न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
४२४ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [१९ कारिकाव्याख्यायां] गमयेत्, न हि तेन विना असावुपपद्यते । विरोधोऽपि, धूमाद्वह्निना भवितव्यम् , अनुपलब्धेश्च न भवितव्यमिति । तथाचानुपलब्धेरर्वाग्भागव्यवस्थापनं, धूमस्य च व्यवधानेनानुपलभ्यवह्निविषयत्वस्थितिरर्थापत्तिरिति कुतोऽनुमानम् । वह्निमानय- मित्यनुमानं व्याप्तेः । अन्यथाऽनुमानाभावे विरोधासिद्धेः। अर्वाग्भागानुपलब्धि- विरोधेन परभागेऽस्य वह्निरित्यर्थापत्तिरेवेति चेन्न । व्याप्तिग्राहकेन प्रमाणेन विरो- धस्योक्तत्वात् । नाप्युत्तरार्थापत्तिः । अन्यथा पाण्डुरत्वस्यापालालत्वविरोधेन बोधिनी । रनुपपद्यमानतया गृहाभावो बहिर्भावं गमयेत्ततोऽनुमानत्वोच्छेद इति । न केवलमनुपपत्तिः प्रमाण- द्वयविरोधोऽपि तत्र वक्तुं शक्यत इत्याह विरोधोऽपि इति । सति धूमे वह्निना भवितव्यमिति वह्नेः सत्तामेकं प्रमाणं गमयति, अनुपलब्धिश्चासत्तां प्रमाणस्य व्यवहितदेशवह्निविषयत्वव्यवस्था- पनमर्थापत्तिरेव स्यादिति । ननु चैवमनुमानोच्छेदः धूमाद्वह्निना भवितव्यमित्यस्यानुमानत्वात्तस्य त्वनुपलब्धिविरोधपरिहाराय पर्वतपरभागव्यवस्थापनमर्थापत्तिरित्याह वह्निमानयम् इति । न इति । न वयमिदानीं तेन धूमज्ञानजन्मना वह्निज्ञानेनानुपलब्धिविरोधं ब्रूमः येनानुमानमास्पदं लभेत, किं तर्हि ? पूर्वकालीनेन यत्र यत्र धूमस्तत्र तत्राग्निरस्तीति व्याप्तिग्राहकप्रमाणेनेदानीमनुस- न्धीयमानेन, अतो न प्रमाणद्वयविरोधसिद्ध्यर्थमनुमानाङ्गीकार इति, परभागावस्थापनं च नार्थापत्ति- रित्याह नापि इति । यदि तु विरुद्धयोर्विषयव्यवस्थापनमेवार्थापत्तिः स्यात् ततः पाण्डरधूमस्य पालालाग्निना व्याप्तत्वेनापालालत्वविरोधात् पालालत्वव्यवस्थापनमर्थापत्तिः स्यादित्याह अन्यथा इति । ननु पाण्डरत्वविशिष्टस्य पालालत्वेन व्याप्तिर्भवन्ती पालालत्वव्यवस्थितिरर्थापत्तिरित्याह प्रकाशः । तदेव स्पष्टयति न हीति । धूमाद् वह्निना भाव्यमित्येनेनानुपलब्धेर्विरोधस्तदा, यदि धूमो वह्नय- नुमापकः स्यान्नान्यथा, तथा च सिद्धमनुमानम्, देशभेदेन तयोर्विरोधापादनमर्थापत्तिफलमेवे- त्याह वह्निमानयमिति । नात्रानुमानेन सममनुपलब्धेर्विरोधः, किन्तु वह्निधूमव्याप्तिग्राहकमा- नेनेत्याह व्याप्तीति । यदि च सामान्यग्राहकमानस्य विशेषतोऽनुपलब्धिरबाधिका, तदा क्वचि- दस्तीत्यस्यापि गेहे नास्तीत्यनेन सह न विरोध इत्यर्थः । नापीति । अर्वाग्भागानुपलब्धि- विरोधेनेत्याद्युक्तरूपेन्त्यर्थः । यदि च नैवं, तदा पाण्डरधूमस्यापालालवह्निविरोधात् पालालत्वसिद्धिर- प्यर्थापत्तिरेव स्यादित्याह अन्यथेति । तेनैव, परभागवह्निर्नैवेत्यर्थः । ननु केवलव्यतिरेकिणि प्रकाशिका । कविोधज्ञानशान्तिः तत्र विषयभेदकल्पनयैवेति व्याप्तिरेवेत्यनुमानादेव विषयभेदकल्पनापीति नार्था- पत्तिरित्यर्थः । सामान्येति । पर्वतसामानाधिकरण्यमात्रेण वह्निग्राहकमानस्येत्यर्थः । विशेषत इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च तत्र ज्ञानं न कारणमिति भावः । वह्निमानित्यनुमानं व्याप्तिरिति स्यैवार्थान्तरमुत्तरपदेनोक्तमत्रेति भ्रमनिरासायाह अर्वाग्भागेति । यद्यपि प्रमाणयोरेव विरोधः परेणार्थापत्तित्वाभिमतो न च प्रकृते तथा, तथापि व्याप्तिज्ञानसत्वेपि प्रमाणयोश्चेद्विरोधः अर्थापत्तिः स्यादित्यविरोधान्तरमपि तथा स्यादित्याशयेनेदमुक्तमिति ध्येयम् । मकरन्दः । नुमानादेव विषयभेदकल्पनाऽपीति नार्थापत्तिरित्यर्थः । सामान्येति । पर्वतो वह्निमानिति सामा- न्यतो ग्राहकस्येत्यर्थः । विशेषत इति । अर्वाग्भागावच्छेदेनेत्यर्थः । न विरोध इति । तथा च कुतस्तज्ज्ञानं करणमिति भावः । ननु वह्निमानित्यमित्यादि पूर्वपक्षे प्रथमं नार्थापत्त्यन्तरमुक्तं, तथा च नाप्युत्तरेत्यसङ्गतमत आह अर्वाग्भागेति । यदि चेति । यद्यपि प्रमाणयोरेव विरोधस्तथा- त्वेन परामिप्रेतः प्रकृते च न तथा, तथापि यत्रापि व्याप्तिस्तत्र मानान्तरकल्पने विरोधान्तरस्यापि
तृतीयस्तवके ] : अर्थापत्तेर्बाधकत्वखण्डनम् । ४२५ पालालत्वस्थितिरप्यर्थापत्तिरेव स्यात् । तद्विशिष्टस्य तेनैव व्याप्तेर्नैवमिति चेत् । यद्येवमर्वाग्भागानुपलभ्यमानवह्नित्वेन विशिष्टस्य धूमस्य तेनैव व्याप्तेः कथमर्वा- भविष्यतीति तुल्यम् । केवलव्यतिरेक्यनुमानं पराभिमतमर्थापत्तिरन्वयाभावादिति चेत् । एवं तावता विशेषेणानुमानेऽर्थापत्तिव्यवहारं न वारयामः । तत्रानुमानव्य- वहारः कुत इति चेत् । अविनाभूतलिङ्गसमुत्पन्नत्वात् । साध्यधर्मेण विना ह्यभव- नमन्वयिन इव व्यतिरेकिणोऽप्यविशिष्टं, तन्निश्चयश्चाऽन्वयव्यतिरेकाभ्यामन्यतरेण बोधनी । तद्विशिष्टस्य इति । तर्हि विशिष्टस्य धूमस्य वह्निना परभागवर्तिना व्याप्तिर्भवन्ती परभागव्यव- स्थितिव्वा कथमर्थापत्तिः स्यादित्याह यद्येवम् इति । ननु यत्केवलव्यतिरेक्यनुमानत्वेन नैयायिका- नामभिमतं तदेव नोऽस्माक्रमर्थापत्तिरन्वयव्याप्त्यभावेन तस्यानुमानत्वायोगात् इत्याह केवलव्य- तिरेकीति । अस्त्वन्वयो नास्तीत्येतावता विशेषेणार्थापत्तिव्यवहारः, न तावताऽनुमानत्वहानि- रित्याह एवम् इति । तत्र केवलव्यतिरेकिणि असत्येवान्वये किंनिबन्धनमनुमानत्वमित्याशङ्कयाह अविनाभूतेति । अविनाभावेन तन्निश्चयेन च मामकं ह्यनुमानं केवलव्यतिरेकिणि चाविनाभा- वस्तन्निश्चयश्चास्तीत्यनुमानमेव, केवलमेतावान् विशेषः अन्वयव्यतिरेकिणि लिङ्गेऽन्वयव्यतिरेकाभ्यां- प्रकाशः । साध्यसाधनाभावयोर्व्याप्तिरन्वयस्य पक्षधर्मत्वमिति न व्याप्तस्य पक्षधर्मतेत्यनुमानाभावेऽर्थापत्तिः स्यादित्याह केवलैति । व्यतिरेकव्याप्तावपि पक्षधर्मस्यान्ययस्य गमकत्वम् । न चातिप्रसङ्गः । प्रतियोग्यनुयोगिभावस्य नियामकत्वात् । तथा चानुमितिसामग्र्यस्त्येव, परिभाषा त्वंपर्यनुयोज्ये- त्याह एवमिति । वस्तुतो व्यतिरेकयोः संचारादन्वययोरेव व्याप्तिः, प्रतियोग्यनुयोगिभावस्य नियामकत्वादिति व्याप्तस्य पक्षधर्मत्वमस्त्येवेति भावः । अन्यतरेण वेति । केवलान्वयिव्यतिरेकि- णोरित्यर्थः । ननु ज्योतिःशास्त्राद् देवदत्तस्य शतवर्षजीवित्वे ज्ञाते, अथ शतवर्षजीवो गृह एवेति नियमे प्रत्यक्षेण निषिद्धे, पश्चाद् योग्यानुपलब्ध्या निश्चिते गृहाभावो जीवननियमग्राहकसामग्र्योर्बलाबलानि- रूपणाद् बहिःसत्त्वकल्पनां विना नियमद्वयविषयं संशयं जनयित्वा, जीवनसंशयमापाद्य, तदपनुत्तये जीवनोपपादकं बहिःसत्त्वं कल्पयति, यथोक्तसामग्र्यनन्तरं बहिरस्तीति प्रतीतेः । तत्रान्वयव्य- तिरेकाभ्यां जीवनसंशय एव करणम् । जीवित्वाल्लिङ्गविशेषणसन्देहेऽनुमानाभावात् । यथोक्तसामग्री- प्रभवसंशयस्य च कल्पनाङ्गत्वान् स्थाणुपुरुषसंशयस्य मृतजनिष्यमाणयोर्गृहाभावनिश्चयस्य च तादृ- शसंशयाजनकस्य नैककोटिनिर्वाहकबहिःसत्त्वकल्पकत्वम् ॥ अथ जीवननियमग्राहकमानयोस्तुल्यबलत्वज्ञाने विशेषादर्शनान्न वहिःसत्त्वकल्पनो, एकस्य बलवत्त्वाज्ञाने च तेनान्यस्य बाध एवेति न संशयः । तस्माज्जीवनगृहाभावयोर्निश्चय एव वहिःसत्त्वं कल्प्यते, न तु जीवनसंशये इत्यनुमानादेव बहिःसत्त्वसिद्धिः ॥ तन्न । योग्यानुपलब्धिजनितो गृहाभावनिश्चयः सुदृढ इति जीवननियमग्राहकयोरेकं बाध्यं, विरुद्धयोरमानत्वात् । तदिह मरणं कल्पयित्वा जीवनग्राहकं बाध्यतामुत बहिःसत्त्वं कल्पयित्वा मकरन्दः । तथात्वं स्यादित्याशयेन तदुक्तमिति ध्येयम् । तथा चार्थपत्तिकल्पितमित्यत एवकारो भिन्नक्रमः । तथा च तस्यां दशायां मानान्तराभावादर्थापत्तिकल्पितं जीवित्त्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमा- नाद्वहिःसत्त्वज्ञानं त्वयाऽपि वाच्यम्, एवञ्चावश्यकतयाऽर्थापत्त्यैव वहिःसत्त्वनिश्चयोऽस्तु, कृतम- न्तरा जीवित्त्वनिश्चयेनेति तर्कशरीरमेवेदं द्रष्टव्यम् । तेन संशयस्य वहिःसत्त्वकल्पकत्वादिति नोप- संहारविरोधः, न वा जीवित्त्वस्यार्थापत्तिकल्प्यतोपवर्णनेऽपसिद्धान्त इति । ५४ न्या० कु०
४२६ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १९ कारिकाव्याख्यायां वेति । तस्मादर्थापत्तिरित्यनुमानस्य पर्यायाऽयं तद्विशेषवचनं वा पूर्ववदादिवदिति युक्तम् ॥ १९ ॥ बोधनी । मविनाभावो निश्चीयते, नत्वन्वयिन्यन्वयेनैव व्यतिरेकिणि व्यतिरेकेणैवेति अर्थापत्तेरनुमानान्त- र्भावमुपसंहरति तस्मात् इति ॥ प्रकाशः । नियमग्राहकम् ? । तत्र वहिसत्त्वकल्पने गृहनियमग्राहकमात्रबाधा, मरणकल्पने तु शतवर्षजीवी देवदत्तः, शतवर्षजीवी गृहे एवेति नियमद्वयस्य बाधः स्यात् । तथा चार्थपत्तिकल्पितं जीवित्वमु- पजीव्यानुमानादेव बहिःसत्त्वज्ञानं भविष्यतीत्येतावत्तर्कसहितस्य यथोक्तसामग्रीप्रभवसंशयस्य बहिः- सत्त्वकल्पकत्वात् । न च तस्यां दशायां मानान्तरमस्ति, ततोऽर्थापत्तिसहकारित्वं तर्कस्य । यत्र च मृतेः गृहस्थिते वा तादृशसंशयाद्वहिःसत्त्वकल्पना, तत्र जीवननियमग्राहकयोरन्यतराभासत्वं, परोक्षज्ञानस्य जनकज्ञानाप्रमात्वेनाप्रमात्वनियमात् ॥ अत्राहुः-देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वादिति सामान्यतोदृष्टमभावरूपमरणापे- क्षया जीवनं भावरूपं विषयीकरोति लाघवादिति तत्रैव लाघवं सहकारि ! तथाहि-यथोक्तसंशयद- शायां जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति तर्कानन्तरमेव बहिःसत्त्वज्ञानमित्यविवादम् । तन्न कॢप्तप्रमाणभावे सामान्यतोदृष्ट एव लाघवं सहकारि, न तु कल्पनीयप्रमाणभावे यथोक्तसंशये, गौरवात् । 'यच्चोक्तं-'मरणकल्पने शतवर्षावच्छिन्नजीवी गृह एवेत्यस्यापि बाध' इति । तत्र विशिष्टबाधो विशेष्यबाधात् ० मरणेऽपि जीवी गृह एवेत्यस्य विशेष्यस्याबाधात् ० किन्तु विशेषणबाधात् । स च शतवर्षजीवित्वबाध एव । विशेषणाभावायत्तो विशिष्टाभावोऽप्यऽस्तीति चेन्न ! विशेष्यवति विशिष्टाभावस्य विशेषणाभावात्मकत्वादिति सङ्क्षेपः । पूर्ववदादिवदिति । त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टम् (न्याय० १. १. ५) इति सूत्रे पूर्ववदादिरनुमानविशेष उक्तः ॥ १९ ॥ प्रकाशिका । ततोऽर्थापत्तिकल्पितमिति । एवकारो भिन्नक्रम उपजीव्येत्यत्रान्वेति, तथा च मानान्तरा- भावेऽर्थापत्त्या जीवित्वलिङ्गविशेषणत्वनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वया वाच्यं तद्वरं अर्थापत्यैव बहिःसत्त्वनिश्चय इत्येव स्वीक्रियतां लाघवाय कृतमर्थान्तराजीवित्वज्ञानेनेति तर्कशरीरमेव सर्वमिदं द्रष्टव्यम्, अन्यथा यथाश्रुते संशयस्य बहिःसत्त्वकल्पकत्वादित्युपसंहारविरोघो जीवित्वस्यार्थापत्तिविष- यत्वेऽपसिद्धान्तश्चेति दोषापत्तेः । तत्र जीवनेति । अत्र नियमग्राहकपदेन गृहाभावग्राहकमेवोक्तम् । क्वचित् पाठः-जीवनगृहाभावग्राहकयोरिति । स तु सुगम एव ॥ १९ ॥ मकरन्दः । जीवननियमेति । गृहे नास्त्येवेति नियमग्राहकमत्रोक्तम् । अत एव जीवनगृहाभावग्राहक- योरित्येव क्व चित् पाठः ॥ १९ ॥ टिप्पणी । तथा चार्थपत्तिकल्पितं जीवित्वमिति । अत्र एवकारो भिन्नक्रमः । तस्यां दशायां मानान्तराभावादर्थापत्तिकल्पितं जीवित्वमुपजीव्यैव लिङ्गविशेषणनिश्चयेऽनुमानाद्वहिःसत्त्वज्ञानं त्वयापि वाच्यम्, एवञ्चावश्यकतयाऽर्थापत्त्यैव बहिसत्त्वनिश्चयोऽस्तु कृतं तथा जीवित्वनिश्चयेनेति तर्कशरीरमे- वेदं द्रष्टव्यम् । तेन संशयस्य बहिसत्त्वकल्पकत्वादिति नोपसंहारविरोधः, न वा जीवित्वस्यार्थापत्ति- कल्पनोपवर्णनेऽपसिद्धान्त इति । यथोक्तसंशये गौरवादिति । तथाचोक्तानुमानेन जीवित्वनिश्चये तद्विशेषितगृहासत्त्वेन बहिसत्त्वानुमानसम्भवादर्थापत्तिर्न मानान्तरं कल्प्यमिति भावः ॥ १९ ॥
Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari Markdown:
