न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 450, कुल 608 में से
संदर्भ में पढ़ें४१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १८ कारिकाव्याख्यायो बुद्धिपूर्वा हि प्रवृत्तिर्न बुद्धिमन्तमन्तपाद्य शक्यसम्पादना, न च प्रकृते बुद्धिरप्युप- देशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् । भूतावेशन्यायेन प्रवर्त्तयेदिति चेत् । प्रवर्त्तयेदेव यदि तथा फलसिद्धिः स्यात् । न त्वेवम् । कुत एतदवसितम् ? । उपदेशान्यथानुपपत्त्यैव । यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिस्तस्यापि तुल्यमेतत् । यद्यस्ति प्रवृत्तिनिमित्तमदृष्टं, किमुपदेशेन । तत एव प्रवृत्तिसिद्धेः । न चेत् , तथापि किमुपदेशेन । तदभावे तस्मिन् सत्यप्यप्रवृत्तेः । नित्यः स्वतन्त्र उप- देशो न पर्यनुयोज्य इति चेत् । यूयं पर्यनुयोज्याः ? ये तमवधानतो धारयन्ति विचा- रयन्ति चेति ॥ १८ ॥ बोधनी । ज्योतिष्टोमादेः स्वर्गादिसाधनत्वविंषया ' प्रमा भवति, तदभावे च तन्नास्मदादीनां प्रवृत्तिः सिध्येदु- पदेशश्च नोपदेष्टारं विनेति । ततस्तत्सिद्धिरितरथाऽयमनुयोगप्रकारकर्मवशाद् भूतानां प्रवृत्तिरिति पक्षे सुलभः कर्मण एव प्रवृत्तिसिद्धेः किमुपदेशेनेति ॥ बुद्धिपूर्वा इति । न हीश्वरोऽपि वस्तुस्वभावातिक्रमेण प्रवर्त्तयतीति प्रकृतज्योतिष्टोमादेः स्वर्गा- दिसाधनत्व इति । ननु यथा पिशाचादयः प्राणिन आविश्यांबुद्धिपूर्वकमेव प्रवर्त्तयन्ति तथैवायं किमितिःन प्रवर्त्तयेदित्याह भूतावेशेति । अबुद्धिपूर्वकत्वमनुतिष्ठतां फलाभावान्न तथा प्रवर्त्तय- तीत्याह प्रवर्त्तयेदेव इति । अबुद्धिपूर्वानुष्ठाने फलाभाव आप्तोपदेशान्यथानुपपत्तेरेवावसेय इति तुरीयं पादं व्याचष्टे यस्यापि इति । तुल्यतामेवाह यद्यस्ति इति । न हि सत्यपि कारके ज्ञापकाभा- वेन कार्यं निवर्त्तत इति । तदभावे इति । न हि कारकाभावे ज्ञापकसंभवेन कार्यं भवतीति नित्य इति पर्यनुयोज्यस्तु कर्ता नास्तीति भावः । तथापि निरर्थकमिमुपदेशं धारयन्तः तदर्थं च विचा- रयन्तो यूयं मीमांसकाः पर्यनुयोज्या इत्याह यूयम् इति ॥ १८ ॥ प्रकाशः । प्रवर्त्तयेदेवेति । विधिवक्येन स्वर्गकामप्रवृत्तिर्हि स्वर्गसाधनमिति बोधनाद् भूतावेशन्यायेन जनिताऽपि प्रवृत्तिर्न स्वर्गसाधनमित्यर्थः । उपदेशान्यथानुपपत्त्या गत्यन्तरेणापि प्रवर्त्तनम- शक्यमित्यवधार्यते इत्याह उपदेशेति । वेदादात्मश्रवणस्यापि मोक्षहेतुत्वाद्भेदरूप उपदेश आवश्यकः, प्रतिपुरुषं भूतावेशादुपदेश एव लघीय़ानिति भावः । यद्यस्तीति । न चादृष्टम- प्युपदेशात् प्रवृत्तौ स्यादिति वाच्यम् । उपदेशं विनाऽपि पूर्वादिष्टवशादेव यागादौ प्रवर्त्तेत, तद- दृष्टमप्युपदेशमन्तरेण पूर्वप्रवृत्त्यैवेत्याशयात् । यूयमिति । न च वेदधारणविचारणयोर- दृष्टजनकत्वश्रुतेरदृष्टार्थतया तयोरुपपत्तिः स्यादिति वाच्यम् । प्रवृत्त्यर्थमपि तदुभयकरणादिति भावः ॥ १८ ॥ प्रकाशिका । मोहादनार्थमित्यर्थः । नन्वेवं आप्तोपदेशकवेदादन्य उपदेशो वेदरूपः किमर्थमत आह प्रतिपुरु- षमिति ॥ १८ ॥ मकरन्दः । उपदेशः कथमित्यत आह प्रतिपुरुषमिति ॥ १८ ॥ टिप्पणी । प्रवृत्त्यर्थमपि तदुभयकरणादितीति । स्वर्गकामो यजेतेत्यादौ कामनाया अपि स्वर्ग- साधनत्वश्रुतेः कामना च नेष्टसाधनत्वज्ञानं विना तच्च नोक्तोपदेशं विना तदर्थस्यालौकिकत्वादिति प्रवृत्तावायातमपदेशापेक्षणमिति भावः ॥ १८ ॥