भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 451, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 451

तृतीयस्तबके ] अर्थापत्तेर्बाधकत्वखण्डनम् । ४१६ न चार्थापत्तिरनुमानतो भिद्यते, लोके तदसङ्कीर्णोदाहरणाभावात्, प्रकारा- न्तराभावाच्च । तथाहि— अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः ॥ न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥ १९ ॥ जीवंश्चैत्रो गृहे नास्तीत्यनुपपद्यमानमसति बहिःसद्भावे तमापादयतीत्युदाह- रन्ति । तत्र चिन्त्यते—किमनुपपन्नं जीवतो गृहाभावस्येति, न ह्यनियम्यस्या- नियामकं विना किञ्चिदनुपपन्नम् । अतिप्रसङ्गात् । ननु स्वरूपमेव तद् न ताव- द्वहिःसत्त्वेन कर्त्तव्यं, तदकार्यत्वात् तस्य, स्थितिरैवास्य तेन विना न स्यादि- त्यस्य स्वभाव इति चेत् । एवं तर्हि तन्नियतस्वभाव एवासौ व्याप्तेरेव व्यतिरे- कमुखनिरूप्यायास्तथा व्यपदेशात् । कथं वा बहिःसत्त्वमस्योपपादकम् ? । न हि बोधनी। तदेवमर्थापत्तेः पृथक्प्रमाणत्वमङ्गीकृत्य बाधकत्वं निरस्तम्, इदानीमनुमानान्तर्भावात्तन्निरासेनेव निरस्तमित्याह न च इति । अनुमानागोचरस्य प्रमेयस्याभावात् सामग्रीभेदाभावाच्च ततो न भिद्यत इति । ननु व्याप्याद्व्यापकज्ञानमनुमानम् , अर्थापत्तिस्त्वनुपपद्यमानादुपपादककल्पनं, ततः साम- ग्रीतो विषयतश्च भेद इत्याशङ्क्याह तथा हि इति । यद्धि येन नियम्यते तस्य तेन विनानुपपं- र्त्तिर्नान्यस्य, तथा येन यन्नियम्यते तदेव तस्योपपादकं नान्यत् , नियमश्च व्यतिरेकः । ततश्चानु- पपद्यमानोपपादकत्वाभ्यां व्याप्यव्यापकभाव एवाभिहितः स्यात् । अथ प्रमाणद्वयविरोधे सत्यविरो- धापादनमर्थापत्तिरिति चेत्, मैवं व्याहतं भाषिष्ठाः । न हि विरोधिनोर्द्वयोरपि प्रामाण्यं संभवति रज्जुसर्पज्ञानयोरिवान्यतरस्य मिथ्यात्वावश्यंभावात्, प्रमाणयोश्च सतोर्विरोध एव नास्ति स्थूलः शुक्ल इति वद् द्वयोः समावेशसंभवात् । तस्माज्जीवतो गृहाभावात् वहिर्भावकल्पनमनुमानमेवं व्याप्तिब- लेन जायमानत्वात् , अन्यथानुमानतया प्रसिद्धे धूमादावपि असौ अनुपपत्तिः प्रमाणद्वयविरोधश्च, सम इति तदपि प्रमाणान्तरमापद्येतेति । व्याचष्टे जीवंश्चैत्रः इति । किमनुपपन्नं न किञ्चि- दिति । तदेवाह न हि इति । ननु इति । गृहाभावस्वरूपमेव वहिर्भावेन विनानुपपन्नमिति । तन्न तावत् इति । तत्स्वरूपमुत्पत्तौ तावन्न तेन विनानुपपन्नमिति । नन्वस्य गृहाभावस्य स्थितिस्तेन वहिर्भावेन विना नोपपद्यत इत्याह स्थितिरैव इति । हन्तैवं गृहाभावस्तेन वहिर्भावेन नियतस्वभाव इत्युक्तं स्यादित्याह एवं तर्हि इति । कुत इत्यत्राह व्याप्तेरेव इति । साध्येन विना नैव भवि- तव्यं साधनेनेति हि व्यतिरेकव्याप्तेर्व्यपदेश इति । द्वितीयं पादं व्याचष्टे कथं वा इति । नन्वयं स्वभावोऽस्य वहिःसत्त्वस्य यदनेन गेहासत्त्वं क्रोडीकृत्य स्थातव्यमिति, सत्येव वहिःसत्त्वे प्रकाशः। प्रकारान्तरेति ॥ अनुमानप्रकारापेक्षया फलवैजात्याभावाद् व्यापारभेदाभावाच्च भिन्नप्रका- राभावादित्यर्थः ॥ अनियम्यस्येति ॥ अनियम्यस्याव्याप्यस्य न अयुक्तिरयोगोऽनुपपत्तिर्व्यापकमुपपादकं विना, अपि तु व्याप्यस्य व्यापकं विनाऽनुपपत्तिः । अनियन्ता चाव्यापको नोपपादकोऽपि तु व्यापकत- येत्यनुपपत्तौ व्याप्तिरस्त्येवेति तज्ज्ञानात् कल्पनमनुमानमेवेत्यर्थः । प्रमाणयोर्विरोधे चाविरोधायार्था- पत्तिरिति मतान्तरं निरस्यति-न मानयोरिति ॥ एवमङ्गीकारे धूमादग्न्यनुमानमप्यर्थापत्तिरेव स्यादित्याह प्रसिद्धे चापीति । एवं तर्हीति । जीवतो गृहाभावस्थितिरेव बहिःसत्त्वेन विना नेति