न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 447, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तवके.] शब्दस्य बाधकत्वखण्डनम्। ४१५ अस्तु तर्हि शब्द एव बाधकं सर्वज्ञे कर्त्तरि, तथा हि— प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्त्ताऽहमिति मन्यते ॥ इत्यादि पठन्ति । अस्यायमर्थः—न पारमार्थिकं चेतनस्य कर्तृत्वमस्ति, आभि- मानिकं तु तत् । न च सर्वज्ञस्याऽभिमानो, न चासर्वज्ञस्य जगत्कर्तृत्वमस्ति । उच्यते— न प्रमाणमनाप्तोक्तिर्नार्द्दष्टे क्वचिदाप्तता । अदृश्यदृष्टौ सर्वज्ञो न च नित्यागमः क्षमः ॥ १६ ॥ बोधनी । अस्तु पृथक् प्रमाणं शब्दः, स एव जगत्कर्त्तरि बाधकः स्यादित्याह अस्तु इति । कथमागमो जगत्कर्त्तारं बाधत इत्यत्राह अस्यायमर्थ इति । अस्तु तर्ह्याभिमानिकं कर्तृत्वम् ईश्वरस्येत्यत्राह न च इति । अभिमानो नाम भ्रान्तिः, स कथं सर्वज्ञस्य स्याद्विशेषाग्रहणहेतुकत्वात्तस्या इति । अस्तु तर्ह्यसर्वज्ञ इत्यत्राह न चासर्वज्ञस्य इति । न प्रमाणम् इति । न तावदनाप्तप्रणीतः शब्दो प्रकाशः। प्राथम्याच्छब्दानामेव कारणत्वमवधारयति । किञ्चाग्निः करणम् ओदनः कर्मता पाकः कृतिरिष्टसा- धनमिति ज्ञानेऽप्यग्निनाौदनं पचेतेत्यत्रेव कुतो नान्वयबोधः ? तावत्पदार्थोपस्थितेरविशेषात् । तत्र परस्परमाकाङ्क्षा नेति चेत्, तर्हि साकाङ्क्षपदार्थोपस्थितौ पदविशेषजन्यत्वं तन्त्रमिति नागृही- तविशेषणान्यायात् पदविशेषोऽप्यन्वयबोधेऽङ्गमिति कथं न तस्य करणत्वम् । पदादसुसर्थं प्रत्येमी- त्यनुव्यवसाये बाधकाभावाच्चेति सङ्क्षेपः । शब्दप्रामाण्यप्रसङ्गागतमन्विताभिधाननिराकरणं, तदनुप्रसक्तञ्चाभिहितान्वयवाद इति विस्तरेण तन्निराकरणे ग्रन्थगौरवं स्यादित्यत आह कृतमिति ॥ १५ ॥ प्रकृतेरिति । प्रकृतेरचेतनाया, गुणैः सत्त्वादिभिः । सर्वाणि कर्माणि क्रियमाणानि अहं कर्त्तेत्यहं- कारोत्यव्यामोहवशाच्चेतनो मन्यते इति प्रतिपादनाच्चेतनस्य कर्तृत्वं निषिद्धम् । विशेषविधेः शेष- नषेधे पर्यवसानादित्यर्थः । कर्त्तेति तृजन्ताम् । अतो, न लोकाव्ययेत्यादिना कृद्योगषष्ठ्या निषेधः । न चाभिमानिकं जगत्कर्तृत्वमीश्वरस्येत्याह न चेति । तन्मूलविशेषादर्शनाभावादित्यर्थः । उप- दर्शिंतमागमो यदि नाप्तोक्तस्तर्ह्यप्रमाणत्वान्न बाधकः । आप्तोक्तश्चेत्, तर्ह्यागमप्रणयनहेतुस्तज्ज्ञान- मिन्द्रियलिङ्गाद्यभावान्नित्यमुपेयम् । तत्र च विषयस्याहेतुत्वात् सर्वविषयत्वमर्थसिद्धमित्या- गमोऽप्यन्यपर इत्याह न प्रमाणमिति । न चाप्तोक्तत्वं विना नित्यत्वादागमो मानं, प्रकाशिका । सायविरोधादिति दिक् । नन्वविरोधिपदजन्यपदार्थोपस्थितित्वेनान्वयबोधकत्वम् , अन्यथा तवा- प्याकांक्षादिविरहाच्छाब्दान्वयबोधाभावेऽपि मानसान्वयबोधानिष्प्रत्यूहं व्यवहारः स्यादित्यरुचेराह पदादिति ॥ १५ ॥ सर्वविषयत्वमिति । तथा च न्यायसिद्धं जगत्कर्तृत्वं तस्येत्यागमोऽप्यन्यपर इत्यर्थः । मकरन्दः । न तु हेतुत्वम्, अन्वयव्यतिरेकादेः साधारणतया तत्संशायकत्वादित्यरुचेराह किञ्चेति। नन्वन्वय- विरोधिपदाजन्यपदार्थोपस्थितित्वेनान्वयबोधकत्वम् , अन्यथा तवाप्याकांक्षादिवैकल्याच्छाब्दान्व- यबोधानिष्प्रत्यूहो व्यवहारः स्यादित्यरुचेराह पदादिति ॥ १५ ॥ टिप्पणी । सम्बन्धविशेषेण पक्षसम्बन्धेन लिङ्गेनानुमेयेल्यर्थः । कविकान्यस्थले च मानसमेकमेव वाक्यार्थज्ञान- मिति भावः ॥ १५ ॥ ... तज्ज्ञानमिन्द्रियलिङ्गाद्यभावादिति । प्रकृतिकर्तृत्वाद्यर्थस्यातीन्द्रियत्वेनेन्द्रियस्य तत्र