप्रतिपाद- नम्' इति ॥ १५ ॥ प्रकाशः । संसर्गबोधे करणत्वम् । तथाहि काव्यस्थले पदार्थज्ञानव्यापारकमुत्प्रेक्षादिसहकृतं मन एवान्वयानु- भवे करणम् । न चैवमुत्प्रेक्षाया मानान्तरत्वम् । व्यभिचारजातीयतया लिङ्गादाविव प्रमाकरणता- वच्छेदकरूपाभावात् । श्वेतोऽश्वो धावतीति धीश्च लैङ्गिकेत्यर्थः । ननु पदानामप्यतीतत्वात् कथं संसर्गधीकरणत्वम्, अथ पदस्मरणं करणं, तर्हि पदार्थस्मरणमेव करणमस्त्वनावश्यकत्वा- दित्यत आह पदानां त्विति । पदार्थस्मरणस्य निर्व्यापारत्वेनाकरणत्वात् पदार्थस्मरणस्य पदज्ञानव्यापारतया तेन तदन्यथा- सिद्धभावादनन्यथासिद्धान्वयव्यतिरेकाभ्यामाकाङ्क्षादिमत्पदस्यान्वयानुभवविशेषे कारणत्वाच्च । अ- पि च व्युत्पत्तिकाले प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यव्यापारदर्शनादन्वितज्ञानोपपत्त्यर्थमन्वित- बोधकत्वं शब्दस्य गृह्यते । तदत्र तन्निर्वाहार्थमर्थोपस्थितिरपि सहकारिणी कल्प्यते इति न तया शब्दस्यान्यथासिद्धिरिति शब्दतदर्थयोरुपस्थितयोरन्वयबोधात् कुत्रान्वयज्ञानशक्तत्वमिति संशये प्रकाशिका । नादित्यत आह अनुभवविशेष इति । शाब्दजातीय इत्यर्थः । तथा च नोक्तव्यभिचारो गौरवञ्च प्रामाणिकम् । विजातीयज्ञानसिद्धौ विजातीयस्य तत्करणस्य स्वीकारात् । न च वैजात्यसिद्धिरैव कुत इति वाच्यम् । शब्दादमुमर्थं प्रत्येमीत्यनुव्यवसायात् आकाङ्क्षादिज्ञानसहकारितानुपपत्तेश्च । अन्यथाऽनुमानमपि न स्यान्मनसैवान्यथासिद्धिरिति जितं (प्राभाकरैः) चार्वाकैः । नन्वेवमपि शाब्दस्य विजातीयत्वेऽपि मानसमेव कुतो न जायते समाने विषये प्रत्यक्षसामग्र्या बलवत्त्वादिति चेन्न । अलौ- किकप्रत्यक्षसामग्रीतो मानान्तरसामग्र्या बलवत्त्वात् । अन्यथाऽनुमित्युच्छेदेऽनुमिनोमीत्यनुव्यव- मकरन्दः । सहकृतेनोत्प्रेक्षिकवदन्वयग्रहोपपत्तौ मानान्तरकल्पने गौरवमित्यत आह अनुभवविशेष इति । श्रौत्प्रेक्षिकव्यावृत्तशब्दप्रयोज्यजातिमतोत्यर्थः, तथा च नोक्तव्यभिचारः, गौरवञ्च प्रामाणिकं, विजातीयप्रमासिद्धौ तत्करणस्यावश्यकत्वादिति भावः । ननु तत्सिद्धिरेव कुत इति चेत् । न । अनु- मिनोमीत्यादिवत् शृणोमीत्यनुव्यवसायात् । ननु प्रत्यक्षसामग्रीबलवत्त्वान्मानसप्रत्यक्षसामग्रीसत्त्वे तदवश्यम्भाव इति चेत् । न । लौकिकप्रत्यक्षसामग्र्यास्तथात्वेऽप्यलौकिकप्रत्यक्षसामग्र्या दुर्बल- त्वात्, अन्यथा अनुमितेरप्युच्छेदः स्यात् । ननु प्रयोज्यव्यापारदर्शनात् प्रयोजकत्वमात्रं गृह्यते टिप्पणी । वमुत्प्रेक्षाया मानान्तरत्वमिति । यदसाधारणं सहकार्यासाद्य मनो बहिर्गोचरं प्रमां जनयति तस्य प्रमाणान्तरत्वादुत्प्रेक्षायास्तथात्वादिति भावः । व्यभिचारजातीयतयेति । बाधितोत्प्रेक्षायाः स्वजन्यज्ञानेन सह यो विषयस्य व्यभिचारस्तद्वत्तयार्थादप्रमाजनकत्वा तज्जातीयत्वेनावाधितोत्प्रे- क्षाया अपि न प्रमाकरणत्वरूपं प्रमाणत्वम्, लिङ्गस्य लिङ्गाभासजातीयत्वेऽपि प्रमाणतावच्छेदक- व्याप्तिपक्षधर्म्मतावत्त्वेन प्रमाणत्वेऽपि प्रकृते तादृशरूपाभावान्न तद्वत् प्रमाणत्वमित्यर्थः । श्वेतोऽ- श्वो धावतीति धीश्चेति । हेषाशब्दं पक्षीकृत्य जन्यतयाऽन्यशब्दविशेषत्वेन साध्यस्ततः प्रत्यक्षा पश्यतः श्वैत्यं तत्रोपनीततया मनसा गृह्यते, ततः श्वेतमश्वं पक्षीकृत्य धावनक्रिया खुरनिक्षेपशब्देन
तृतीयस्तवके.] शब्दस्य बाधकत्वखण्डनम्। ४१५ अस्तु तर्हि शब्द एव बाधकं सर्वज्ञे कर्त्तरि, तथा हि— प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताऽहमिति मन्यते ॥ इत्यादि पठन्ति । अस्यायमर्थः—न पारमार्थिकं चेतनस्य कर्तृत्वमस्ति, आभि- मानिकं तु तत् । न च सर्वज्ञस्याऽभिमानो, न चासर्वज्ञस्य जगत्कर्तृत्वमस्ति । उच्यते— न प्रमाणमनाप्तोक्तिर्नार्द्दष्टे क्वचिदाप्तता । अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः ॥ १६ ॥ बोधनी । अस्तु पृथक् प्रमाणं शब्दः, स एव जगत्कर्त्तरि बाधकः स्यादित्याह अस्तु इति । कथमागमो जगत्कर्त्तारं बाधत इत्यत्राह अस्यायमर्थ इति । अस्तु तर्ह्याभिमानिकं कर्तृत्वम् ईश्वरस्येत्यत्राह न च इति । अभिमानो नाम भ्रान्तिः, स कथं सर्वज्ञस्य स्याद्विशेषाग्रहणहेतुकत्वात्तस्या इति । अस्तु तर्ह्यसर्वज्ञ इत्यत्राह न चासर्वज्ञस्य इति । न प्रमाणम् इति । न तावदनाप्तप्रणीतः शब्दो प्रकाशः। प्राथम्याच्छब्दानामेव कारणत्वमवधारयति । किञ्चाग्निः करणम् ओदनः कर्मता पाकः कृतिरिष्टसा- धनमिति ज्ञानेऽप्यग्निनाौदनं पचेतेत्यत्रेव कुतो नान्वयबोधः ? तावत्पदार्थोपस्थितेरविशेषात् । तत्र परस्परमाकाङ्क्षा नेति चेत्, तर्हि साकाङ्क्षपदार्थोपस्थितौ पदविशेषजन्यत्वं तन्त्रमिति नागृही- तविशेषणान्यायात् पदविशेषोऽप्यन्वयबोधेऽङ्गमिति कथं न तस्य करणत्वम् । पदादसुसर्थं प्रत्येमी- त्यनुव्यवसाये बाधकाभावाच्चेति सङ्क्षेपः । शब्दप्रामाण्यप्रसङ्गागतमन्विताभिधाननिराकरणं, तदनुप्रसक्तञ्चाभिहितान्वयवाद इति विस्तरेण तन्निराकरणे ग्रन्थगौरवं स्यादित्यत आह कृतमिति ॥ १५ ॥ प्रकृतेरिति । प्रकृतेरचेतनाया, गुणैः सत्त्वादिभिः । सर्वाणि कर्माणि क्रियमाणानि अहं कर्त्तेत्यहं- कारोत्यव्यामोहवशाच्चेतनो मन्यते इति प्रतिपादनाच्चेतनस्य कर्तृत्वं निषिद्धम् । विशेषविधेः शेष- नषेधे पर्यवसानादित्यर्थः । कर्त्तेति तृजन्ताम् । अतो, न लोकाव्ययेत्यादिना कृद्योगषष्ठ्या निषेधः । न चाभिमानिकं जगत्कर्तृत्वमीश्वरस्येत्याह न चेति । तन्मूलविशेषादर्शनाभावादित्यर्थः । उप- दर्शिंतमागमो यदि नाप्तोक्तस्तर्ह्यप्रमाणत्वान्न बाधकः । आप्तोक्तश्चेत्, तर्ह्यागमप्रणयनहेतुस्तज्ज्ञान- मिन्द्रियलिङ्गाद्यभावान्नित्यमुपेयम् । तत्र च विषयस्याहेतुत्वात् सर्वविषयत्वमर्थसिद्धमित्या- गमोऽप्यन्यपर इत्याह न प्रमाणमिति । न चाप्तोक्तत्वं विना नित्यत्वादागमो मानं, प्रकाशिका । सायविरोधादिति दिक् । नन्वविरोधिपदजन्यपदार्थोपस्थितित्वेनान्वयबोधकत्वम् , अन्यथा तवा- प्याकांक्षादिविरहाच्छाब्दान्वयबोधाभावेऽपि मानसान्वयबोधानिष्प्रत्यूहं व्यवहारः स्यादित्यरुचेराह पदादिति ॥ १५ ॥ सर्वविषयत्वमिति । तथा च न्यायसिद्धं जगत्कर्तृत्वं तस्येत्यागमोऽप्यन्यपर इत्यर्थः । मकरन्दः । न तु हेतुत्वम्, अन्वयव्यतिरेकादेः साधारणतया तत्संशायकत्वादित्यरुचेराह किञ्चेति। नन्वन्वय- विरोधिपदाजन्यपदार्थोपस्थितित्वेनान्वयबोधकत्वम् , अन्यथा तवाप्याकांक्षादिवैकल्याच्छाब्दान्व- यबोधानिष्प्रत्यूहो व्यवहारः स्यादित्यरुचेराह पदादिति ॥ १५ ॥ टिप्पणी । सम्बन्धविशेषेण पक्षसम्बन्धेन लिङ्गेनानुमेयेल्यर्थः । कविकान्यस्थले च मानसमेकमेव वाक्यार्थज्ञान- मिति भावः ॥ १५ ॥ ... तज्ज्ञानमिन्द्रियलिङ्गाद्यभावादिति । प्रकृतिकर्तृत्वाद्यर्थस्यातीन्द्रियत्वेनेन्द्रियस्य तत्र
४१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १५ कारिकान्याख्यायां यदि हि सर्वज्ञकर्तृभावावेदकः शब्दो नाप्तोक्तः, न तर्हि प्रमाणम् । अथाप्तोऽस्य वक्ता, कथं न तदर्थदर्शी । अतीन्द्रियार्थदर्शीति चेत् । कथमसर्वज्ञः ? कथं वा न कर्त्ता । आगमस्यैव प्रणयनात् । न च नित्यागमसम्भवो विच्छेदादित्यावेदितम् १६ अपि च— न चासौ कचिदेकान्तः सत्त्वस्यापि प्रवेदनात् ॥ निरञ्जनावबोधार्थो न च सन्नपि तत्परः ॥ १७ ॥ बोधनी । बाधकस्तस्याप्रमाणत्वात् । अथाप्तोक्तस्तर्हि तदर्थदर्शिना तेन भवितव्यं, यदि चातीन्द्रियमगमार्थं दृष्ट्वा तं प्रणयेत्तर्हि सर्वज्ञः कर्त्ता च स्यात्, न च नित्य एवागमो बाधकः सर्गप्रलयसम्भवेन तस्यापास्तत्वादिति निगदव्याख्यातं व्याख्यानमिति ॥ १६ ॥ बाधकं शब्दमभ्युपगम्याप्याह अपि च इति । न चासावागमो जगत्कर्तुरसत्त्व एव नियतः सत्त्वस्यापि तेन प्रतिपादनोपलम्भात्, ततश्च नानियतत्वात्तेनासत्त्वसिद्धिः, तर्हि तत एव सत्त्वमपि न सिध्येदित्यत उक्तं निरञ्जनेति । चेतनस्याकर्तृत्वप्रतिपादक आगमो विशेषगुणलक्षणाञ्जनरहि- तात्मस्वरूपप्रतिपादनार्थत्वेनान्यपरत्वान्नासत्त्वमावेदयति । तर्हि सत्त्वप्रतिपादकोऽप्यन्यपरः स्यादत प्रकाशः । सर्गप्रलययोः साधितत्वादित्याह । न चेति ॥ १६ ॥ न केवलं तत्र बाधकाभावः, अपि तु द्यावाभूमी जनयन् देव एक इत्यादिश्रुतयः साधिका अपि सन्तीत्याह— न चासाविति । शब्दयोर्मिथः प्रतिबन्धादपि न बाध इत्याह निरञ्जनेति । बाधकतयाभिमत आगमः, आत्मनो यन्निरञ्जनत्वं विशेषगुणशून्यत्वं तद्धयेयमित्येवम्परो, न त्वकर्तृत्वबोधनपर इत्यर्थः। प्रकाशिका। सर्गप्रलययोरिति । सर्गेति सम्पातायातम् नित्यत्वं हि वेदस्य न व्योमादिवद् वाच्यम् , वर्णनि- त्यत्वेऽप्यनित्यानुपूर्वीघटितत्वात्, किन्तु प्रवाहनित्यत्वं तन्न चेदं दूषणमित्यवधेयम् ॥ १६ ॥ शब्दयोरिति । यद्यपि मिथः प्रतिबन्धेन बाधो न भवत्येव । तथापि बाधपदेनात्र प्रतिबन्ध एवोक्तः, विशेषगुणशून्यत्वमिति । अनित्यविशेषगुणशून्यत्वमीश्वरस्येत्यर्थः ॥ मकरन्दः। सर्वविषयत्वमिति । तथा च तस्य जगत्कर्तृत्वं न्यायप्राप्तमित्यागमोऽन्यपरइत्यर्थः । सर्ग- प्रलययोरिति । अत्र सर्गेति सम्पातायातम् । प्रलयेऽपि व्योमादिवन्नित्यागमसत्त्वे न विरोधः, तथापि वर्णनित्यत्वेऽप्यानुपूर्वीघटितस्यानित्यत्वात् प्रवाहनित्यत्वात् प्रवाहनित्यत्वं वाच्यं, तन्नेदमु- त्तरमिति भावः ॥ १६ ॥ शब्दयोरिति । यद्यपि मिथः प्रतिबन्धाद् बाधो न भवत्येव, तथापि बाधो न दोष इत्यर्थः । साधकागमस्येति शेषः । बाधकतयाभिमतागमस्यान्यार्थपरतया विरोधाभावेनाप्रतिरोधकत्वा- दिति भावः ॥ टिप्पणी। सामाग्र्याभावात् चेतनस्य कर्तृत्वाभावे लिङ्गस्य व्यभिचारादितोऽभावादुक्तवाक्यार्थज्ञाननित्यमुपेय- मित्यर्थः । सर्वविषयत्वमर्थसिद्धमिति। सर्वज्ञसिद्धौ तदभावपर उक्तागमः, प्रमाणत्वाय प्रथि- तव्य इत्यर्थः ॥ १७ ॥
न ह्यसत्त्वपक्ष एवागमो नियतः । ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपा- दनात् । तथा चाग्रे दर्शयिष्यामः । तथा च सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न बाधकम् । सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेदापाततस्तावदेवमेतत् । यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते, तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भवि- ष्यतीति । न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः ॥ १७ ॥ अस्त्वर्थापत्तिस्तर्हि बाधिका, तथाहि—यद्यऽभविष्यन्नोपादेक्ष्यद्, न ह्यसाव- नुपदिश्य प्रवर्त्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्या- भावमौदासीन्यं वाऽऽवेदयति । न । अन्यथैवोपपत्तेः— हेतुभावे फलाभावात् प्रमाणेऽसति न प्रमा ॥ तदभावात् प्रवृत्तिर्नो कर्मवादेऽप्ययं विधिः ॥ १८ ॥
बोधनी । उक्तं न चासौ इति । सत्त्वावेदकस्य नान्यत्र तात्पर्यमिति पञ्चमे वक्ष्याम इति । न हीत्याद्विचिर णग्रन्थो गतार्थः ॥ १७ ॥ अथार्थापत्तेर्बाधकत्वं निराचिकीर्षुः शङ्कते अर्थापत्तिस्तर्हि इति । असौ सर्वज्ञः सर्वकर्त्ता वेदाननुपदिश्यैव ज्योतिष्टोमादौ पुरुषान् प्रवर्त्तयितुं कलञ्जभक्षणादिभ्यश्च निवर्त्तयितुं शक्नोत्येवेति तदर्थस्तस्योपदेशो व्यर्थ इति । नान्यथेति । जगत्कर्तुः सत्त्व एवोपदेशस्योपपत्तेः नासत्व इति । तदेवोपपादयन्नाह हेतुभावे इति । न तावदसति हेतौ फलस्यासंभवादसत्युपदेशात्मके प्रमाणे