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४२७ अनुपलब्धिस्तु न बाधिकेति चिन्तितम् । न च प्रत्यक्षादेरतिरिच्यते । तदुच्यते- प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्याानुपक्षयात् । अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ २० ॥ या हि साक्षात्तारिणी प्रतीतिः सेन्द्रियकरणिका, यथा रूपादिप्रतीतिः । तथैहं- बोधनी । एवमर्थापत्तिर्न बाधिका न भिद्यते चानुमानादित्युक्तम् । अनुपलब्धेस्त्वबाधकत्वस्य चिन्ति- तत्पूर्वत्वादन्तर्भाव एवं चिन्तनीय इत्याह अनुपलब्धिस्तु इति । तत्तर्विदिह भूतले घटो नास्तीति प्रतीतेरि न्द्रियकत्वे चतुरो हेतूनुपन्यस्यति प्रतिपत्तेरिति । विप्रतिपन्ना प्रतीतिरिन्द्रियकरणिक अपरो- क्षरूपत्वात् रूपादिबुद्धिवदिति । अनन्यथोपक्षीणेन्द्रियान्वयव्यतिरेकानुविधायित्वात् अज्ञातकरणत्वाच्च । तथेयं प्रतीतिर्भावात्मप्रमाणसहकृतेन मनसा जायते वाह्यार्थानुभवत्वात् । भावरूपं च प्रमाणमिन्द्रिय- मेव परिशिष्यत इति भावः । भावावेशो भावप्रमाणसहकार इति । तत्राद्यं हेतुं विवृणोति या हि प्रकाशः । अनुपलब्धिस्तु स्वरूपसती परमात्मनो योग्यत्वाभावान्न बाधिका, ज्ञाताऽप्यनुमानरूपतया न बाधिका, अनुमानबाधकत्वस्य निरस्तत्वादित्याह- अनुपलब्धिस्त्विति । घटोपलम्भे घटाभावाज्ञानादनुपलब्धिरवश्यं हेतुरिति सैव करणमाव- श्यकत्वात् । न च प्रतियोग्यनुपलब्धिमात्रं न करणं, प्रतियोगिज्ञानस्याभावधीहेतुत्वात्, नाऽपि प्रतियोगिसत्त्वप्रमाविरहः, अत्यन्ताभावग्रहे तदप्रसिद्धेरिति वाच्यम् । यादृश्यास्त्वैन्द्रियसहका- रित्वम् , तादृश्याः करणत्वात् , न तु इन्द्रियमपि तत्करणं, गौरवादिति प्रसङ्गागतं निरस्यति न चेति । अभावस्य यथायथं प्रत्यक्षादिगम्यत्वादित्यर्थः । तत्र प्रत्यक्षगम्यत्वे मानमाह प्रतिपत्तेरिति । जन्यापरोक्षज्ञानस्येन्द्रियजन्यत्वनियमादित्यर्थः । तंत्र चान्वयव्यतिरेकतया योग्यानुपलब्धेः सहकारित्वं न निषिद्धयते इति भावः । इन्द्रियस्येत्यादि । इन्द्रियव्यापारस्यानन्यथासिद्धत्वादज्ञातकरणजन्यज्ञानत्वाच्चेत्यर्थः । भावावेशाच्चेति । अस्मदा- दिवाह्यानुभवस्य भावभूतकरणसचिवमनोजन्यत्वनियमादित्यर्थः । इन्द्रियकरणिकेति । यद्यप्यत्र मनसा सिद्धसाधनम् । न चेन्द्रियत्वेन तज्जन्यत्वं साध्यम् । प्रकाशिका । नापीति । अधिकरणविशेष्यकप्रतियोगिसत्त्वप्रमाविरहकरणमित्यर्थः, तेन नानाधिकरणान्तरे ति- योगिमत्वप्रमायामप्यभावधीः। प्रमापदञ्चाहार्यज्ञाननिवारणाय । अत्यन्तेति । वायौ रूपाभावप्रतीति- स्थले प्रतियोग्यप्रसिद्धेरित्यर्थः । न चाधिकरणे तादृशप्रमाविशेष्यत्वाभावः करणं समवायाभावस्थले प्रतियोग्यप्रसिद्धेः, न चाधिकरणविशेष्यकानाहार्य्यतादृशज्ञानाभावः तथा, तथा च तादृशभ्रममादाय सङ्गतिरिति वाच्यम् । यंत्राधिकरणे स्वस्य न तादृशो भ्रमस्तदधिकरणे तदभावग्रहापत्तेः, स्वीयत्वस्याज्ञानविशेषणत्वात् , अन्यथा पुरुषान्तरीयं भ्रमदशायामभावग्रहापत्तेरिति दिक् । तादृश्या इति । तथा च स्वीयतत्तत्कालीनाधिकरणज्ञानेऽनाहार्यप्रतियोगिसत्त्वप्रकारकत्वाभावः करणमिति मकरन्दः । नापीति । अधिकरणे इति शेषः । अत एवाह अत्यन्तेति । वायौ रूपान्त्यन्ताभावग्रहे अधिकरणे प्रतियोगिप्रमाऽसिद्धेरित्यर्थः । गौरवादिति । उभयकारणकल्पने गौरवादित्यर्थः ।
भूतले घटो नास्तीत्यपि। साक्षात्त्वमस्या असिद्धमिति चेन्न। एकजातीय- त्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः। न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञात- मज्ञातञ्चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गाज्ज्ञानस्याकारणत्वप्रस- ङ्गाच्च। न हि तदतिपत्त्यापि भवतस्तत्कारणत्वं, व्याघातात्। तस्माज्ज्ञातानु- पलब्धिजन्यस्यासाक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्यम्॥
बोधनी। इति। प्रतिज्ञायासिद्धो हेतुरित्याह-साक्षात्कारित्वम् इति। न इति। नास्तीति बुद्धयः काश्चिदज्ञातकरणिकाः, काश्चिद् ज्ञातकरणिकाः, तत्र यद्युभयेऽप्यसाक्षात्कारजातीयाः तत इदं कारणवैचित्र्यं न स्यादिति। विपर्ययेऽनिष्टमाह लिङ्गेति। असाक्षात्कारिज्ञानजनकस्यापि लिङ्गस्य सत्ताया हेतुत्वं साक्षात्कारहेतोरपीन्द्रियस्य ज्ञायमानतया हेतुत्वं च प्रसज्येतेति। किं च यद्यज्ञातादपि करणाज्जातीयमेव ज्ञानं जायेत तदा तत्र कारणमेव तज्ज्ञानं भवेत् व्यतिरेकाभावादित्याह ज्ञानस्य इति। यत एवं तस्माज्ज्ञातानुपलब्धिजन्यस्यासाक्षात्कारित्वमभ्युपगच्छतामवश्यमज्ञातानुपलब्धिज- न्यस्य साक्षात्कारित्वमवर्जनीयमित्याह तस्मात् इति।
प्रकाशः। साक्षात्प्रतीतिकरणस्यैवेन्द्रियतया तेनैव तदनवच्छेदादात्माश्रयात्। तथापि रूपाभावादिप्रतीतेर्ब- हिरिन्द्रियान्तरराजन्यबहिर्विषयकजन्यसाक्षात्कारित्वाच्चाक्षुषत्वादित्वं साध्यमिति भावः। अनुपलब्धेरपि ज्ञातानुपलब्ध्यन्तरगम्यत्वेनानवस्थानात् क्वचिदज्ञाता चैव करणमुपेयेत्यशियेनाह एकैति। अज्ञातकर- णकानुभवत्वं साक्षात्त्वव्यवस्थापकम्, अतः स्मृतेरज्ञातकरणकत्वेऽपि न तदिति भावः। यदि च नैवं, तदा लिङ्गमपि साक्षात्कारमिन्द्रियमप्यनुमिति जनयेदित्याह लिङ्गेति। ज्ञातकरणकत्वं ज्ञान- करणकत्वं लिङ्गादेरजनकत्वादिति व्यभिचारादभावज्ञाने तत्करणं न स्यादित्याह ज्ञानस्येति। तद्विपरीतेति। अज्ञातयोग्यानुपलब्धिकरणकं साक्षात्कारजातीयमित्यर्थः। ननु आङ्गनास्तितायामिन्द्रियं
प्रकाशिका। भावः। साक्षादिति। तथा चेन्द्रियत्वं न साक्षात्कारिकारणतावच्छेदकमात्माश्रयादिति साध्या- प्रसिद्धिरिति भावः। स्मृत्यजनकज्ञानकारणमनःसंयोगाश्रयत्त्वादिना तन्निर्वचने यद्यपि नोक्तदोषः, तथापि समाधिसौलभ्यादाह तथापीति। रासनसाक्षात्कारे व्यभिचार इत्यजन्यान्तम्। अत्रापि अप्रसिद्धिवारणाय बहिःपदम्। सुखादिसाक्षात्कारे व्यभिचार इति बहिर्विषयकेति। ईश्वरज्ञाने व्यभिचार इति जन्यपदम्। तच्च लौकिकपरमन्यथोपनीतघटादिगोचरमानससाक्षात्कारे व्यभि- चारात्। यद्वा बहिर्विषयजन्यसाक्षात्कारत्वं हेतुः, स्वार्थे कन्प्रत्ययः। अस्तु सर्वत्र ज्ञातेवानुपलब्धिः कारणमत आह अनुपलब्धेरपीति।
मकरन्दः। साक्षादिति। तथा चेन्द्रियत्वं न साक्षात्प्रतीतौ कारणतावच्छेदकमात्माश्रयादिति तत्साधने बाध इति भावः। यद्यपि स्मृत्यजनकज्ञानकारणमनोयोगाश्रयत्त्वादिना तन्निर्वचने नोक्तदोषः, तथापि समा- धिसौकर्यादाह तथापीति। अत्र रासनप्रत्यक्षे व्यभिचारवारणायाजन्यान्तम्। एतच्च रूपाभाव- बुद्धौ चाक्षुषत्वसाधने रसाभावबुद्धौ रासनत्वसाधने चाक्षुषप्रत्यक्ष एव तद्वारणीय तदित्यवधेयम्। अप्रसिद्धिवारणाय प्रथमबहिःपदम्। मनोमात्रकरणके व्यभिचारादाह बहिर्विषयकेति। ऐशे व्यभिचारादाह जन्येति। अनुमित्यादौ व्यभिचारादाह साक्षात्कारित्वादिति। न चोपनीतवि- षये मानसप्रत्यक्षे व्यभिचारः, जन्यपदेन लौकिकत्वस्य विवक्षितत्वात्। वस्तुतो बहिर्विषयकजन्ये- त्यत्र स्वार्थिककन्प्रत्ययाद्वहिर्विषयजन्यत्वं विवक्षितम्, तस्य च विषयाजन्यत्वादिति। नन्वस्तु तर्हि सर्व्वत्र ज्ञातेवानुपलब्धिः करणमित्यत आह अनुपलब्धेरपीति। सामान्याभावेन उपलम्भसामा-
