न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 448, कुल 608 में से
संदर्भ में पढ़ें४१६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १५ कारिकान्याख्यायां यदि हि सर्वज्ञकर्तृभावावेदकः शब्दो नाप्तोक्तः, न तर्हि प्रमाणम् । अथाप्तोऽस्य वक्ता, कथं न तदर्थदर्शी । अतीन्द्रियार्थदर्शीति चेत् । कथमसर्वज्ञः ? कथं वा न कर्त्ता । आगमस्यैव प्रणयनात् । न च नित्यागमसम्भवो विच्छेदादित्यावेदितम् १६ अपि च— न चासौ कचिदेकान्तः सत्त्वस्यापि प्रवेदनात् ॥ निरञ्जनावबोधार्थो न च सन्नपि तत्परः ॥ १७ ॥ बोधनी । बाधकस्तस्याप्रमाणत्वात् । अथाप्तोक्तस्तर्हि तदर्थदर्शिना तेन भवितव्यं, यदि चातीन्द्रियमगमार्थं दृष्ट्वा तं प्रणयेत्तर्हि सर्वज्ञः कर्त्ता च स्यात्, न च नित्य एवागमो बाधकः सर्गप्रलयसम्भवेन तस्यापास्तत्वादिति निगदव्याख्यातं व्याख्यानमिति ॥ १६ ॥ बाधकं शब्दमभ्युपगम्याप्याह अपि च इति । न चासावागमो जगत्कर्तुरसत्त्व एव नियतः सत्त्वस्यापि तेन प्रतिपादनोपलम्भात्, ततश्च नानियतत्वात्तेनासत्त्वसिद्धिः, तर्हि तत एव सत्त्वमपि न सिध्येदित्यत उक्तं निरञ्जनेति । चेतनस्याकर्तृत्वप्रतिपादक आगमो विशेषगुणलक्षणाञ्जनरहि- तात्मस्वरूपप्रतिपादनार्थत्वेनान्यपरत्वान्नासत्त्वमावेदयति । तर्हि सत्त्वप्रतिपादकोऽप्यन्यपरः स्यादत प्रकाशः । सर्गप्रलययोः साधितत्वादित्याह । न चेति ॥ १६ ॥ न केवलं तत्र बाधकाभावः, अपि तु द्यावाभूमी जनयन् देव एक इत्यादिश्रुतयः साधिका अपि सन्तीत्याह— न चासाविति । शब्दयोर्मिथः प्रतिबन्धादपि न बाध इत्याह निरञ्जनेति । बाधकतयाभिमत आगमः, आत्मनो यन्निरञ्जनत्वं विशेषगुणशून्यत्वं तद्धयेयमित्येवम्परो, न त्वकर्तृत्वबोधनपर इत्यर्थः। प्रकाशिका। सर्गप्रलययोरिति । सर्गेति सम्पातायातम् नित्यत्वं हि वेदस्य न व्योमादिवद् वाच्यम् , वर्णनि- त्यत्वेऽप्यनित्यानुपूर्वीघटितत्वात्, किन्तु प्रवाहनित्यत्वं तन्न चेदं दूषणमित्यवधेयम् ॥ १६ ॥ शब्दयोरिति । यद्यपि मिथः प्रतिबन्धेन बाधो न भवत्येव । तथापि बाधपदेनात्र प्रतिबन्ध एवोक्तः, विशेषगुणशून्यत्वमिति । अनित्यविशेषगुणशून्यत्वमीश्वरस्येत्यर्थः ॥ मकरन्दः। सर्वविषयत्वमिति । तथा च तस्य जगत्कर्तृत्वं न्यायप्राप्तमित्यागमोऽन्यपरइत्यर्थः । सर्ग- प्रलययोरिति । अत्र सर्गेति सम्पातायातम् । प्रलयेऽपि व्योमादिवन्नित्यागमसत्त्वे न विरोधः, तथापि वर्णनित्यत्वेऽप्यानुपूर्वीघटितस्यानित्यत्वात् प्रवाहनित्यत्वात् प्रवाहनित्यत्वं वाच्यं, तन्नेदमु- त्तरमिति भावः ॥ १६ ॥ शब्दयोरिति । यद्यपि मिथः प्रतिबन्धाद् बाधो न भवत्येव, तथापि बाधो न दोष इत्यर्थः । साधकागमस्येति शेषः । बाधकतयाभिमतागमस्यान्यार्थपरतया विरोधाभावेनाप्रतिरोधकत्वा- दिति भावः ॥ टिप्पणी। सामाग्र्याभावात् चेतनस्य कर्तृत्वाभावे लिङ्गस्य व्यभिचारादितोऽभावादुक्तवाक्यार्थज्ञाननित्यमुपेय- मित्यर्थः । सर्वविषयत्वमर्थसिद्धमिति। सर्वज्ञसिद्धौ तदभावपर उक्तागमः, प्रमाणत्वाय प्रथि- तव्य इत्यर्थः ॥ १७ ॥