प्रकाशः । उत्तरार्द्धं व्याचष्टे यदा त्विति ॥ १७ ॥ अर्थापत्तिबाधकत्वमुपन्यस्य निराकरोति अस्त्विति । न ह्यसाविति । असार्वज्ञ्यापत्ते- रिति भावः । हेतुभावे इति । कारणाभावे कार्याभाव इति सामान्यव्याप्तौ कारणविशेषप्रमाणाभावे कार्यविशेषप्रमा न स्यादित्यर्थः । तदभावेऽनिष्टमाह तदभावादिति । इच्छाद्वारा प्रमाजन्या प्रवृत्तिरस्मदादीनां नेश्वरेण कारयितुं शक्या, ततः प्रवर्त्तनीयप्रमोत्पादनार्थमेवायमुपदेश इत्यर्थः । प्रमाया अभावेऽप्यदृष्टादेव प्रवृत्तिः स्यात् किं वेदेनेति मतेऽप्युपदेशानर्थक्यसेवादृष्टादेव प्रवृत्तेरित्याह कर्मवादेऽपीति ।
प्रकाशिका । असार्वज्ञ्यत्वापत्तेरिति । उपदेशं विनापि यः प्रवर्त्तनोपायः, तस्याज्ञानादित्यर्थः । प्रथमपद- वैयर्थ्याशङ्कायामाह सामान्यव्याप्ताविति । तथा च विशेषव्याप्तिसाधकत्वेनैव सामान्यव्याप्ति- रुपन्यस्तेत्याशयः । शक्या इति । उपदेशं विनेति शेषः । उपदेशपदं विनापि सामान्यलक्षणा- दिजन्यप्रमाद्वारा प्रवृत्तिं कारयितुं शक्यत एवेतीच्छाद्वारेति पूरणविशेषणं स्वीकृतम् , इच्छा चेष्ट- साधनत्वादिकारकत्वज्ञानसाध्येति नोक्तदोषः । प्रमोत्पादनार्थमिति । इष्टसाधनत्वादिकारकप्र-
मकरन्दः । असार्वज्ञ्यापत्तेरिति । उपदेशं विना प्रवर्त्तकत्वस्याज्ञानादित्यर्थः । प्रमाणपदवैयर्थ्यमाश- ङ्कयाह कारणाभाव इति । तथा च प्रमाणाभावेनेत्यपि मूलं सामान्यव्याप्तिविषयमित्यर्थः । इच्छाद्वारेति । उपदेशं विनेति शेषः । इच्छाद्वारेति पूरणं यद्यप्यफलं, तथापि प्रमामात्रं सामा- न्यलक्षणादिसिद्धमुपपद्यते इतीच्छाजनकं यागादेरिष्टसाधनत्वज्ञानमुपदेशं विना नेत्याशयेन तदुक्तम् । प्रवर्त्तनीयेति । इष्टसाधनत्वादिकारकयागादिप्रमोत्पादनार्थमित्यर्थः । नन्वेवमपि वेदान्तररूप
५३ न्या० कु०
४१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १८ कारिकाव्याख्यायो बुद्धिपूर्वा हि प्रवृत्तिर्न बुद्धिमन्तमन्तपाद्य शक्यसम्पादना, न च प्रकृते बुद्धिरप्युप- देशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् । भूतावेशन्यायेन प्रवर्त्तयेदिति चेत् । प्रवर्त्तयेदेव यदि तथा फलसिद्धिः स्यात् । न त्वेवम् । कुत एतदवसितम् ? । उपदेशान्यथानुपपत्त्यैव । यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिस्तस्यापि तुल्यमेतत् । यद्यस्ति प्रवृत्तिनिमित्तमदृष्टं, किमुपदेशेन । तत एव प्रवृत्तिसिद्धेः । न चेत् , तथापि किमुपदेशेन । तदभावे तस्मिन् सत्यप्यप्रवृत्तेः । नित्यः स्वतन्त्र उप- देशो न पर्यनुयोज्य इति चेत् । यूयं पर्यनुयोज्याः ? ये तमवधानतो धारयन्ति विचा- रयन्ति चेति ॥ १८ ॥ बोधनी । ज्योतिष्टोमादेः स्वर्गादिसाधनत्वविंषया ' प्रमा भवति, तदभावे च तन्नास्मदादीनां प्रवृत्तिः सिध्येदु- पदेशश्च नोपदेष्टारं विनेति । ततस्तत्सिद्धिरितरथाऽयमनुयोगप्रकारकर्मवशाद् भूतानां प्रवृत्तिरिति पक्षे सुलभः कर्मण एव प्रवृत्तिसिद्धेः किमुपदेशेनेति ॥ बुद्धिपूर्वा इति । न हीश्वरोऽपि वस्तुस्वभावातिक्रमेण प्रवर्त्तयतीति प्रकृतज्योतिष्टोमादेः स्वर्गा- दिसाधनत्व इति । ननु यथा पिशाचादयः प्राणिन आविश्यांबुद्धिपूर्वकमेव प्रवर्त्तयन्ति तथैवायं किमितिःन प्रवर्त्तयेदित्याह भूतावेशेति । अबुद्धिपूर्वकत्वमनुतिष्ठतां फलाभावान्न तथा प्रवर्त्तय- तीत्याह प्रवर्त्तयेदेव इति । अबुद्धिपूर्वानुष्ठाने फलाभाव आप्तोपदेशान्यथानुपपत्तेरेवावसेय इति तुरीयं पादं व्याचष्टे यस्यापि इति । तुल्यतामेवाह यद्यस्ति इति । न हि सत्यपि कारके ज्ञापकाभा- वेन कार्यं निवर्त्तत इति । तदभावे इति । न हि कारकाभावे ज्ञापकसंभवेन कार्यं भवतीति नित्य इति पर्यनुयोज्यस्तु कर्ता नास्तीति भावः । तथापि निरर्थकमिमुपदेशं धारयन्तः तदर्थं च विचा- रयन्तो यूयं मीमांसकाः पर्यनुयोज्या इत्याह यूयम् इति ॥ १८ ॥ प्रकाशः । प्रवर्त्तयेदेवेति । विधिवक्येन स्वर्गकामप्रवृत्तिर्हि स्वर्गसाधनमिति बोधनाद् भूतावेशन्यायेन जनिताऽपि प्रवृत्तिर्न स्वर्गसाधनमित्यर्थः । उपदेशान्यथानुपपत्त्या गत्यन्तरेणापि प्रवर्त्तनम- शक्यमित्यवधार्यते इत्याह उपदेशेति । वेदादात्मश्रवणस्यापि मोक्षहेतुत्वाद्भेदरूप उपदेश आवश्यकः, प्रतिपुरुषं भूतावेशादुपदेश एव लघीय़ानिति भावः । यद्यस्तीति । न चादृष्टम- प्युपदेशात् प्रवृत्तौ स्यादिति वाच्यम् । उपदेशं विनाऽपि पूर्वादिष्टवशादेव यागादौ प्रवर्त्तेत, तद- दृष्टमप्युपदेशमन्तरेण पूर्वप्रवृत्त्यैवेत्याशयात् । यूयमिति । न च वेदधारणविचारणयोर- दृष्टजनकत्वश्रुतेरदृष्टार्थतया तयोरुपपत्तिः स्यादिति वाच्यम् । प्रवृत्त्यर्थमपि तदुभयकरणादिति भावः ॥ १८ ॥ प्रकाशिका । मोहादनार्थमित्यर्थः । नन्वेवं आप्तोपदेशकवेदादन्य उपदेशो वेदरूपः किमर्थमत आह प्रतिपुरु- षमिति ॥ १८ ॥ मकरन्दः । उपदेशः कथमित्यत आह प्रतिपुरुषमिति ॥ १८ ॥ टिप्पणी । प्रवृत्त्यर्थमपि तदुभयकरणादितीति । स्वर्गकामो यजेतेत्यादौ कामनाया अपि स्वर्ग- साधनत्वश्रुतेः कामना च नेष्टसाधनत्वज्ञानं विना तच्च नोक्तोपदेशं विना तदर्थस्यालौकिकत्वादिति प्रवृत्तावायातमपदेशापेक्षणमिति भावः ॥ १८ ॥
तृतीयस्तबके ] अर्थापत्तेर्बाधकत्वखण्डनम् । ४१६ न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसङ्कीर्णोदाहरणाभावात्, प्रकारा- न्तराभावाच्च । तथाहि— अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः ॥ न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥ १९ ॥ जीवंश्चैत्रो गृहे नास्तीत्यनुपपद्यमानमसति बहिःसद्भावे तमापादयतीत्युदाह- रन्ति । तत्र चिन्त्यते—किमनुपपन्नं जीवतो गृहाभावस्येति, न ह्यनियम्यस्या- नियामकं विना किञ्चिदनुपपन्नम् । अतिप्रसङ्गात् । ननु स्वरूपमेव तद् न ताव- द्वहिःसत्त्वेन कर्त्तव्यं, तदकार्यत्वात् तस्य, स्थितिरैवास्य तेन विना न स्यादि- त्यस्य स्वभाव इति चेत् । एवं तर्हि तन्नियतस्वभाव एवासौ व्याप्तेरेव व्यतिरे- कमुखनिरूप्यायास्तथा व्यपदेशात् । कथं वा बहिःसत्त्वमस्योपपादकम् ? । न हि बोधनी। तदेवमर्थापत्तेः पृथक्प्रमाणत्वमङ्गीकृत्य बाधकत्वं निरस्तम्, इदानीमनुमानान्तर्भावात्तन्निरासेनेव निरस्तमित्याह न च इति । अनुमानागोचरस्य प्रमेयस्याभावात् सामग्रीभेदाभावाच्च ततो न भिद्यत इति । ननु व्याप्याद्व्यापकज्ञानमनुमानम् , अर्थापत्तिस्त्वनुपपद्यमानादुपपादककल्पनं, ततः साम- ग्रीतो विषयतश्च भेद इत्याशङ्क्याह तथा हि इति । यद्धि येन नियम्यते तस्य तेन विनानुपपं- र्त्तिर्नान्यस्य, तथा येन यन्नियम्यते तदेव तस्योपपादकं नान्यत् , नियमश्च व्यतिरेकः । ततश्चानु- पपद्यमानोपपादकत्वाभ्यां व्याप्यव्यापकभाव एवाभिहितः स्यात् । अथ प्रमाणद्वयविरोधे सत्यविरो- धापादनमर्थापत्तिरिति चेत्, मैवं व्याहतं भाषिष्ठाः । न हि विरोधिनोर्द्वयोरपि प्रामाण्यं संभवति रज्जुसर्पज्ञानयोरिवान्यतरस्य मिथ्यात्वावश्यंभावात्, प्रमाणयोश्च सतोर्विरोध एव नास्ति स्थूलः शुक्ल इति वद् द्वयोः समावेशसंभवात् । तस्माज्जीवतो गृहाभावात् वहिर्भावकल्पनमनुमानमेवं व्याप्तिब- लेन जायमानत्वात् , अन्यथानुमानतया प्रसिद्धे धूमादावपि असौ अनुपपत्तिः प्रमाणद्वयविरोधश्च, सम इति तदपि प्रमाणान्तरमापद्येतेति । व्याचष्टे जीवंश्चैत्रः इति । किमनुपपन्नं न किञ्चि- दिति । तदेवाह न हि इति । ननु इति । गृहाभावस्वरूपमेव वहिर्भावेन विनानुपपन्नमिति । तन्न तावत् इति । तत्स्वरूपमुत्पत्तौ तावन्न तेन विनानुपपन्नमिति । नन्वस्य गृहाभावस्य स्थितिस्तेन वहिर्भावेन विना नोपपद्यत इत्याह स्थितिरैव इति । हन्तैवं गृहाभावस्तेन वहिर्भावेन नियतस्वभाव इत्युक्तं स्यादित्याह एवं तर्हि इति । कुत इत्यत्राह व्याप्तेरेव इति । साध्येन विना नैव भवि- तव्यं साधनेनेति हि व्यतिरेकव्याप्तेर्व्यपदेश इति । द्वितीयं पादं व्याचष्टे कथं वा इति । नन्वयं स्वभावोऽस्य वहिःसत्त्वस्य यदनेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति, सत्येव वहिःसत्त्वे प्रकाशः। प्रकारान्तरेति ॥ अनुमानप्रकारापेक्षया फलवैजात्याभावाद् व्यापारभेदाभावाच्च भिन्नप्रका- राभावादित्यर्थः ॥ अनियम्यस्येति ॥ अनियम्यस्याव्याप्यस्य न अयुक्तिरयोगोऽनुपपत्तिर्व्यापकमुपपादकं विना, अपि तु व्याप्यस्य व्यापकं विनाऽनुपपत्तिः । अनियन्ता चाव्यापको नोपपादकोऽपि तु व्यापकत- येत्यनुपपत्तौ व्याप्तिरस्त्येवेति तज्ज्ञानात् कल्पनमनुमानमेवेत्यर्थः । प्रमाणयोर्विरोधे चाविरोधायार्था- पत्तिरिति मतान्तरं निरस्यति-न मानयोरिति ॥ एवमङ्गीकारे धूमादग्न्यनुमानमप्यर्थापत्तिरेव स्यादित्याह प्रसिद्धे चापीति । एवं तर्हीति । जीवतो गृहाभावस्थितिरेव बहिःसत्त्वेन विना नेति
४२८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां अनियामको भवन्नप्यनियम्यमुपपादयति, अतिप्रसङ्गादेव। स्वभावोऽस्य यद- नेन बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति चेत्। सेयं व्याप्तिरेवान्वय- मुखनिरूप्या तथा व्यपदिश्यते इति। न वयमविनाभावमर्थापत्तावपजानीमहे, किन्तु तज्ज्ञानम्, न चाऽसौ सत्तामात्रेण तदनुमानत्वमापादयतीति चेत्। न। अनुपपत्तिप्रतिसन्धानस्यावश्याभ्युपगन्तव्यत्वात्। अन्यथा त्वतिप्रसङ्गात्, अर्था- पत्त्याभासाऽनवकाशाच्च। यदा ह्यन्यथैवोपपन्नमन्यथाऽनुपपन्नमिति मन्यते तदाऽस्य विपर्ययो, न त्वन्यथेति। तथापि कथमत्र व्याप्तिर्गृह्येतेति चेत्। यदाऽ- हमिह तदा नान्यत्र, यदान्यत्र तदा नेहेति सर्वप्रत्यक्षसिद्धमेतत्, कां तत्रोपि बोधनी। गेहासत्त्वमिति यावत्, तदेतदाह एवम् इति(१)। तर्हीयं साध्येन सहैव साधनेन भवितव्यमित्य- न्वये व्याप्तिरेवोक्ता भवेदित्याह सेयम् इति। न वयम् इति। ज्ञातस्यैवाविनाभावस्यानुमानसाम- ग्रीत्वादिति भावः। न इति। अनुपपत्तिश्चाविनाभाव एवेत्युक्तमिति भावः। अर्थापत्त्याभा- सेति। ज्ञानस्य हि हेतुत्वे तद्दोषाद्विपर्ययः संभवतीति। गृहाभावबहिर्भावयोर्व्यधिकरणत्वादुद्दर्महा व्याप्तिरित्याशयेन पृच्छति तथापि इति। क्वचित्सत्त्वस्य ततोऽन्यत्रासत्त्वेन क्वचिच्चासत्त्वस्य ततोऽ- न्यत्र सत्त्वेन व्याप्तेः सर्वेषां स्वात्मन्येवैकस्मिंश्च धर्मिणि सुग्रहत्वेन न काचिदत्र कथन्तेत्याह यदा- हम् इति। ननु कथमेकत्र स्थितेन ततोऽन्यत्र स्वात्मनोऽभावः शक्यावगमः तेषां देशानामेवाप्र- प्रकाशः। व्यतिरेकव्याप्तिरेवेत्यर्थः। सेयमिति। वह्निनेव धूमं बहिःसत्त्वेन गेहासत्त्वं क्रोडीकृत्य स्थातव्य- मतौ धूमे सति वह्निर्भवत्येवेतिवत् सति गृहासत्त्वे जीवतो बहिःसत्त्वं भवत्येवेति अन्वयव्याप्तिरे- वेत्यर्थः। अर्थापत्तौ कल्प्यकल्पकयोर्व्याप्तिः सत्यपि न ज्ञाता कल्पनाङ्कमिति नैयमनुमानमित्याह न वयमिति। एवं सत्यनुपपत्तिज्ञानं विनापि कल्पना स्यादिति तज्ज्ञानमावश्यकमित्याह अनु- पपत्तीति। व्याप्तिज्ञानं विनानुपपत्तेरज्ञानादित्यर्थः। सत्तावस्थितव्याप्त्यैव कल्पनेऽन्यथोपपन्नेऽ- प्यनुपपत्तिधिया उपपादककल्पना न स्यादित्याह-अर्थापत्त्याभासेति। विपर्यय इति। उपपादककल्पनरूपो भ्रम इत्यर्थः। न च दोषादेव भ्रमः प्रमाप्रतिबन्धश्च स्यादिति वाच्यम्। यत्र भ्रमस्तत्र वस्तुतो व्याप्तिरेव नेति कः दोषः सहकारी स्यादित्याशयात्। यदाऽहमिहेति। यद्य- प्यन्वये जीवितगृहासत्त्वं व्याप्यं व्यापकं च बहिःसत्त्वं, विपर्यये तु बहिरसत्त्वं व्याप्यं गृहसत्त्वं च प्रकाशिका। नन्वेवमपि व्याप्तिज्ञाने नायातमित्यत आह व्याप्तिज्ञानं विनेति। उपपादकेति। उपपादकत्वाभिमतैत्यर्थः। क दोष इति। त्वया स्वरूपसत्या एव व्याप्तेः कल्पनाङ्गत्वान्भ्युपगमाद् दोषस्य च कल्पकनिरपेक्षस्य कल्पनाङ्गत्वान्भावादिति भावः। यद्यपीति। प्रकृते विवक्षितमिति मकरन्दः। नन्वेवमपि व्याप्तिज्ञानं नायातमत्त आह व्याप्तिज्ञानं विनेति। उपपादकेति। उपपादक- स्वाभिमतकल्पनेत्यर्थः। केति त्वया स्वरूपसद्याप्तिरेव कल्पनाङ्गतेनाभ्युपगमादिति भावः। यद्य- पीति। अत्र, कृते विवक्षितमिति शेषः। वैपरीत्येऽपि व्याप्यव्यापकभावसम्भवादिति ध्येयम्। ( १) एतदनुसारेण मूले 'अतिप्रसंगात् एवं स्वभाव' इति पाठो द्रष्टव्यः।