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४२६ ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति । तद् यथा निपुणतरमनुसृतौ मया मन्दिरे चैत्रो न चोपलब्ध इति श्रुत्वा श्रोताऽनुमिनोति, नूनं नासीदेवेति । एतेन प्राङ्नानास्तिताऽपि व्याख्याता । ननु तथाप्यवान्तर- जातिभेदोऽस्तु अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्। कारणविरोधात्- बोधनी। स्यादेवं यदि ज्ञातानुपलब्धिः क्वचिदसाक्षात्कारं जनयेत्, न चैवमस्तीत्याशयेनाह ननु क्व नाम इति । तत्रोदाहरणनोत्तरयति तद्यथा इति । न हि तदा देशान्तरस्थस्य श्रोतुर्योग्यानुपलब्धिरस्ति किं त्वाप्तवाक्यावगतयाऽनुमिनोतीति । एवं प्रातः कालेऽनुपलब्धस्य मैत्रस्य मध्यन्दिनसमयभाविप्रातस्त- नाभावज्ञानमप्यनुमानफलमेव मध्यन्दिनानुसंवीयमानप्रास्तनानुपलब्धिलभ्यत्वादित्याह एतेन इति । नन्वस्तु ज्ञातानुपलब्धिजन्यादज्ञातानुपलब्धिजन्यस्य जातिभेदः स तु साक्षात्काररूप इति कुत इत्याह ननु इति । न हि विधाद्वयव्यतिरेकेण ज्ञानावान्तरजातिभेद इत्यभिप्रायेणाह कारणविरोधा- प्रकाशः। विनाप्यभावधीरिति व्यभिचारादिन्द्रियमकरणमित्यत आह एतेनेति । यथा शब्दावगतानुपलब्ध्या लिङ्गेनाभावानुमानं, तथा प्राङ्नास्तितास्थलेऽप्यभावधीर्लिङ्गजेत्यर्थः । ननु तत्रास्मरणं न लिङ्गं, न हि यावदनुभूतं तावदेव ग्रहणयोग्यमपि स्मर्यत एवेति नियम इति, मैत्रस्य तद्गेहसत्त्वेऽप्यननु- भवात् संस्कारानुत्पादात्तदनुद्बोधाद् वा तदस्मरणस्योपपत्तेः । न । कश्चिद्विषयविशेष एव हि तादृशो यो गेहादिनिष्ठतया अनुभूयत एव, तदनुभवेन च संस्कारो जन्यत एव, स च न नश्यति । नाऽपि तदुद्बोधकान्तरापेक्षा । विलक्षणविषयविशेषमाहात्म्यात् । यथा श्रीविश्वनाथायतने भगवन्तं श्रीविश्वनाथमनुभवतः, तथा मैत्रमपि प्रेक्षम् । प्रयोगश्च-तद्गेहं तदा मैत्राभाववत् तत्तुल्यपरिमाण- घटादिस्मरणेऽपि तद्गतया अस्मर्यमाणत्वात्, यदेवं तदेवं, यथा पटाभाववद् भूतलमिति । स्मरणाभावश्च संयुक्तविशेषणतया मनोवेद्य एवेति भावः । केचित्तु यत्र सामान्याभावेन लिङ्गेन विशेषाभावानुमानं, तत्र ज्ञातानुपलब्धिरनुमानाङ्गमिति तत्परोऽयं ग्रन्थ इत्याहुः । ननु ज्ञातानुपलब्धेरसाक्षात्कारजनकत्वेऽप्यज्ञातानुपलब्धिजन्ये अवश्यं साक्षात्कारित्वमिति न नियमो वैजात्यान्तरेणाप्युपपत्तेरित्याह नन्विति । सर्वत्र असाक्षात्कारित्वस्य ज्ञायमानकरणजन्यत्व- व्याप्तैस्तन्निवृत्तावसाक्षात्कारित्वव्यावृत्तेरवान्तरजातिः साक्षात्कारित्वमेवेत्याह कारणेति । न च साक्षात्कारित्वमिन्द्रियजन्यत्वप्रयुक्तमेवेति वाच्यम् । ज्ञातेन्द्रियसन्निकर्षजेन्द्रियगतिज्ञानस्य साक्षा- प्रकाशिका। कैश्चिदिति । उपलम्भसामान्याभावेन यत्रोपलम्भविशेषाभावानुमानं तत्रैव ज्ञातानुप- लब्धेः कारणत्वमिति इत्यपि दूषणान्तरमाहेत्यर्थः । मकरन्दः। न्याभावेन विशेषाभावानुमानमित्यर्थः । इन्द्रियजन्यत्त्वेति । इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः । तेन नोत्तरविरोधः । इन्द्रियविशिष्टसन्निकर्षहेतुत्वे इन्द्रियहेतुत्वमपीति न विरोध इत्यन्ये । ज्ञायमानक- रणत्वमाश्रित्याह ज्ञातेन्द्रियेति । चक्षुर्गतिमत् गतिशून्यसंयोगित्वादित्यनुमितेरित्यर्थः । नन्वेवम- साक्षात्कारित्वमपि तत्र न स्यादिन्द्रियसन्निकर्षान्यकरणस्य तत्र प्रयोजकत्वादित्यत आह टिप्पणी। तत्परोऽयं ग्रन्थ इत्याहुरिति । एतेनेत्यादिग्रन्थः प्राङ्नास्तिता च, गृहविशेषे चैत्रोपलब्धेः अहं गृहविशेषे तदा चैत्रोपलब्ध्यभाववान् , चैत्रोपलब्धेरभावात् मया चैत्र एव कदापि नोपलब्धः गृहे तदुपलब्धेः का कथा इत्यभिसन्धिः ।
४३० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २० कारिकाव्याख्यायां कार्यविरोधेन भवितव्यमित्युक्तमेव । अनन्यथोपक्षीणेन्द्रियव्यापारानन्तरभा- वित्वाच्च । अधिकरणग्रहणे तदुपक्षीणमिति चेन्न । अन्धस्यापि त्वगिन्द्रियो- पनीते घटादौ रूपविशेषाभावप्रतीतिप्रसङ्गात् । अस्ति हि तस्याधिकरणग्रहणम्, अस्ति च प्रतियोगिस्मरणम्, अस्ति च श्यामे रक्तत्वस्य योग्यस्याभावोऽनुपल- ब्धिश्च । अधिकरणग्राहकेन्द्रियग्राह्याभाववादिनोऽपि समानमेतदिति चेन्न । प्रति- योगिग्राहकेन्द्रियग्राह्योऽभाव इत्यभ्युपगमात् । ममापि प्रतियोगिग्राहकेन्द्रियगृही- तेऽधिकरणे अनुपलब्धिः प्रमाणमित्यभ्युपगम इति चेन्न । वायौ त्वगिन्द्रियोप- बोधनी । दिति । द्वितीयं हेतुं विवृणोति अनन्यत्र इति । विशेषणासिद्धिमाशङ्कते अधिक- रणेति । यथा हि धूमज्ञानोपक्षीणेन्द्रियव्यापारानन्तरभाविनो वह्निज्ञानेन्द्रियहेतुत्वं तथा- ऽधिकरणग्रहणोपक्षीणेन्द्रियव्यापारानन्तरभाविनो भावज्ञानस्यातद्धेतुत्वमिति, तर्ह्यन्धस्यापि साम- ग्रीसाकल्याद्रूपाभावप्रतीतिः स्यादित्याह न इति । योग्यस्य स्थूलद्रव्यसमवेतत्वादिति । ननु भव- न्तोऽप्यधिकरणग्राहकेणेन्द्रियेण ग्राह्योऽभाव इति मन्यन्ते, तत्र चान्धस्य त्वगिन्द्रियेण रूपविशेषा- भावप्रतीतिः प्रसज्येतेत्याह अधिकरणेति । न इति । ततश्च चाक्षुषरूपप्रतीतिर्नान्धस्य स्या- दिति । ममापि इति । ततश्च चाक्षुषाधिकरणग्रहणाभावान्नान्धस्य रूपविशेषाभावप्रतीतिरिति । ने प्रकाशः । त्कारित्वप्रसङ्गात् । असाक्षात्कारित्वस्य च साक्षात्कारिभिन्नज्ञानरूपत्वात् । अनुभवत्वेन साङ्क- र्यापत्त्या जातित्वाभावादिति भावः । न चेन्द्रियजत्वं साक्षात्कारित्वप्रयोजकं, प्रकृतेऽपि तत्त्वा- दित्याह अनन्यत्रेति । ननु प्रतियोगिज्ञानस्येवाश्रयज्ञानस्याप्यभावधीहेतुत्वमिति तत्रैवेन्द्रियम- न्यथासिद्धमिति विशेषणासिद्धो हेतुरित्याह अधिकरणेति । अधिकरणधीरेन्द्रियव्यापारो न तर्या तदन्यथासिद्धम्, अन्यथा सन्निकर्षोपक्षीणमिन्द्रियं घटग्राहकमपि न स्यादित्याह अन्धस्येति । ममापीति । प्रतियोगिग्राहकेन्द्रियेणाश्रयाग्रहे योग्यानुपलब्ध्या नाभावो गृह्यते । न चान्धस्य रूप- ग्राहकेन्द्रियेण घटादिग्रहः । अत एव चक्षुःसंयुक्ते पृथिवीपरमाणौ न जलत्वाद्यभावधीप्रसङ्ग इत्यर्थः । धायाविति । वायोः प्रतियोगिग्राहकचक्षुरग्राह्यत्वादित्यर्थः । ननु यथा तव नीरूपो वायुरिति वायुविशेष्यिका धीरानुमानिकी विशेष्ययोग्यतामाश्रित्येन्द्रियाणां प्रवृत्तेः, तथा वायौ रूपाभावविशेष्यिकाऽपि धीर्ज्ञातानुपलब्धिलिङ्गजन्याऽनुमितिरेव, तथा च या धीः साक्षात्कारित्वेन त्वदभिमता, तस्यामुक्ता सामग्रीति नोक्तदोषः । न चाभावज्ञानस्य साक्षात्का- मकरन्दः । असाक्षात्कारित्वस्येति । तथा च साक्षात्कारित्वप्रयोजकस्याज्ञातकरणत्वस्याभावादेव तत्र तदुपपद्यते इति भावः । ननु परोक्षत्वमसाक्षात्कारित्वमित्येकं, तच्च जातिरूपं, न तूक्तोपाधिरूपमित्यत आह अनुभवत्वेनेति । स्मृतेरपि परोक्षत्वादिति भावः । एतच्चोपलक्षणम् — तज्जातित्वेऽपि ज्ञायमान- करणप्रयोज्यत्वाभ्युपगमे गत्यनुमितौ तदुपपद्यत एवेत्यपि बोध्यम् । न चेति । इन्द्रियत्वेनेन्द्रिय- जन्यत्वमित्यर्थः । तथा चेन्द्रियाजन्यतया असाक्षात्कारित्वमिति भावः । अत्रासिद्धिमाह प्रकृतेऽ- पीति । तत्त्वादिरिन्द्रियजन्यत्वादित्यर्थः, अन्यथा यथाश्रुते विरोधापत्तेः । ननु वायोरतीन्द्रियतया त्वगिन्द्रियोपनीत इत्ययुक्तमत आह वायोरिति । तथा चेति । यद्यपि वायौ रूपाभावविशेष्यिका धीः साक्षात्कारित्वेन त्वदभिमतेव तत्र च नोक्ता सामग्री, तथापि साक्षात्कारित्वेन त्वदभिमतेत्यस्या- टिप्पणी । तथा च या धीः साक्षात्कारित्वेन त्वदभिमतेति । यद्यपि वायौ रूपाभावविशेष्यिका
तृतीयस्तवके ] अनुपलब्धेर्मानन्तरत्वखण्डनम् । ४३१ नीते रूपाभावप्रतीत्यनुदयप्रसङ्गात् । तथापि तत्तत्र सन्निकृष्टमिति चेत् । हन्तैवंम- नन्यत्र चरितार्थमिन्द्रियमवश्यमपेक्षणीयं रूपाभावानुभवेन ॥ स्यादेतत् , तथापि वस्त्वन्तरग्रह एव तस्योपयोग इति चेन्न । तस्य तं प्रत्य- बोधिनी । इति । प्रतियोगिग्राहकेण चक्षुषा वायोरग्रहणात्तत्र रूपाभावप्रतीतिः कदाचिदपि न स्यादिति । नन्वगृह्णदपि चक्षुर्वायौ यावत्सन्निकृष्टं तावता रूपविशेषस्यानुपलब्धिरभावं गमयतीत्याह तथापि इति । हन्तैवम् इति । वायोरग्रहणाभावादनन्यत्र चरितार्थता त्वन्धस्य च रूपाभावप्रतीत्यभावा- दवश्यमपेक्षणीयत्वं चक्षुष इति । ननु मा भूदधिकरणग्रहणोपक्षयस्तथापि तत्र संनिहितस्य यस्य कस्यचिद्वस्तुनो ग्रहण एवोप- क्षीयत इत्याह स्यादेतत् इति । न इति । अत्र ह्यन्वयव्यतिरेकानुविधाने सत्येवाभावबुद्धेरनिन्द्रि- प्रकाशः । रित्वेनेन्द्रियजन्यत्वं, स्मृतिवत्तस्य परोक्षत्वात् । मैवम् । घटाभावबुद्धेरपि साक्षात्कारित्वेनाभिम- ताया योग्यानुपलब्धिलिङ्गजन्मत्वापत्तेः । यदि च लिङ्गज्ञानेऽपि तदनुभवादज्ञातकरणिका सा, तदा वायौ रूपाभाव इति धीरपि तथा । किञ्च वस्तुतो घटवत्युपलब्धिप्राक्कालेऽनुपलब्ध्या घटस्मृति- मतः कुतो नाभावधीः ? घटाभावाभावादिति चेत् । हन्तैवमभावबुद्धेरर्थजन्यत्वात् प्रत्यक्षत्वसिद्धावि- न्द्रियजत्वमेव । अपि च प्रतियोगिसत्त्वविरोधिनी याऽनुपलब्धिः, सैव योग्यानुपलब्धिः, अतो जलपरमाणौ गन्धाभावो न प्रत्यक्षः, प्रत्यक्षश्च वायौ रूपाभावः, रूपानुपलब्धिज्ञापकस्याभावात् । तल्लिङ्गत्वमभावं च स्वयमेवाचार्यो वक्ष्यति । तथापीति । चक्षुषा वायोरग्रहेऽपि चक्षुर्वायुसन्निकृष्ट- मेवेति नाश्रयग्रहे तदुपक्षीणमित्यर्थः । नन्वाश्रयेत्यन्यमात्रोपलक्षणम्, अस्ति च वायुसन्निकृष्टस्येन्द्रियस्य तद्देशवृक्षादिप्रकाशकत्वमि- त्यन्यथासिद्धिरिवेत्याह— स्यादेतदिति । अन्धस्यापि रूपाभावप्रतीत्यापत्त्या न तावदिन्द्रियमभावज्ञाने अकारणमेव, किन्तु कारणव्यापकत्वेन परम्पराकारणं मन्तव्यम् । तथा सत्याह तस्येति । तस्य वस्त्वन्तर- मकरन्दः । ज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति वयम् । अन्यथा तु चिन्त्यम् । साक्षात्कारित्वेनेति स्वमते । यदि चेति । तथा च तत्र त्वदुक्तानुपलब्धिवैकल्यादनन्यगत्या इन्द्रियग्राह्य एवाभाव इति भावः । युक्त्यन्तरमाह किञ्चेति । प्रत्यक्षश्चेति । यद्यप्येवं स्वरूपसदनुपलब्धिग्राह्यत्वमात्रं सिद्ध्यति, तथापि पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वमुक्तमिति ध्येयम् । चक्षुषेति । तथा च प्रतियोगिग्राहकेन्द्रियेणा- टिप्पणी । धीः साक्षात्कारित्वेन नैयायिकाभिमतैव तत्र च न प्रतियोगिग्राहकेत्याद्यनुपलब्धिकरणज्ञानसामग्री, तथापि साक्षात्कारित्वेन त्वदभिमतेत्यस्याज्ञातानुपलब्धिजन्यत्वेनोभयसिद्धेत्यर्थ इति । अन्यथा तु चिन्त्यम् । स्मृतिवत्तस्य परोक्षत्वादिति । अज्ञातकारणजत्वेऽप्यपरोक्षत्वाभावात् । साक्षा- त्कारित्वेनाभिमंताया इति । अनुपलब्धिकरणकत्वेन । योग्यानुपलब्धिलिङ्गजत्वापत्ते- रिति । अनुपलब्धिज्ञानं कल्पयित्वा लिङ्गजन्मत्वेनानुमितित्वस्य वक्तुं शक्यतयाऽनुपलब्धेः कारण- त्वभङ्गापत्तेः । यदि च लिङ्गज्ञानेपीति । सर्वत्र ज्ञानकल्पने मानाभावात् । तदा वायौ रूपाभाव इति धीरपीति । तत्रापि सर्वत्रानुपलब्धिज्ञानकल्पने मानाभावात् । इति धीरपि तथेति । अनुमितिरेवेत्यर्थः ॥ २०-२१-२२-२३ ॥ इति श्रीमद्धर्मदत्तोपाध्याय ( प्रसिद्ध-बच्चाझा ) कृत।कुसुमाञ्जलितृतीयस्तवकटीप्पणी समाप्ता ।
४३२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २० कारिकाव्याख्यायां
कारणत्वात् , कारणत्वे वा महान्धकारे करपरामर्शेन स्पर्शवद्द्रव्याभावं न प्रती- यात् । प्रतीयाच्च पुरोविस्फारिताक्षः पृष्ठलग्नस्याऽश्यामत्वम् । आर्जवावस्थानम- प्यधिकरणस्योपयुज्यते इति चेत् , तर्हि नयनसन्निकर्षोऽप्युपयोक्ष्यते, तदेकस- हकारिप्रभासन्निकर्षापेक्षणात् । अन्यथा वातायनविवरविसारिकरपरामृष्टेऽप्यधि- करणे तदुपलम्भप्रसङ्गाच्च ॥ तथापि योग्यताऽऽपादनोपक्षीणश्चक्षुः । यदितरसामग्रीसाकल्ये ह्यनुपलभ्य- मानस्याभावो निश्चीयते । तच्च चक्षुष्यधिकरणसन्निकृष्टे सति स्यादिति चेत् । ननु परिपूर्णानि कारणान्येव साकल्यम् । तथा च किं कुत्रोपक्षीणम् । अथान्यो-
