भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 449, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 449

न ह्यसत्त्वपक्ष एवागमो नियतः । ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपा- दनात् । तथा चाग्रे दर्शयिष्यामः । तथा च सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न बाधकम् । सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेदापाततस्तावदेवमेतत् । यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते, तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भवि- ष्यतीति । न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः ॥ १७ ॥ अस्त्वर्थापत्तिस्तर्हि बाधिका, तथाहि—यद्यऽभविष्यन्नोपादेक्ष्यद्, न ह्यसाव- नुपदिश्य प्रवर्त्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्या- भावमौदासीन्यं वाऽऽवेदयति । न । अन्यथैवोपपत्तेः— हेतुभावे फलाभावात् प्रमाणेऽसति न प्रमा ॥ तदभावात् प्रवृत्तिर्नो कर्मवादेऽप्ययं विधिः ॥ १८ ॥

बोधनी । उक्तं न चासौ इति । सत्त्वावेदकस्य नान्यत्र तात्पर्यमिति पञ्चमे वक्ष्याम इति । न हीत्याद्विचिर णग्रन्थो गतार्थः ॥ १७ ॥ अथार्थापत्तेर्बाधकत्वं निराचिकीर्षुः शङ्कते अर्थापत्तिस्तर्हि इति । असौ सर्वज्ञः सर्वकर्त्ता वेदाननुपदिश्यैव ज्योतिष्टोमादौ पुरुषान् प्रवर्त्तयितुं कलञ्जभक्षणादिभ्यश्च निवर्त्तयितुं शक्नोत्येवेति तदर्थस्तस्योपदेशो व्यर्थ इति । नान्यथेति । जगत्कर्तुः सत्त्व एवोपदेशस्योपपत्तेः नासत्व इति । तदेवोपपादयन्नाह हेतुभावे इति । न तावदसति हेतौ फलस्यासंभवादसत्युपदेशात्मके प्रमाणे

प्रकाशः । उत्तरार्द्धं व्याचष्टे यदा त्विति ॥ १७ ॥ अर्थापत्तिबाधकत्वमुपन्यस्य निराकरोति अस्त्विति । न ह्यसाविति । असार्वज्ञ्यापत्ते- रिति भावः । हेतुभावे इति । कारणाभावे कार्याभाव इति सामान्यव्याप्तौ कारणविशेषप्रमाणाभावे कार्यविशेषप्रमा न स्यादित्यर्थः । तदभावेऽनिष्टमाह तदभावादिति । इच्छाद्वारा प्रमाजन्या प्रवृत्तिरस्मदादीनां नेश्वरेण कारयितुं शक्या, ततः प्रवर्त्तनीयप्रमोत्पादनार्थमेवायमुपदेश इत्यर्थः । प्रमाया अभावेऽप्यदृष्टादेव प्रवृत्तिः स्यात् किं वेदेनेति मतेऽप्युपदेशानर्थक्यसेवादृष्टादेव प्रवृत्तेरित्याह कर्मवादेऽपीति ।

प्रकाशिका । असार्वज्ञ्यत्वापत्तेरिति । उपदेशं विनापि यः प्रवर्त्तनोपायः, तस्याज्ञानादित्यर्थः । प्रथमपद- वैयर्थ्याशङ्कायामाह सामान्यव्याप्ताविति । तथा च विशेषव्याप्तिसाधकत्वेनैव सामान्यव्याप्ति- रुपन्यस्तेत्याशयः । शक्या इति । उपदेशं विनेति शेषः । उपदेशपदं विनापि सामान्यलक्षणा- दिजन्यप्रमाद्वारा प्रवृत्तिं कारयितुं शक्यत एवेतीच्छाद्वारेति पूरणविशेषणं स्वीकृतम् , इच्छा चेष्ट- साधनत्वादिकारकत्वज्ञानसाध्येति नोक्तदोषः । प्रमोत्पादनार्थमिति । इष्टसाधनत्वादिकारकप्र-

मकरन्दः । असार्वज्ञ्यापत्तेरिति । उपदेशं विना प्रवर्त्तकत्वस्याज्ञानादित्यर्थः । प्रमाणपदवैयर्थ्यमाश- ङ्कयाह कारणाभाव इति । तथा च प्रमाणाभावेनेत्यपि मूलं सामान्यव्याप्तिविषयमित्यर्थः । इच्छाद्वारेति । उपदेशं विनेति शेषः । इच्छाद्वारेति पूरणं यद्यप्यफलं, तथापि प्रमामात्रं सामा- न्यलक्षणादिसिद्धमुपपद्यते इतीच्छाजनकं यागादेरिष्टसाधनत्वज्ञानमुपदेशं विना नेत्याशयेन तदुक्तम् । प्रवर्त्तनीयेति । इष्टसाधनत्वादिकारकयागादिप्रमोत्पादनार्थमित्यर्थः । नन्वेवमपि वेदान्तररूप

५३ न्या० कु०