तृतीयस्तवके ] अर्थापत्तेर्बाधकत्वखण्डनम् । ४२१ कथन्ता ? । सर्वदेशाप्रत्यक्षत्वे तत्राभावो दुरवधारण इत्यपि नास्ति । तेषामेव संसर्गस्यात्मनि प्रतिषेधात् । अयोग्यानां प्रतिषेधे का वार्तेति चेत् । तदवयवानां तत्संसर्गप्रतिषेधादेवानुमानाद् अन्येषां न काचित् , न ह्यकारणीभूतेन परमाणुना नेदं संसृष्टमिति निश्चेतुं शक्यमिति । न चाऽविनाभावनिश्चयेनापि गमयन्नपद्येत- बोधनी । त्यक्षत्वेन योग्यानुपलम्भाभावादित्याशङ्क्याह सर्वदेश इति । न हि तेषु स्वात्मनो निषेधः किन्तु स्वात्मनि तेषां संसर्गस्य निषेधः । स्वात्मा च प्रत्यक्ष एव, प्रतियोगिनश्च ते स्मरणमात्रेणोपयु- ज्यन्ते न प्रत्यक्षत्वेनेति । स्वात्मनि वा कथमयोग्यानां प्रतिषेध इत्याह अयोग्यानाम् इति । तत्रा- योग्याः परमाण्वादयो द्विविधाः आरब्धस्थूलकार्यावयवभूताः केवलाश्च । तत्र पूर्वेषां स्वात्मनि निषेधः तदारब्धस्थूलावयविसंसर्गनिषेधादनुमानत एव सुकरस्तदंसंसर्गस्य तदवयवासंसर्गेण व्याप्तेः, उत्तरेषां तु संसर्गनिषेधे न काचिद्वार्त्ता प्रमाणाभावेनाशक्यत्वादित्याह तदवयवानाम् इति । अस्त्येवाविनाभावनिश्चयोऽप्ययमर्थापत्तेः, तथापि नानुमानत्वं पक्षधर्मत्वाभावादित्यत्राह नचावि- नाभावेति । एवं ह्यनुमानेऽपि पक्षधर्मत्वं निमित्तं न स्यात् व्यधिकरणेनापि साधनेन साध्य- सिद्धयुपपत्तेरिति । न च व्यधिकरणेन साध्येनाविनाभावः शक्यनिश्चयः, यत्साधनं यत्र देशे यदा यस्मिन् कालेऽस्ति तत्र तदा वा तत्साध्यमिति देशतः कालतो वा सामानाधिकरण्येनेवाविना- प्रकाशः । व्यापकमिति यथोगप्राथ्याभ्यां यदा नान्यत्र तदाऽहमिह, यदा नेह तदाऽन्यत्रेति वक्तुमर्हति । तथापि यत्तदोर्नियमित्त्यैव सम्बन्धः कार्यः, तेन यदा जीवतो गृहासत्त्वं तदा बहिःसत्त्वमित्यन्वय- व्याप्तिः, यदा तु बहिरसत्त्वं तदा जीवतो गृहसत्त्वमिति व्यतिरेकव्याप्तिरुक्ता । सर्वत्र बहिरभाव एव प्रत्येतुमशक्योऽधिकरणानामयोग्यत्वादित्याह सर्वदेशेति । न तेषु तेषु देशेष्वभाव निश्चयः, किन्त्विन्द्रियग्रहणयोग्यानां तावदात्मनि संसर्गाभावो योग्यानुपलब्ध्या निश्चीयते इत्याह—तेषामे- वेति । सर्वदेशानामित्यर्थः । अयोग्यानामिति । तत्र योग्यानुपलब्धेरसामर्थ्यादित्यर्थः । तद- वयवानामिति । योग्यानामयोग्या येऽवयवाः, तेषामवयविसंसर्गनिषेधादेव संसर्गनिषेधो निश्चयः । न हि यद् येनावयविना न संसृष्टं तत् तदवयवसंसृष्टम् । अवयवावयविविधुरातीन्द्रियद्रव्यसंसर्गस्य च न विधिनिषेधवार्त्ता, उभयत्र मानाभावादित्यर्थः । ननु जीविगृहभाववहिःसत्त्वयोर्व्याप्तावपि जीविदेवदत्ताभावो गृहे वर्त्तमानो न बहिःसत्त्वे लिङ्गं, देवदत्तवृत्तित्वा नित्यनुमानाद्भेदोऽर्थापत्तेः स्यादित्यत आह—न चेति । गृहनिष्ठाभावप्रतियोगित्वस्य लिङ्गत्वातस्य च देवदत्तवृत्तितया पक्ष- धर्मत्वादित्यर्थः । अन्यथा बहिःसत्त्वगृहनिष्ठाभावयोर्व्यधिकरणत्वेन नियतसामानाधिकरण्यरूपा व्याप्तिरपि न स्यात् । उपरि सविता भूमेरालोकवत्त्वादित्यत्रापि भूमेरुपरि सन्निहितसवितृकंत्वेनारनु- प्रकाशिका । वाक्यशेषः, वैपरीत्येऽपि व्याप्यव्यापकभावसम्भवादिति ध्येयम्, यदा नेति व्याप्य एव नञर्थस्य प्रवेशादिति भावः । उभयत्रेति । यद्यप्येवमपि व्याप्तिनिश्चयोऽशक्य एव तथापि प्रत्यक्षाभावेप्यनु- मानादिना तन्निश्चयसम्भव इति भावः । व्याप्तावपीत्युपलक्षणम् । तन्निश्चयेपीत्यपि द्रष्टव्यम् । उपरीति । तथा च तत्रापि सामानाधिकरण्यमस्त्येवेति भावः । ननु स्थूलमिदमेकमेव ज्ञानमिति द्विती- मकरन्दः । यदा नेति । व्याप्य एव नञर्थप्रवेशादिति भावः । उभयत्रेति । यद्यप्येवं संशय इति न व्याप्ति- निश्चयः स्यात् , तथापि प्रत्यक्षाभावेऽप्यनुमानादपि तत्सम्भव इति भावः । व्याप्तावपीत्युपलक्षणं, तन्निश्चयेऽपीत्यपि बोध्यम् । उपरीति । तथा च तत्रापि सामानाधिकरण्यमेव व्याप्तिरित्यर्थः । ननु स्थूलमिदमेकमित्येकत्वज्ञानमिति द्वितीयंस्य प्रतियोगिनोऽभावदिच न विरोध इत्यंशाहङ्ख्याह
४३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां र्माऽर्थापत्तिरिति युक्तम् । पक्षधर्मताया अनिमित्तत्वप्रसङ्गात् । अविशेषात्, व्यधि- करणेनाविनाभावनिश्चयायोगाच्च—यद् यत्र यदेति प्रकारानुपपत्तेः । प्रमाणयोर्विरोधे अर्थापत्तिर्विरोधोपपादिका, न त्वेवमनुमानमित्यपि नास्ति । विरोधे हि रज्जुसर्पादिवदेकस्य बाध एव स्यान्न तूभयोः प्रामाण्यम् । प्रामाण्ये वा न विरोधः। स्थूलमिदमेकमितिवत् सह संभवात् । चैत्रोऽयमयं तुमैत्र इति वद्वा बोधनी । भावस्य निरूपणीयत्वादित्याह व्यधिकरणेनेति । अत्रापि हि देवदत्तं पक्षीकृत्य तस्य बहिःसत्त्वं गृहासत्त्वेन साध्यत इति पक्षधर्मत्वोपपत्तिरिति भावः । तृतीयं पादं व्याचष्टे प्रमाणयोरिति । ननु प्रकृतोदाहरणे जीवनग्राहकस्य गणितानुमानस्य क्वाप्यस्तीति सामान्यतः प्रवृत्तत्वेन सामान्यानुप्रवेशिनो गेहस्यापि क्रोडीकरणाद्भावप्रमाणेन सहै- मानादित्याह—व्यधिकरणेनेति । प्रकाशः। ननु गृहनिष्ठाभावप्रतियोगित्वमपि न लिङ्गम् । प्रतियोगित्वस्य देवदत्तधर्मतया तदसंनिकर्षे प्रत्यक्षेण ज्ञातुमशक्यत्वात् । कथं वा प्रत्यक्षेण तृतीयलिङ्गपरामर्शः । विशेष्यस्य देवदत्तस्यासंनि- कर्षात् । व्यतिरेकव्याप्तिगृहनिष्ठाभावयोर्ज्ञानं सहकार्यासाय मनसैव लिङ्गपरामर्श इति चेन्न । अक्षा- दिवत्तयोर्मानान्तरत्वापातात् । अतीतानागतधूमादप्यनुमितिः कथम् ? तत्रापि लिङ्गपरामर्शा- भावादिति चेन्न । तत्रापि धूमज्ञानसहकृतादग्निं विना धूमोऽनुपपन्न इति ज्ञानत एवान्वयिज्ञानात् , उक्तरीत्याऽनुमितिसामग्र्यभावात् । यत्र चानुपपत्तिज्ञानं विना तृतीयलिङ्गपरामर्शः तत्रैवानुमानात् । तस्माद्व्यतिरेकव्याप्तिमुपजीव्य व्यधिकरण एव जीविदेवदत्तगृहभावो बहिःसत्त्वं कल्पयतीति ॥ मैवम् । देवदत्तासंनिकर्षेऽपि तस्य गृहनिष्ठाभावप्रतियोगित्वज्ञानात् । तथाहि—गृहे देवद- त्तस्याभाव इति प्रत्यक्षेण जायमानमभावज्ञानं, स्मृतं देवदत्तस्य प्रतियोगित्वमपि विषयीकरोति । प्रति- योगिना सममभावस्य सम्बन्धान्तराभावात् । गृहनिष्ठाभावप्रतियोगित्वे च प्रत्यक्षोपस्थिते स्मृतव्या- प्तिवैशिष्ट्यमपि प्रत्यक्षेण सुग्रहम् । न च देवदत्तविशेष्यकं बहिःसत्त्वव्याप्यगृहनिष्ठाभावप्रतियो- गित्वज्ञानं नास्तीति कथं तद्विशेष्यिकानुमितिरिति वाच्यम् । पक्षवृत्तित्वलिङ्गपरामर्शमात्रस्यानुमिति- हेतुत्वात्, पक्षविशेष्यकत्वस्य चातन्त्रत्वात् । सम्प्रदायविदस्तु—अनतिप्रसक्तव्याप्त्यादिस्मृतिसहकृतन्मनस एव तत्र स्मृतदेवदत्तविशेष्यक- स्तुतीयलिङ्गपरामर्शः । न च सहकारिणो मानान्तरताऽऽपत्तिः, निर्व्यापारत्वादित्याहुः । जीवो क्वचिदस्तीति क्वचित्त्वेन गेहस्यापि विषयत्वात् पश्चाद् गेहे नास्तीत्यनयोर्गेहेऽस्ति नास्ती- त्यत्रेव विरोधज्ञानं करणम् । क्वचिदित्यस्य गेहातिरिक्तविषयत्वकल्पनमविरोधापादकं फलम् । न चानुमानमत्र प्रभवतीति ततोऽर्थापत्तेर्भेद इति मतमुत्थाप्य निराकरोति— प्रमाणयोरिति । प्रमाणयोर्विरोधो वास्तवो वा, वस्तुतोऽविरोघेऽपि ज्ञायमानो वा ? । तत्र नाय इत्याह विरोधे हीति । प्रामाण्ये वा उभयोर्वस्तुनोर्विरुद्धद्वैरूप्यापत्तिरिति भावः । स्थूल- मिति । यथा घटे स्थौल्यैकत्वग्राहकमानयोर्न विरोधस्तथाऽत्रापीत्यर्थः । अन्त्यं शङ्कते प्रकाशिका । यस्य प्रतियोगिनोऽभावान्न विरोध इत्यत आह यथेति । ननु विरोधज्ञानस्यैव कारणत्वात् किमनुपपद्य- मकरन्द । यथेति । ननु प्रमाणद्वयविरोधज्ञानस्य करणत्वात् किमनुपपद्यमानमित्यसङ्गतमित्यत आह- टिप्पणी । गेहे अस्ति नास्तीत्यत्रेवेति । आपाततो गृहीतस्य विरोधस्योपशमनीयताग्रहः कारणम् , प्रमाणयोरुक्तज्ञानयोर्विभिन्नविषयत्वं विनाऽविरोघोऽनुपपन्न इति ज्ञानाद्व्यापारः ।
तृतीयस्तबके ] अर्थापत्तेर्बाधकत्त्वखण्डनम् । ४२३ विषयभेदात् । प्रकृते काप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताऽप्य- स्तीति चेत् । यद्येवं कचिदस्ति कचिन्नास्तीत्यन्न विरोधः । अत्रापि विरोध एवेति चेद् , एकं तर्हि भज्येत । न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत् । किमनुपपद्यमानम् । विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थाप- यतीति चेत् । अथाभिन्नविषयतयैव किं न व्यवस्थापयेत् ? । व्यवस्थापनमवि- रोधापादनम् , एकविषयतयैव चानयोर्विरोधः, स कथं तयैव शमयितव्यः, न हि यो यद्विषमूर्च्छितः स तेनैवोत्थाप्यते इति चेत् । एकविषयतया अनयोर्विरोध इत्येतदेव कुतः । विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत् । नन्वियं व्याप्तिरेव । तथा च घट्टकुट्यां प्रभातमिति । धूमोऽपि वा अनुपपद्यमानतयैव वह्निं बोधनी । क्वचिद्विषयताप्यस्तीत्याह प्रकृते इति । एवं तर्हि भिन्नसामान्यविशेषविषयतया न विरोध इत्याह यद्ये- वम् इति । नन्वत्राप्यनिर्धारितदेशविषययोरस्तित्वनास्तित्वप्रमाणयोः एकस्य विषयेऽन्यस्यानुप्रवेशा- दस्त्येव विरोध इत्याह अत्रापि इति । यद्यत्रापि विरोध एव तर्ह्यन्यतरद् बाध्यतेत्याह एकम् इति । नन्वर्थापत्त्या भिन्नविषयत्वेन व्यवस्थापनान्नैकस्यापि भङ्ग इत्याह न भज्येत इति । सिद्धान्ती गूढाशयः पृच्छति किमनुपपद्यमानम् इति । एवमर्थापत्तिः प्रवर्त्ततेति पूर्वपक्ष्याह विरोध एव इति । व्यवस्थापयति प्रमाणद्वयमित्याशयमुद्घाटयन्नेव पुनः पृच्छति अथ इति । अज्ञातपराशय एवैतर आह व्यवस्थापनम् इति । ततः किमित्यत आह एकविषयतया इति । ततोऽपि किमि- त्याह स कथम् इति । विषान्तरमूर्च्छितो विषान्तरेणैवोत्थाप्य भवति न तु तेनैवेत्युक्तं यद्वि- षेति । आशयमाविष्कर्तुं पुनरपि पृच्छति एकविषयतया इति । पूर्वपक्ष्याह विभिन्नेति । सिद्धान्ती स्वाशयमाविष्करोति नन्वियम् इति । अयमस्तित्वनास्तित्वप्रमाणयोर्भिन्नदेशसंवन्धि- त्वस्वभावो व्याप्तिरेव स्वभावप्रतिबन्धलक्षणत्वाद् व्याप्तेस्तथा चानुमानत्वप्रसङ्गभयाद् व्याप्तिं परिहर्त्तुं प्रवृत्तेन सैव स्वीकृता स्यात् , तथा च घट्कुटीप्रभातम् । घट्कुटी नाम शौल्किकशाला । यथा हि शौल्किकेभ्यो बिभ्यतो रात्रावेव शुल्कशालातिक्रमितव्येति गच्छतः पान्थस्य तस्यामेव प्रभाता शर्वरी तयेदमपीति । तुरीयं पादं व्याचष्टे धूमोऽपि वा इति । यदि सतोऽपि व्याप्तिपक्षधर्मतयो- प्रकाशः । अत्रापीति । उक्तस्फोरणेन निराकरोति एकमिति । अर्थापत्त्येति । विषयभेदकल्पनेनेति शेषः । किमिति । अनुपपन्नतया ज्ञातस्यैवोपपादनादित्यर्थः । अथेति । विरोधज्ञानान्यथानयोरविरोधक- ल्पनमेकविषयतयैव किम क्रियते ? कृतकत्वानित्यत्वयोरिव तेनापि विरोधव्यावृत्तेरुपलम्भादि- त्यर्थः । प्रमाणयोर्वैषयिकविरोधज्ञानं विषयभेदकल्पनया शाम्यति, विरोधंप्रतिसन्धानस्य भावा- भावग्राहकमानयोरेकविषयतयैवोपलम्भात् , तथा च व्याप्तिज्ञानमावश्यकमित्याह-नन्विति । घट्टकुट्यामिति । व्याप्तिभिया विरोधे अविरोधापादनाकारगोपनेन पलायमानस्य व्याप्तावेव निपातादित्यर्थः । एवमनङ्गीकुर्वतः प्रसिद्धानुमानमर्थापत्तिरेवेति तद्विलोप इत्याह धूमोऽपीति । प्रकाशिका । मानमित्यसङ्गतमत आह अनुपपन्नतयेति । विरोधज्ञानकारणतापत्तेऽपीति भावः । तेनापीति । एकविषयतयेनापीत्यर्थः । प्रमाणयोरिति । यत्र यत्र विरोधज्ञानं तयोरतत्रैकविषयतयैव यत्र वा वैषयि- मकरन्द । अनुपपन्नतयेति । तेनापीति । एकविषयतयेनापीत्यर्थः । प्रमाणयोरिति । यत्र यत्र विरोधज्ञानं तयोस्तत्रैकविषयतयैव, यत्र वा वैषयिकविरोधज्ञानशान्तिस्तत्र विषयभेदकल्पनयैवेति व्याप्तिरेवेत्य-