बोधनी । यहेतुकत्वमन्यत्र तदपक्षयादुच्यते, स चाभावबुद्धिहेतौ कस्मिंश्चिद्वक्तव्यः, अन्यथा तदनुविधाना- नुपपत्तेः, न चात्र तस्य वस्तुन्तरग्रहणस्य तदभावानुभवं प्रति कारणत्वमस्तीति, यदि स्यात्तत्राह कारणत्वे वा इति । अन्धकारे वस्त्वन्तरग्रहणाभावात्स्पर्शवद्विशेषाभावप्रतीतिर्न स्यात् इति प्रति- याच्चेति । प्रतिय गिग्राहकेण तदा तदालोके विस्फारिताक्षस्य वस्त्वन्तरग्रहणसंभवाच्चेति । उत्त- रत्र शङ्कते आर्जवेति । आर्जवावस्थानादधिकरणस्य नयनसंनिकर्षोऽपि तद्गताभावग्रहणएवो- पयुज्यते न तु तद्ग्रहण इत्यङ्गीकर्तव्यमित्याह नयनेति । कुत इत्यत्राह तदेक इति । आलो- कसंनिकर्षस्तावदपेक्षणीयो रूपाभावज्ञानेन तमन्तरेण तदनुपपत्तेः, स च तस्य नयनसंनिकर्षस्यैव सहकारी नानुलब्धयादेः, तस्मान्नयनसंनिकर्षोऽप्यपेक्षणीय एव, न हि संभवति यस्य यत्सहकारित- यैव कार्योपयोगस्तस्य तदनपेक्षायामप्यपेक्षेति । चक्षुःसंनिकर्षानुपयोगेऽनिष्टमप्याह वातायनेति । तत्र हि सत्येवाधिकरणस्यार्जवावस्थाने तद्ग्रहणे चक्षुःसंनिकर्षाभावादेव तस्य श्यामत्वाभाव- स्यानुपलम्भो भवति । नन्वस्त्वपेक्षणीयश्चक्षुः संनिकर्षस्तथाप्यन्यत्रोपक्षयस्तस्येत्याह अथापि इति । योग्यानुपल- ब्धिर्ह्यभावज्ञानहेतुः, योग्यता च प्रतियोगिव्यतिरिक्ताभावज्ञानकारणसाकल्यं, तच्च साकल्यं चक्षः संनिकर्षे सति भवति तस्यापि तत्कारणत्वात् । ततश्च सामग्रीसाकल्यापादनोपक्षीणं चक्षुर्नाभाव- वाज्ञानं यावत् गच्छतीति । न तु परिपूर्णानि इति । न खलु साकल्यं नाम कारणेभ्यस्तत्त्वान्तरं
प्रकाशः । ग्रहणस्य, तं प्रत्यभावानुभवं प्रतीत्यर्थः । न प्रतीयादिति । त्वगिन्द्रियेण वस्त्वन्तराऽग्रहादित्यर्थः । ननु प्रतीयत एवाकाशमत्रापि, तस्य तन्मते प्रत्यक्षत्वादित्यंत आह प्रतीयाच्चेति । आर्जवाव- स्थितेऽप्यन्धकारे ज्ञानाभावादालोकसन्निकर्षोऽपि हेतुरेष्यः, स च चक्षुषः सहकारी नान्यस्येति सिद्धं चक्षुः करणमित्यभिप्रेत्याह नयनेति । अथार्जवावस्थानेऽपि नालोकसन्निकर्षापेक्षा, तत्राह- वातायनेति । तदुपलम्भप्रसङ्गाद्रूपाभावोपलम्भप्रसङ्गादित्यर्थः । चक्षुषा यत्किञ्चिदुपलम्भस्य तत्रापि सम्भवादिति भावः । नन्विति । तथात्वे वा सहकार्युच्छेदापत्तिः । वस्तुतः प्रतियोगिसत्त्वविरो-
प्रकाशिका । तथात्वे वेति । कारणचक्रसाकल्योपक्षयाय दण्डादेरपि तत्रोपक्षये घटाद्यहेतुतापत्तिरित्यर्थः । तथा च योग्यताघटकतया अवश्यमपेक्षणीयस्यात्रानुपक्षीणस्येन्द्रियस्य सिद्धमभावधीहेतुत्वमिति भावः ।
मकरन्दः । धिकरणसन्निकरणसन्निकर्ष एवानुपलब्धिसहकारी स च तत्रास्त्येवेति भावः । अकारणमेव अप्रयोजकमेवेत्यर्थः । परम्पराकारणं कारणकारणम् । तथात्वे वेति । कारणचक्रस्य साकल्योपेक्ष- याभ्युपगमे दण्डचक्रादेरपि तथात्वे घटाद्यहेतुत्वपत्तिरित्यर्थः । तथा च योग्यताघटकतयाऽवश्यापेक्ष-
तृतीयस्तवके ] अनुपलब्धेर्धर्मान्तरत्वखण्डनम् । ४३३
न्यन्मेलनं मिथः प्रत्यासत्त्यादिशब्दवाच्यं तदुपक्षयः, न तर्हि क्वचिच्चक्षुः कारणं स्यादिति । न हि रूपाद्युपलब्धिमध्यसन्निकृष्टमेतदुपजनयति । अथाधिकरणस- मवेतकिञ्चिदुपलम्भो ऽपि तद्विषयाभावग्रहे ऽनुपलब्धेरपेक्षणीयः , ततस्तत्रेयं चरि- तार्थम्, वाय्वादिवु तु रूपाद्यभावप्रतीतिरानुमानिकी । तथा हि अनुपलब्ध्या ह्यनुमीयते—अयं नीरूपो वायुरिति । न असिद्धेः । न ह्युपलम्भाभावो भवतामभा- वोपलम्भः, उपलम्भस्यातीन्द्रियत्वाभ्युपगमात् । प्राकट्याभावेनानुमेय इति चेन्न । वायौ रूपवत्त्वाप्राकट्याभावस्याप्यसिद्धेः, रूपाभावेन समानत्वात् । व्यवहा-
बोधनी ।
तत्साध्यमस्ति यत्रोपक्षयः तस्य स्यात् किं तु परिपूर्णानां कारणानामेव तथात्वादिति । नन्वस्ति मेलनं नाम तत्त्वान्तरं क्षयविषय इत्याह अथ इति । एवं हि रूपादिज्ञानेष्वर्थसंनिकर्षसंपादनोपक्षीर्णं चक्षुर्न कारणं स्यादित्याह तदुपक्षय इति । नन्वभावाधिकरणसमवेतस्य कस्यचिद्वस्तुनः प्रतिप्र- गिग्राहकेणेन्द्रियेणोपलम्भोऽभावग्रहणे सहकारित्वेनानुपलब्धेरपेक्षणीयस्तत्रे दमिन्द्रियमुपक्षीयत इत्या- ह अथाधिकरणसमवेतकिञ्चिदिति । तर्हि वायौ रूपाभावप्रतीतिर्न स्यात् तत्र वस्त्वन्तरस्य चक्षुषानुपलम्भादित्याशङ्क्य स एवाह वाय्वादिव्विति । न इति । न तत्राभावप्रमाणगम्योऽ- भावः अनुपलब्धिलिङ्गानुमेयत्वादिति । न इति । असिद्धेरनुपलब्धेरज्ञातासिद्धत्वादिति । न ताव- दभावप्रमाणात्सिद्ध्यतीत्याह नहि इति । ऐन्द्रियकस्याभावो हि भवतामभावगम्य इति । ननु रूपोपलम्भ- जन्यस्य प्राकट्यस्याभावेन वायौ रूपानुपलम्भोऽनुमीयत इत्याह प्राकट्याभावेन इति । वायौ रूपा- -भावस्येव प्राकट्याभावस्यापि नाभावप्रमाणात्सिद्धिरित्याह न वायौ इति । नन्वस्तु वायौ रूपव्यवहाराभा- वेन प्राकट्याभावोऽनुमेय इत्याह व्यवहाराभावेन इति । व्यवहाराभावस्यानैकान्तिकत्वान्न प्राकट्या-
प्रकाशः ।
धित्वमनुपलब्धेर्योग्यत्वं, तत्र न चक्षुरुपक्षय इति भावः । न हीति । विषयप्रत्यासत्ताविन्द्रियान्यथा- सिद्धा क्वचिदपि इन्द्रियं करणं न स्यात्, अप्रत्यासन्नस्याऽजनकत्वादित्यर्थः । तद्विषयेति । अधि- करणनिष्ठाभावग्रहे इत्यर्थः । वाय्वादिश्विति । चक्षुःसन्निकृष्टे वायौ चक्षुषा तद्धर्माग्रहे वायौ रूपा- भावधीर्नाध्यक्षा, किन्त्वनुमितिरिति नेयं तत्र सामग्रीत्यर्थः । असिद्धिमेवोपपादयति न हीति । वायौ रूपाभावधीर्नानुपलब्धिलिङ्गजन्या, अनुपलब्धेरज्ञानात्, आप्तवाक्यस्यापि तद्बोधकस्याभा- वात् । न चोपलब्धेरनुपलब्धिरज्ञातेव तद्द्वाथिका । उपलब्धेरतीन्द्रियत्वेन योग्यानुपलम्भेनानु- पलब्ध्यभावस्य ज्ञातुमशक्यत्वात्, अनुपलब्धिमात्रस्य चाभावाग्राहकत्वादित्यर्थः । उपलम्भकार्य- ज्ञातताया अभावेनोपलम्भाभावोऽनुमीयते इत्याह प्राकट्येति । वायौ रूपाभाववद्रूपाप्राकट्याभाव- स्यापि दुर्महत्वं, यदि च स योग्यानुपलब्धिगम्यस्तर्हि रूपाभावोऽपि तथाऽभ्युपेयस्तुल्ययोगक्षेमत्वा- दित्याह वायाविति । रूपज्ञानाभावे लिङ्गान्तरमाह व्यवहारेति । दृश्यमानो व्यवहाराभावो लिङ्गं,
प्रकाशिका ।
उपलम्भेति । उपलम्भस्य ज्ञातताचरमकारणतया ज्ञातताव्याप्यत्वादिति भावः । प्राकट्याभावलिङ्गत्व- भ्रमं निवारयति रूपज्ञानाभाव इति । न चेति । अग्रिमग्रन्थेन कायेत्यादिगतार्थमिति शङ्कया विकल्पयति दृश्यमान इति । व्यवहारसामान्याभावस्य नानैकान्तिकत्वमिति विकल्पयति
मकरन्दः ।
णीयस्यान्यत्रानुपक्षीणस्येन्द्रियस्याभावग्राहकत्वं सिद्धमिति भावः । उपलम्भेति । उपलम्भस्य ज्ञाततायां चरमकारणत्वात्तदभावेन तदभावोऽनुमीयते इत्यर्थः । प्राकट्याभावलिङ्गत्वभ्रमं वारयति रूपज्ञानाभाव इति । न चेत्यग्रिमग्रन्थेन गतार्थत्वात् कायेऽत्यादि व्यर्थमिति विकल्पयति दृश्य- मान इति । ननु व्यवहारसामान्याभावस्य क्वाप्यसिद्धेरनैकान्तिकत्वमसिद्धमिति विकल्प्य योजयति
