न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 456, कुल 608 में से
संदर्भ में पढ़ें४२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां] गमयेत्, न हि तेन विना असावुपपद्यते । विरोधोऽपि, धूमाद्वह्निना भवितव्यम् , अनुपलब्धेश्च न भवितव्यमिति । तथाचानुपलब्धेरर्वाग्भागव्यवस्थापनं, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरर्थापत्तिरिति कुतोऽनुमानम् । वह्निमानय- मित्यनुमानं व्याप्तेः । अन्यथाऽनुमानाभावे विरोधासिद्धेः। अर्वाग्भागानुपलब्धि- विरोधेन परभागेऽस्य वह्निरित्यर्थापत्तिरेवेति चेन्न । व्याप्तिग्राहकेन प्रमाणेन विरो- धस्योक्तत्वात् । नाप्युत्तरार्थापत्तिः । अन्यथा पाण्डुरत्वस्यापालालत्वविरोधेन बोधिनी । रनुपपद्यमानतया गृहाभावो बहिर्भावं गमयेत्ततोऽनुमानत्वोच्छेद इति । न केवलमनुपपत्तिः प्रमाण- द्वयविरोधोऽपि तत्र वक्तुं शक्यत इत्याह विरोधोऽपि इति । सति धूमे वह्निना भवितव्यमिति वह्नेः सत्तामेकं प्रमाणं गमयति, अनुपलब्धिश्चासत्तां प्रमाणस्य व्यवहितदेशवह्निविषयत्वव्यवस्था- पनमर्थापत्तिरेव स्यादिति । ननु चैवमनुमानोच्छेदः धूमाद्वह्निना भवितव्यमित्यस्यानुमानत्वात्तस्य त्वनुपलब्धिविरोधपरिहाराय पर्वतपरभागव्यवस्थापनमर्थापत्तिरित्याह वह्निमानयम् इति । न इति । न वयमिदानीं तेन धूमज्ञानजन्मना वह्निज्ञानेनानुपलब्धिविरोधं ब्रूमः येनानुमानमास्पदं लभेत, किं तर्हि ? पूर्वकालीनेन यत्र यत्र धूमस्तत्र तत्राग्निरस्तीति व्याप्तिग्राहकप्रमाणेनेदानीमनुस- न्धीयमानेन, अतो न प्रमाणद्वयविरोधसिद्ध्यर्थमनुमानाङ्गीकार इति, परभागावस्थापनं च नार्थापत्ति- रित्याह नापि इति । यदि तु विरुद्धयोर्विषयव्यवस्थापनमेवार्थापत्तिः स्यात् ततः पाण्डरधूमस्य पालालाग्निना व्याप्तत्वेनापालालत्वविरोधात् पालालत्वव्यवस्थापनमर्थापत्तिः स्यादित्याह अन्यथा इति । ननु पाण्डरत्वविशिष्टस्य पालालत्वेन व्याप्तिर्भवन्ती पालालत्वव्यवस्थितिरर्थापत्तिरित्याह प्रकाशः । तदेव स्पष्टयति न हीति । धूमाद् वह्निना भाव्यमित्येनेनानुपलब्धेर्विरोधस्तदा, यदि धूमो वह्नय- नुमापकः स्यान्नान्यथा, तथा च सिद्धमनुमानम्, देशभेदेन तयोर्विरोधापादनमर्थापत्तिफलमेवे- त्याह वह्निमानयमिति । नात्रानुमानेन सममनुपलब्धेर्विरोधः, किन्तु वह्निधूमव्याप्तिग्राहकमा- नेनेत्याह व्याप्तीति । यदि च सामान्यग्राहकमानस्य विशेषतोऽनुपलब्धिरबाधिका, तदा क्वचि- दस्तीत्यस्यापि गेहे नास्तीत्यनेन सह न विरोध इत्यर्थः । नापीति । अर्वाग्भागानुपलब्धि- विरोधेनेत्याद्युक्तरूपेन्त्यर्थः । यदि च नैवं, तदा पाण्डरधूमस्यापालालवह्निविरोधात् पालालत्वसिद्धिर- प्यर्थापत्तिरेव स्यादित्याह अन्यथेति । तेनैव, परभागवह्निर्नैवेत्यर्थः । ननु केवलव्यतिरेकिणि प्रकाशिका । कविोधज्ञानशान्तिः तत्र विषयभेदकल्पनयैवेति व्याप्तिरेवेत्यनुमानादेव विषयभेदकल्पनापीति नार्था- पत्तिरित्यर्थः । सामान्येति । पर्वतसामानाधिकरण्यमात्रेण वह्निग्राहकमानस्येत्यर्थः । विशेषत इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च तत्र ज्ञानं न कारणमिति भावः । वह्निमानित्यनुमानं व्याप्तिरिति स्यैवार्थान्तरमुत्तरपदेनोक्तमत्रेति भ्रमनिरासायाह अर्वाग्भागेति । यद्यपि प्रमाणयोरेव विरोधः परेणार्थापत्तित्वाभिमतो न च प्रकृते तथा, तथापि व्याप्तिज्ञानसत्वेपि प्रमाणयोश्चेद्विरोधः अर्थापत्तिः स्यादित्यविरोधान्तरमपि तथा स्यादित्याशयेनेदमुक्तमिति ध्येयम् । मकरन्दः । नुमानादेव विषयभेदकल्पनाऽपीति नार्थापत्तिरित्यर्थः । सामान्येति । पर्वतो वह्निमानिति सामा- न्यतो ग्राहकस्येत्यर्थः । विशेषत इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च कुतस्तज्ज्ञानं करणमिति भावः । ननु वह्निमानित्यमित्यादि पूर्वपक्षे प्रथमं नार्थापत्त्यन्तरमुक्तं, तथा च नाप्युत्तरेत्यसङ्गतमत आह अर्वाग्भागेति । यदि चेति । यद्यपि प्रमाणयोरेव विरोधस्तथा- त्वेन परामिप्रेतः प्रकृते च न तथा, तथापि यत्रापि व्याप्तिस्तत्र मानान्तरकल्पने विरोधान्तरस्यापि