४२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां] गमयेत्, न हि तेन विना असावुपपद्यते । विरोधोऽपि, धूमाद्वह्निना भवितव्यम् , अनुपलब्धेश्च न भवितव्यमिति । तथाचानुपलब्धेरर्वाग्भागव्यवस्थापनं, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरर्थापत्तिरिति कुतोऽनुमानम् । वह्निमानय- मित्यनुमानं व्याप्तेः । अन्यथाऽनुमानाभावे विरोधासिद्धेः। अर्वाग्भागानुपलब्धि- विरोधेन परभागेऽस्य वह्निरित्यर्थापत्तिरेवेति चेन्न । व्याप्तिग्राहकेन प्रमाणेन विरो- धस्योक्तत्वात् । नाप्युत्तरार्थापत्तिः । अन्यथा पाण्डुरत्वस्यापालालत्वविरोधेन बोधिनी । रनुपपद्यमानतया गृहाभावो बहिर्भावं गमयेत्ततोऽनुमानत्वोच्छेद इति । न केवलमनुपपत्तिः प्रमाण- द्वयविरोधोऽपि तत्र वक्तुं शक्यत इत्याह विरोधोऽपि इति । सति धूमे वह्निना भवितव्यमिति वह्नेः सत्तामेकं प्रमाणं गमयति, अनुपलब्धिश्चासत्तां प्रमाणस्य व्यवहितदेशवह्निविषयत्वव्यवस्था- पनमर्थापत्तिरेव स्यादिति । ननु चैवमनुमानोच्छेदः धूमाद्वह्निना भवितव्यमित्यस्यानुमानत्वात्तस्य त्वनुपलब्धिविरोधपरिहाराय पर्वतपरभागव्यवस्थापनमर्थापत्तिरित्याह वह्निमानयम् इति । न इति । न वयमिदानीं तेन धूमज्ञानजन्मना वह्निज्ञानेनानुपलब्धिविरोधं ब्रूमः येनानुमानमास्पदं लभेत, किं तर्हि ? पूर्वकालीनेन यत्र यत्र धूमस्तत्र तत्राग्निरस्तीति व्याप्तिग्राहकप्रमाणेनेदानीमनुस- न्धीयमानेन, अतो न प्रमाणद्वयविरोधसिद्ध्यर्थमनुमानाङ्गीकार इति, परभागावस्थापनं च नार्थापत्ति- रित्याह नापि इति । यदि तु विरुद्धयोर्विषयव्यवस्थापनमेवार्थापत्तिः स्यात् ततः पाण्डरधूमस्य पालालाग्निना व्याप्तत्वेनापालालत्वविरोधात् पालालत्वव्यवस्थापनमर्थापत्तिः स्यादित्याह अन्यथा इति । ननु पाण्डरत्वविशिष्टस्य पालालत्वेन व्याप्तिर्भवन्ती पालालत्वव्यवस्थितिरर्थापत्तिरित्याह प्रकाशः । तदेव स्पष्टयति न हीति । धूमाद् वह्निना भाव्यमित्येनेनानुपलब्धेर्विरोधस्तदा, यदि धूमो वह्नय- नुमापकः स्यान्नान्यथा, तथा च सिद्धमनुमानम्, देशभेदेन तयोर्विरोधापादनमर्थापत्तिफलमेवे- त्याह वह्निमानयमिति । नात्रानुमानेन सममनुपलब्धेर्विरोधः, किन्तु वह्निधूमव्याप्तिग्राहकमा- नेनेत्याह व्याप्तीति । यदि च सामान्यग्राहकमानस्य विशेषतोऽनुपलब्धिरबाधिका, तदा क्वचि- दस्तीत्यस्यापि गेहे नास्तीत्यनेन सह न विरोध इत्यर्थः । नापीति । अर्वाग्भागानुपलब्धि- विरोधेनेत्याद्युक्तरूपेन्त्यर्थः । यदि च नैवं, तदा पाण्डरधूमस्यापालालवह्निविरोधात् पालालत्वसिद्धिर- प्यर्थापत्तिरेव स्यादित्याह अन्यथेति । तेनैव, परभागवह्निर्नैवेत्यर्थः । ननु केवलव्यतिरेकिणि प्रकाशिका । कविोधज्ञानशान्तिः तत्र विषयभेदकल्पनयैवेति व्याप्तिरेवेत्यनुमानादेव विषयभेदकल्पनापीति नार्था- पत्तिरित्यर्थः । सामान्येति । पर्वतसामानाधिकरण्यमात्रेण वह्निग्राहकमानस्येत्यर्थः । विशेषत इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च तत्र ज्ञानं न कारणमिति भावः । वह्निमानित्यनुमानं व्याप्तिरिति स्यैवार्थान्तरमुत्तरपदेनोक्तमत्रेति भ्रमनिरासायाह अर्वाग्भागेति । यद्यपि प्रमाणयोरेव विरोधः परेणार्थापत्तित्वाभिमतो न च प्रकृते तथा, तथापि व्याप्तिज्ञानसत्वेपि प्रमाणयोश्चेद्विरोधः अर्थापत्तिः स्यादित्यविरोधान्तरमपि तथा स्यादित्याशयेनेदमुक्तमिति ध्येयम् । मकरन्दः । नुमानादेव विषयभेदकल्पनाऽपीति नार्थापत्तिरित्यर्थः । सामान्येति । पर्वतो वह्निमानिति सामा- न्यतो ग्राहकस्येत्यर्थः । विशेषत इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च कुतस्तज्ज्ञानं करणमिति भावः । ननु वह्निमानित्यमित्यादि पूर्वपक्षे प्रथमं नार्थापत्त्यन्तरमुक्तं, तथा च नाप्युत्तरेत्यसङ्गतमत आह अर्वाग्भागेति । यदि चेति । यद्यपि प्रमाणयोरेव विरोधस्तथा- त्वेन परामिप्रेतः प्रकृते च न तथा, तथापि यत्रापि व्याप्तिस्तत्र मानान्तरकल्पने विरोधान्तरस्यापि
तृतीयस्तवके ] : अर्थापत्तेर्बाधकत्वखण्डनम् । ४२५ पालालत्वस्थितिरप्यर्थापत्तिरेव स्यात् । तद्विशिष्टस्य तेनैव व्याप्तेर्नैवमिति चेत् । यद्येवमर्वाग्भागानुपलभ्यमानवह्नित्वेन विशिष्टस्य धूमस्य तेनैव व्याप्तेः कथमर्वा- भविष्यतीति तुल्यम् । केवलव्यतिरेक्यनुमानं पराभिमतमर्थापत्तिरन्वयाभावादिति चेत् । एवं तावता विशेषेणानुमानेऽर्थापत्तिव्यवहारं न वारयामः । तत्रानुमानव्य- वहारः कुत इति चेत् । अविनाभूतलिङ्गसमुत्पन्नत्वात् । साध्यधर्मेण विना ह्यभव- नमन्वयिन इव व्यतिरेकिणोऽप्यविशिष्टं, तन्निश्चयश्चाऽन्वयव्यतिरेकाभ्यामन्यतरेण बोधनी । तद्विशिष्टस्य इति । तर्हि विशिष्टस्य धूमस्य वह्निना परभागवर्तिना व्याप्तिर्भवन्ती परभागव्यव- स्थितिव्वा कथमर्थापत्तिः स्यादित्याह यद्येवम् इति । ननु यत्केवलव्यतिरेक्यनुमानत्वेन नैयायिका- नामभिमतं तदेव नोऽस्माक्रमर्थापत्तिरन्वयव्याप्त्यभावेन तस्यानुमानत्वायोगात् इत्याह केवलव्य- तिरेकीति । अस्त्वन्वयो नास्तीत्येतावता विशेषेणार्थापत्तिव्यवहारः, न तावताऽनुमानत्वहानि- रित्याह एवम् इति । तत्र केवलव्यतिरेकिणि असत्येवान्वये किंनिबन्धनमनुमानत्वमित्याशङ्कयाह अविनाभूतेति । अविनाभावेन तन्निश्चयेन च मामकं ह्यनुमानं केवलव्यतिरेकिणि चाविनाभा- वस्तन्निश्चयश्चास्तीत्यनुमानमेव, केवलमेतावान् विशेषः अन्वयव्यतिरेकिणि लिङ्गेऽन्वयव्यतिरेकाभ्यां- प्रकाशः । साध्यसाधनाभावयोर्व्याप्तिरन्वयस्य पक्षधर्मत्वमिति न व्याप्तस्य पक्षधर्मतेत्यनुमानाभावेऽर्थापत्तिः स्यादित्याह केवलैति । व्यतिरेकव्याप्तावपि पक्षधर्मस्यान्ययस्य गमकत्वम् । न