५५ न्या० कु०
४३४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां राभावेनानुमेय इति चेन्न । कायवाग्व्यापाराभावेऽप्युपेक्षाज्ञानाभावाभ्युपगमात् , मूकस्वप्नोपपत्तेश्च । न च व्यवहाराभावमात्रेणानुमातुमपि शक्यते । अनैकान्ति- कत्वादसिद्धेश्च ॥ तद्विषयस्तु व्यवहारस्तद्विषयज्ञानजन्यो वा ? तद्विषयज्ञानजनको वा ? तदाश्र- यधर्मजनको वा ? । तदभावश्च तज्ज्ञानतदाश्रयधर्माभावान्तर्भूत एवेत्यशक्यनि- बोधनी । भावे ज्ञानाभावे लिङ्गतेत्याह न इति । इतश्चानैकान्तिकतेत्याह मूकस्वप्न इति । मूकतया वाचि- कस्य व्यवहारस्याभावः, स्वप्नतया कायिकस्येति । ननु मा नाम हानोपादानलक्षणयोः कायवा- ग्व्यवहारयोः ज्ञानविशेषकार्यत्वात्तदभावात् ज्ञानमात्राभावः प्राकट्यमात्राभावो वानुमीयतां, ज्ञानमा- त्रस्य प्राकट्यमात्रस्य च व्यवहारमात्रं कार्यं, ततस्तदभावात् तयोरन्यतरस्याभावोऽनुमास्यत इत्या- शङ्क्याह न च इति । यदि तावद्व्यवहाराभावमात्रमित्यत्र यः कश्चिद्व्यवहारो विवक्षितस्तदानैकां- न्तिकता यस्य कस्यचिद्व्यवहाराभावस्य येन केनापि ज्ञानाभावेन व्याप्तेः, तथापि कस्यापि व्यवहा- रस्य सर्वत्रासत्त्वादसिद्धश्च तन्मात्राभाव इति । अथ यद्विषयस्य ज्ञानस्य प्राकट्यस्य वा भावोऽनुमित्सितः तद्विषयव्यवहाराभाव एव लिङ्गमु- च्यते तत्राह तद्विषयस्तु इति । कायिकवाचिकव्यवहारयोरपेक्षाज्ञानव्याप्यत्वाद् व्यापिनश्च व्यवहा- रान्तरस्यानवगमात् तद्विषयो व्यवहारस्तद्विषयं ज्ञानं तदाश्रितं वा प्राकट्यलक्षणं धर्मं पुरस्कृत्य तज्जन्य इति वा तज्जनक इति वा निरूपणीयः । ततो व्यवहाराभावश्चात्र तज्ज्ञानतदाश्रितधर्माभा- वपुरस्कारेणैव निरूप्येत । तच्चाशक्यमात्माश्रयादिदोषप्रसङ्गात् । तथाहि यदा तद्विषयज्ञानव्यवहा- राभावः तद्विषयज्ञानाभावे लिङ्गं तदापेक्षाज्ञानादिव्यापिनो व्यवहारान्तरस्याभावात्तद्विषयज्ञानमेव तज्ज- न्यव्यवहारोऽभ्युपगन्तव्यः, तथाचात्माश्रयत्वं-तद्विषयज्ञानाभावादेव तद्विषयज्ञानाभावानुमानमिति । यदा तु तद्विषयज्ञानजनकस्य व्यवहारस्याभावो लिङ्गं तदा चक्षुरादिव्यापारस्य तज्जनकत्वात्तस्य च ज्ञानस्य कार्यैकगम्यत्वात्तदभावोऽपि ज्ञानाभावावगम्यः, तथा चेतरेतराश्रयता-तज्ज्ञानाभावज्ञानात्तज्ज- नंकव्यवहाराभावज्ञानं ज्ञानजनकचक्षुरादिव्यापाररूपव्यवहाराभावज्ञानाच्च तदभावज्ञानमिति । यदा च तदाश्रितधर्मजनकस्य व्यवहारस्याभावो लिङ्गं तदा प्राकट्याख्यधर्मस्य ज्ञानहेतुकत्वादात्माश्रयत्व- मेव । अथ तु ज्ञानद्वारा चक्षुरादिव्यापार एव जनकः तदा चक्रकं भवति ज्ञानाभावाच्चक्षुरादिव्या- पारलक्षणस्य व्यवहारस्याभावः ज्ञानाभावश्च प्राकट्याभावात् स च तज्जनकव्यापाराभावात् स च प्रकाशः । व्यवहारसामान्याभावो वा ? । नाद्यः अनैकान्तिकत्वादित्याह कायेति । अन्त्येऽपि यदि स्वकी- यव्यवहारमात्राभावस्तदाऽनैकान्तिकं, सर्वस्य तु तदभावो ग्रहीतुमशक्य इत्याह न चेति । ननु अनुपेक्षणीयविषयकः स्वकीयरूपवत्ताज्ञानाभावस्तद्विषयकस्वकीयरूपव्यवहाराभावेनानुमेय इत्यत आह- तद्विषयस्त्विति । तदभावश्चेति । आद्ययोर्ज्ञानाभावान्तर्भूतः, अन्त्ये तदाश्रयधर्माभावान्तर्भूत प्रकाशिका । अन्त्येऽपीति । आद्ययोरिति । यद्यपि व्यवहाराभावो ज्ञानभावादन्यस्तथापि ज्ञानाभावेनैव सोऽनुमेय इत्यन्तर्भावार्थः । तथाचात्माश्रयादिरिति भावः । तदाश्रयधर्माभावान्तर्भूत इति । ज्ञानाभावानुमानद्वारा प्राकट्याभावात्मकतदाश्रयधर्माभावोऽनुमेय इत्यर्थः । केचित्तु घटज्ञानप्रतियोगिकतया ज्ञानाभाववद- मकरन्दः । अन्त्येऽपीति । आद्ययोरिति । यद्यपि व्यवहाराभावो न ज्ञानाभावान्तर्भूतस्तस्य ततोऽन्य- त्वात् , तथापि ज्ञानाभावेनैव सोऽप्यनुमेयस्तज्ज्ञानत्वात्माश्रयादिनाऽसम्भवेति व्यवहाराभावोऽशक्य-
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३५ श्रय एव । आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् । न चाज्ञातस्योपलम्भाद्य- भावस्य लिङ्गत्वम् । न च प्राक्प्रध्वंसाभावः सत्तामात्रेणोपलम्भाभावमावेदयतीति युक्तम् । लिङ्गाभावस्य तथात्वेऽतिप्रसङ्गात् । अविनाभावबलेन तु नियमे तत्प्र- तिसन्धानापत्तेः । न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादा- वपि तथाभावप्रसङ्गादिति । ज्ञानप्रत्यक्षत्वेन त्वद्दिशा अविष्यतीति चेन्न । बोधनी । ज्ञानाभावादिति । न च व्यवहाराभावमात्रेणोत्यादेरपरा व्याख्या—न केवलमनैकान्तिकः असिद्धश्च व्यवहाराभाव इत्याह न च इति । उक्तस्यैवानैकान्तिकत्वस्यानुभाषणं दृष्टान्तार्थमिति व्यवहारस्वरूप- निरूपणपुरःसरं व्यवहाराभावं निरूपयंस्तस्यासिद्धिमेवाह तद्विषयस्तु इति । ननु विद्यमान एवानुपलम्भो यदि रूपाभावं गमयेत् अविनाभावेन तत एते दोषाः प्रादुष्युः, न त्वेवमित्याशङ्कयाह न चाज्ञातस्य इति । तथा सति लिङ्गत्वं न स्यादिति भावः । ननूपलम्भलिङ्गस्य प्राक्प्रध्वंसा- भावो लिङ्गिन उपलम्भस्याभावं गमयिष्यतीत्याह न च इति । स हि लिङ्गाभाव इत्येव लिङ्गिनोऽभावं गमयेदविनाभावेन वा ! प्रथमे धूमाभावोऽप्यग्न्यभावं गमयेत्, द्वितीये त्वविनाभावः स्वस्य हेतुस्वरूपस्य च प्रतिसंधानमपेक्षेत, अन्यथाऽतिप्रसङ्गादिति । ननु नैयायिकमतालम्बनेन प्रत्यक्षत्वमभ्युपगच्छामः, ततो भावप्रमाणावगतेनैव ज्ञानाभावेन वायौ रूपाभावमनुमीमह इत्याह ज्ञानप्रत्यक्षत्वेन इति । तर्हि प्रामाणिकं पन्थानमागतो यथा- प्रकाशः । एवेत्यर्थः। आत्माश्रयेति। यदि तद्विषयज्ञानाभावेनैव तद्विषयज्ञानाभावोऽनुमेयस्तदाऽऽत्माश्रयः । अथ तद्विषयज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकव्यवहाराभावेन च तद्विषयकज्ञाना- भावज्ञानं, तदाऽन्योन्याश्रयः । अथ तद्विषयज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकज्ञाना- भावश्च तद्विषयकप्राक्प्रध्वंसाभावात् , स च तद्विषयकज्ञानाभावात् , तर्हि चक्रकमित्यर्थः । नन्वन्येषामज्ञातानामलिङ्गत्वेऽपि प्राक्प्रध्वंसाभावः सत्त्वयैव ज्ञानाभावं