न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 455, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अर्थापत्तेर्बाधकत्त्वखण्डनम् । ४२३ विषयभेदात् । प्रकृते काप्यस्तीति सामान्यतो गेहस्यापि प्रवेशादेकविषयताऽप्य- स्तीति चेत् । यद्येवं कचिदस्ति कचिन्नास्तीत्यन्न विरोधः । अत्रापि विरोध एवेति चेद् , एकं तर्हि भज्येत । न भज्येत, अर्थापत्त्या उभयोरप्युपपादनादिति चेत् । किमनुपपद्यमानम् । विरोध एवान्यथानुपपद्यमानो विभिन्नविषयतया व्यवस्थाप- यतीति चेत् । अथाभिन्नविषयतयैव किं न व्यवस्थापयेत् ? । व्यवस्थापनमवि- रोधापादनम् , एकविषयतयैव चानयोर्विरोधः, स कथं तयैव शमयितव्यः, न हि यो यद्विषमूर्च्छितः स तेनैवोत्थाप्यते इति चेत् । एकविषयतया अनयोर्विरोध इत्येतदेव कुतः । विभिन्नदेशस्वभावतयैव सर्वत्रोपलम्भादिति चेत् । नन्वियं व्याप्तिरेव । तथा च घट्टकुट्यां प्रभातमिति । धूमोऽपि वा अनुपपद्यमानतयैव वह्निं बोधनी । क्वचिद्विषयताप्यस्तीत्याह प्रकृते इति । एवं तर्हि भिन्नसामान्यविशेषविषयतया न विरोध इत्याह यद्ये- वम् इति । नन्वत्राप्यनिर्धारितदेशविषययोरस्तित्वनास्तित्वप्रमाणयोः एकस्य विषयेऽन्यस्यानुप्रवेशा- दस्त्येव विरोध इत्याह अत्रापि इति । यद्यत्रापि विरोध एव तर्ह्यन्यतरद् बाध्यतेत्याह एकम् इति । नन्वर्थापत्त्या भिन्नविषयत्वेन व्यवस्थापनान्नैकस्यापि भङ्ग इत्याह न भज्येत इति । सिद्धान्ती गूढाशयः पृच्छति किमनुपपद्यमानम् इति । एवमर्थापत्तिः प्रवर्त्ततेति पूर्वपक्ष्याह विरोध एव इति । व्यवस्थापयति प्रमाणद्वयमित्याशयमुद्घाटयन्नेव पुनः पृच्छति अथ इति । अज्ञातपराशय एवैतर आह व्यवस्थापनम् इति । ततः किमित्यत आह एकविषयतया इति । ततोऽपि किमि- त्याह स कथम् इति । विषान्तरमूर्च्छितो विषान्तरेणैवोत्थाप्य भवति न तु तेनैवेत्युक्तं यद्वि- षेति । आशयमाविष्कर्तुं पुनरपि पृच्छति एकविषयतया इति । पूर्वपक्ष्याह विभिन्नेति । सिद्धान्ती स्वाशयमाविष्करोति नन्वियम् इति । अयमस्तित्वनास्तित्वप्रमाणयोर्भिन्नदेशसंवन्धि- त्वस्वभावो व्याप्तिरेव स्वभावप्रतिबन्धलक्षणत्वाद् व्याप्तेस्तथा चानुमानत्वप्रसङ्गभयाद् व्याप्तिं परिहर्त्तुं प्रवृत्तेन सैव स्वीकृता स्यात् , तथा च घट्कुटीप्रभातम् । घट्कुटी नाम शौल्किकशाला । यथा हि शौल्किकेभ्यो बिभ्यतो रात्रावेव शुल्कशालातिक्रमितव्येति गच्छतः पान्थस्य तस्यामेव प्रभाता शर्वरी तयेदमपीति । तुरीयं पादं व्याचष्टे धूमोऽपि वा इति । यदि सतोऽपि व्याप्तिपक्षधर्मतयो- प्रकाशः । अत्रापीति । उक्तस्फोरणेन निराकरोति एकमिति । अर्थापत्त्येति । विषयभेदकल्पनेनेति शेषः । किमिति । अनुपपन्नतया ज्ञातस्यैवोपपादनादित्यर्थः । अथेति । विरोधज्ञानान्यथानयोरविरोधक- ल्पनमेकविषयतयैव किम क्रियते ? कृतकत्वानित्यत्वयोरिव तेनापि विरोधव्यावृत्तेरुपलम्भादि- त्यर्थः । प्रमाणयोर्वैषयिकविरोधज्ञानं विषयभेदकल्पनया शाम्यति, विरोधंप्रतिसन्धानस्य भावा- भावग्राहकमानयोरेकविषयतयैवोपलम्भात् , तथा च व्याप्तिज्ञानमावश्यकमित्याह-नन्विति । घट्टकुट्यामिति । व्याप्तिभिया विरोधे अविरोधापादनाकारगोपनेन पलायमानस्य व्याप्तावेव निपातादित्यर्थः । एवमनङ्गीकुर्वतः प्रसिद्धानुमानमर्थापत्तिरेवेति तद्विलोप इत्याह धूमोऽपीति । प्रकाशिका । मानमित्यसङ्गतमत आह अनुपपन्नतयेति । विरोधज्ञानकारणतापत्तेऽपीति भावः । तेनापीति । एकविषयतयेनापीत्यर्थः । प्रमाणयोरिति । यत्र यत्र विरोधज्ञानं तयोरतत्रैकविषयतयैव यत्र वा वैषयि- मकरन्द । अनुपपन्नतयेति । तेनापीति । एकविषयतयेनापीत्यर्थः । प्रमाणयोरिति । यत्र यत्र विरोधज्ञानं तयोस्तत्रैकविषयतयैव, यत्र वा वैषयिकविरोधज्ञानशान्तिस्तत्र विषयभेदकल्पनयैवेति व्याप्तिरेवेत्य-