चातिप्रसङ्गः । प्रतियोग्यनुयोगिभावस्य नियामकत्वात् । तथा चानुमितिसामग्र्यस्त्येव, परिभाषा त्वंपर्यनुयोज्ये- त्याह एवमिति । वस्तुतो व्यतिरेकयोः संचारादन्वययोरेव व्याप्तिः, प्रतियोग्यनुयोगिभावस्य नियामकत्वादिति व्याप्तस्य पक्षधर्मत्वमस्त्येवेति भावः । अन्यतरेण वेति । केवलान्वयिव्यतिरेकि- णोरित्यर्थः । ननु ज्योतिःशास्त्राद् देवदत्तस्य शतवर्षजीवित्वे ज्ञाते, अथ शतवर्षजीवो गृह एवेति नियमे प्रत्यक्षेण निषिद्धे, पश्चाद् योग्यानुपलब्ध्या निश्चिते गृहाभावो जीवननियमग्राहकसामग्र्योर्बलाबलानि- रूपणाद् बहिःसत्त्वकल्पनां विना नियमद्वयविषयं संशयं जनयित्वा, जीवनसंशयमापाद्य, तदपनुत्तये जीवनोपपादकं बहिःसत्त्वं कल्पयति, यथोक्तसामग्र्यनन्तरं बहिरस्तीति प्रतीतेः । तत्रान्वयव्य- तिरेकाभ्यां जीवनसंशय एव करणम् । जीवित्वाल्लिङ्गविशेषणसन्देहेऽनुमानाभावात् । यथोक्तसामग्री- प्रभवसंशयस्य च कल्पनाङ्गत्वान् स्थाणुपुरुषसंशयस्य मृतजनिष्यमाणयोर्गृहाभावनिश्चयस्य च तादृ- शसंशयाजनकस्य नैककोटिनिर्वाहकबहिःसत्त्वकल्पकत्वम् ॥ अथ जीवननियमग्राहकमानयोस्तुल्यबलत्वज्ञाने विशेषादर्शनान्न वहिःसत्त्वकल्पनो, एकस्य बलवत्त्वाज्ञाने च तेनान्यस्य बाध एवेति न संशयः । तस्माज्जीवनगृहाभावयोर्निश्चय एव वहिःसत्त्वं कल्प्यते, न तु जीवनसंशये इत्यनुमानादेव बहिःसत्त्वसिद्धिः ॥ तन्न । योग्यानुपलब्धिजनितो गृहाभावनिश्चयः सुदृढ इति जीवननियमग्राहकयोरेकं बाध्यं, विरुद्धयोरमानत्वात् । तदिह मरणं कल्पयित्वा जीवनग्राहकं बाध्यतामुत बहिःसत्त्वं कल्पयित्वा मकरन्दः । तथात्वं स्यादित्याशयेन तदुक्तमिति ध्येयम् । तथा चार्थपत्तिकल्पितमित्यत एवकारो भिन्नक्रमः । तथा च तस्यां दशायां मानान्तराभावादर्थापत्तिकल्पितं जीवित्त्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमा- नाद्वहिःसत्त्वज्ञानं त्वयाऽपि वाच्यम्, एवञ्चावश्यकतयाऽर्थापत्त्यैव वहिःसत्त्वनिश्चयोऽस्तु, कृतम- न्तरा जीवित्त्वनिश्चयेनेति तर्कशरीरमेवेदं द्रष्टव्यम् । तेन संशयस्य वहिःसत्त्वकल्पकत्वादिति नोप- संहारविरोधः, न वा जीवित्त्वस्यार्थापत्तिकल्प्यतोपवर्णनेऽपसिद्धान्त इति । ५४ न्या० कु०
४२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १९ कारिकाव्याख्यायां वेति । तस्मादर्थापत्तिरित्यनुमानस्य पर्यायाऽयं तद्विशेषवचनं वा पूर्ववदादिवदिति युक्तम् ॥ १९ ॥ बोधनी । मविनाभावो निश्चीयते, नत्वन्वयिन्यन्वयेनैव व्यतिरेकिणि व्यतिरेकेणैवेति अर्थापत्तेरनुमानान्त- र्भावमुपसंहरति तस्मात् इति ॥ प्रकाशः । नियमग्राहकम् ? । तत्र वहिसत्त्वकल्पने गृहनियमग्राहकमात्रबाधा, मरणकल्पने तु शतवर्षजीवी देवदत्तः, शतवर्षजीवी गृहे एवेति नियमद्वयस्य बाधः स्यात् । तथा चार्थपत्तिकल्पितं जीवित्वमु- पजीव्यानुमानादेव बहिःसत्त्वज्ञानं भविष्यतीत्येतावत्तर्कसहितस्य यथोक्तसामग्रीप्रभवसंशयस्य बहिः- सत्त्वकल्पकत्वात् । न च तस्यां दशायां मानान्तरमस्ति, ततोऽर्थापत्तिसहकारित्वं तर्कस्य । यत्र च मृतेः गृहस्थिते वा तादृशसंशयाद्वहिःसत्त्वकल्पना, तत्र जीवननियमग्राहकयोरन्यतराभासत्वं, परोक्षज्ञानस्य जनकज्ञानाप्रमात्वेनाप्रमात्वनियमात् ॥ अत्राहुः-देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टमभावरूपमरणापे- क्षया जीवनं भावरूपं विषयीकरोति लाघवादिति तत्रैव लाघवं सहकारि ! तथाहि-यथोक्तसंशयद- शायां जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति तर्कानन्तरमेव बहिःसत्त्वज्ञानमित्यविवादम् । तन्न कॢप्तप्रमाणभावे सामान्यतोदृष्ट एव लाघवं सहकारि, न तु कल्पनीयप्रमाणभावे यथोक्तसंशये, गौरवात् । 'यच्चोक्तं-'मरणकल्पने शतवर्षावच्छिन्नजीवी गृह एवेत्यस्यापि बाध' इति । तत्र विशिष्टबाधो विशेष्यबाधात् ० मरणेऽपि जीवी गृह एवेत्यस्य विशेष्यस्याबाधात् ० किन्तु विशेषणबाधात् । स च शतवर्षजीवित्वबाध एव । विशेषणाभावायत्तो विशिष्टाभावोऽप्यऽस्तीति चेन्न ! विशेष्यवति विशिष्टाभावस्य विशेषणाभावात्मकत्वादिति सङ्क्षेपः । पूर्ववदादिवदिति । त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टम् (न्याय० १. १. ५) इति सूत्रे पूर्ववदादिरनुमानविशेष उक्तः ॥ १९ ॥ प्रकाशिका । ततोऽर्थापत्तिकल्पितमिति । एवकारो भिन्नक्रम उपजीव्येत्यत्रान्वेति, तथा च मानान्तरा- भावेऽर्थापत्त्या जीवित्वलिङ्गविशेषणत्वनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वया वाच्यं तद्वरं अर्थापत्यैव बहिःसत्त्वनिश्चय इत्येव स्वीक्रियतां लाघवाय कृतमर्थान्तराजीवित्वज्ञानेनेति तर्कशरीरमेव सर्वमिदं द्रष्टव्यम्, अन्यथा यथाश्रुते संशयस्य बहिःसत्त्वकल्पकत्वादित्युपसंहारविरोघो जीवित्वस्यार्थापत्तिविष- यत्वेऽपसिद्धान्तश्चेति दोषापत्तेः । तत्र जीवनेति । अत्र नियमग्राहकपदेन गृहाभावग्राहकमेवोक्तम् । क्वचित् पाठः-जीवनगृहाभावग्राहकयोरिति । स तु सुगम एव ॥ १९ ॥ मकरन्दः । जीवननियमेति । गृहे नास्त्येवेति नियमग्राहकमत्रोक्तम् । अत एव जीवनगृहाभावग्राहक- योरित्येव क्व चित् पाठः ॥ १९ ॥ टिप्पणी । तथा चार्थपत्तिकल्पितं जीवित्वमिति । अत्र एवकारो भिन्नक्रमः । तस्यां दशायां मानान्तराभावादर्थापत्तिकल्पितं जीवित्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वयापि वाच्यम्, एवञ्चावश्यकतयाऽर्थापत्त्यैव बहिसत्त्वनिश्चयोऽस्तु कृतं तथा जीवित्वनिश्चयेनेति तर्कशरीरमे- वेदं द्रष्टव्यम् । तेन संशयस्य बहिसत्त्वकल्पकत्वादिति नोपसंहारविरोधः, न वा जीवित्वस्यार्थापत्ति- कल्पनोपवर्णनेऽपसिद्धान्त इति । यथोक्तसंशये गौरवादिति । तथाचोक्तानुमानेन जीवित्वनिश्चये तद्विशेषितगृहासत्त्वेन बहिसत्त्वानुमानसम्भवादर्थापत्तिर्न मानान्तरं कल्प्यमिति भावः ॥ १९ ॥