गमयिष्यति । न चायोग्य- प्रतियोगिकत्वेनायोग्योऽस्याभाव इति वाच्यम् । अनुपलब्धेरेव तद्विशेषणवत्त्वादित्यत आह न चेति । स हि व्याप्तिबलेन वा प्रतिपादयेल्लिङ्गाभावत्वमात्रेण वा, कार्य्याभावमात्रतया वा ? तत्रं न मध्यमान्तिमावित्याह लिङ्ग'भावस्येति । धूमाभावस्यापि सत्त्या गमकत्वापातादित्यर्थः । आद्यमा- शङ्कय निराकरोति अविनाभायेति । न ह्युपलम्भाभावो भवतामभावोपलम्भ इत्यत्र शङ्कते ज्ञानेति । प्रत्यक्षेण ज्ञानाभावं ज्ञात्वा तस्माल्लिङ्गाद्वायौ रूपाभावानुमानं स्यादित्यर्थः । मन्मते प्रति- प्रकाशिका । शक्यनिश्चय इति आद्ययोरिति पङ्क्त्यर्थः । तदाश्रयधर्म्मघटितप्रतियोगिकतया प्राक्प्रथाभावाद्- निश्चय इति तदाश्रयेत्याद्युत्तरपङ्क्त्यर्थ इत्याहुः । न चायोग्यप्रतियोगिकत्वेनेति स्वरूपसद्भावो योग्यप्रतियोगिकमेवाभावं गमयतीत्यर्थः । अनुपलब्धेरेवेति । अनुपलब्भस्य ग्राहकत्वे स नियम इत्यर्थः । न ह्युपलम्भाभाव इति । नैयायिकोक्तं शंकत इत्यर्थः । प्रत्यक्षेण स्वरूपसदनुपलब्ध्या । मन्मत इति । मन्मताश्रये रूपाभावो वायौ प्रत्यक्ष एव तदनाश्रये तु ज्ञानाभावोऽयोग्य एवेति मकरन्दः । निश्चयः । एवञ्च तदाश्रयधर्म्माभावस्तद्विषयप्राक्प्रध्वंसाभावः, तस्यापि तदनुमापकत्वे चक्रकादिना सोऽशक्यनिश्चय इत्यत्र तात्पर्यम् । ज्ञानाभावान्तर्भूतो ज्ञानघटितप्रतियोगिकतया ज्ञानाभाववदतीन्द्रिय इत्यर्थः । ज्ञानाभावश्चेति । तज्ज्ञानमित्यर्थः । यद्वा अनुमेय इति पूर्वोक्तमनुषञ्जनीयम् । अनु- पलब्धेरेवेति । प्राक्प्रध्वंसाभावस्त्वयोग्यमपि गमयिष्यतीत्यर्थः ।
शब्दध्वंसादिनोक्तोत्तरत्वात्। अपिच प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिर- नुपलब्धेरङ्गमिति, तद्रहितायास्तस्याः कार्यव्यभिचाराद्व्यवस्थाप्येत, व्याप्तिवलाद्वा?। न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्ती दृश्यते। नापि व्याप्तेः। तथासति वायौ रूपाभावप्रत्ययस्तामाक्षिपेत्, एवम्भूतत्वात्। अनाक्षेपे चा, न तत्कारणको भवेद् न वा भवेत्। ततो न भवत्येव, लिङ्गात्तदुत्पत्तिरिति चेत्। ननु लिङ्गमपि सैव, न तत्त्वान्तरम्। यथा योनिसम्बन्धोऽलिङ्गदशायामिन्द्रियस- बोधनी। प्रमाणं वायो रूपाभावश्चाक्षुष इत्यभ्युपगच्छ । न च कथं नामाचाक्षुषो वायौ रूपाभावश्चाक्षुषः स्यां- दिति शङ्कावकाशः शब्दप्रध्वंसप्रत्यक्षत्वसाधनेनाधिकरणप्रत्यक्षत्वस्यानङ्गत्वप्रतिपादनेन दत्तोत्तरत्वा- दित्याह न शब्देति । तदेवं यदि प्रतियोगिग्राहिणेन्द्रियेणाधिकरणसमवेतं धर्मोपलम्भः तद्वि- षयाभावग्रहे हेतुः ततो वायौ रूपाभावप्रतीतिर्न स्यात् अनुमानस्तत्प्रसिद्धेरित्युक्तम्, इदानीं तत्रैव दूषणन्तरमाह अपि च इति। तद्रहिताया वस्त्वन्तरप्रतीतिरहितायास्तस्या अनुपलब्धेः कार्य- व्यभिचारात्सत्यामनुपलब्धौ कदाचित्कार्यस्याभावग्रहणस्यानुत्पत्तेः तत्प्रतीतिरप्यङ्गममिति व्यवस्था- प्येत व्यतिरेकाभावेऽप्यन्वयव्याप्तिवलाद्वेति। तत्र प्रथमे दूषणं न तावत् इति। + प्रति + + प्रतियोगिग्राहकेन्द्रियसन्निकर्षैः सहितानां प्रतीतिद्वये दूषणं - नापि व्याप्तेः इति । सत्यां हि व्याप्तौ भवन् रूपाभावप्रत्ययः तां वस्त्वन्तरप्रतीतिमाक्षिपेदेवम्भूतत्वादभावप्रत्ययस्य वस्त्वन्तरप्र- तीतिव्यासत्वात् । यदि नाक्षिपेत् तर्ह्यभावप्रत्ययो वस्त्वन्तरप्रतीतिहेतुको न स्यात्स्वयं वा न भवेत् तत्कारणकस्य वस्त्वन्तरग्रहणस्याभावात् । अस्ति चायं चायाविति प्रतिक्षिप्तमपि पक्षं दूषणान्तर- विवक्षयोपक्षिपत्ति तत इति। ततः प्रमाणान्तरभूताया अनुपलब्धेर्वायौ रूपाभावप्रतीतिर्न भवती- त्येव किंतु लिङ्गभूताया तदा च वस्त्वन्तरप्रतीतिर्नापेक्षणीयेति। लिङ्गमपि इति । न हि तस्या एव कदाचिद्वस्त्वन्तरप्रतीतिरपेक्षणीयाऽन्यदापि युक्तमिति। ननु यथा ह्यलिङ्गदशायां मातापितृसं- बन्धश्चक्षुःसंनिकर्षमपेक्षते ब्राह्मण्यज्ञानेन तु लिङ्गावस्थायां तथेहापि स्यादित्याह यथा इति । न प्रकाशः। योगिमत्तयाऽनुपलम्भाद्वायौ रूपाभावः प्रत्यक्षत्वान्नानुमेयः, शब्दाभावप्रत्यक्षत्वव्यवस्थापन या आश्र- ययोग्यतायास्तद्धर्मग्रहस्य चाभावप्रत्यक्षताऽङ्गत्वनिरासादिति परिहरति शब्देति। व्याप्तिवलाद्वेति। कार्यकारणभावस्य व्याप्तिविशेषत्वेन गोवृषन्यायात् तां विनां याः व्याप्तिस्तद्वलादित्यर्थः। तां विनेति। अधिकरणवृत्तितद्धर्मप्रतीतिं विनेत्यर्थः। एवम्भूतत्वाद् व्याप्यत्वादित्यर्थः। अनाक्षेपे चेति। अधिकरणवृत्तितद्धर्मप्रतीत्यनाक्षेपे वा नाभावधीस्तद्धेतुका तद्व्याप्या वा । तथात्वे वा हेतुं विना व्यापकं विना वा न भवेदित्यर्थः। **ततः-**अधिकरणधर्मप्रतीतीत इत्यर्थः। सैव- अनुपलब्धिरेवेत्यर्थः। यथेति। यथा विशुद्धमातापितृयोनिरुजत्वं लिङ्गालिङ्गदशायामिन्द्रियसम्बन्धनिरपेक्षसापेक्षं, तथानुप- प्रकाशिका। न अनुपलब्धिलिङ्गात्सुमेयो वायौ रूपाभाव इति समुदायार्थः। न च ज्ञानप्रत्यक्षत्वमङ्गीकृत्य ममैक- देशिनः प्रत्यवस्थानमुचितमिति वाच्यम्। अनुपलब्धेः कारणत्वेऽपि निर्व्यापारत्वेनाकरणत्वादिति भावः। तद्रहिताया इत्यादेः कार्यकारणभावपरत्वादाइ कार्यकारणोति। सैवेति। तच्च दूषित- मिति भावः। तथेति। अधिकरणधर्मप्रतीतिनिरपेक्षा तत्सापेक्षा चेत्यर्थः। सा अधिकरणधर्म- मकरन्दः। ^सैवेति। तच्च दूषितमिति भावः। तथेति। अनुपलब्धिरप्यधिकरणधर्मज्ञाननिरपेक्षासापेक्षा स्यादित्यर्थः।
तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३७
न्निकर्षमपेक्षते, लिङ्गदशायान्तु तदनपेक्ष एव ब्राह्मण्यज्ञाने, तथैतत् स्यादिति चेन्न। कार्यजातिभेदात्तदुपपत्तेः। प्रकृते च तदनभ्युपगमात्। पारोक्ष्यापारोक्ष्ये विहायान्यथाऽप्यसौ भविष्यतीति चेन्न। अनुपलब्भात्। सम्भाव्यते तावदिति चेत्, सम्भाव्यतां, न त्वेतावताऽपि तमाश्रित्य करणनियमनिश्चयः। ∴ अज्ञाताकरणत्वाच्च। यदज्ञायमानकरणजं ज्ञानं तत्साक्षादिन्द्रियजं, यथा रूप-
बोधनी। इति। तत्र हि ज्ञानात्मनः कार्यस्य पारोक्ष्यापारोक्ष्यलक्षणजातिभेदात् योनिसंबन्धस्येन्द्रियापेक्षा- नपेक्षयोरुपपत्तिरिह चोभयोरिति। वस्त्वन्तरग्रहापेक्षतदनपेक्षानुपलब्धिकार्ययोरभावज्ञानयोः पारो- क्ष्याभ्युपगमेन जातिभेदाभावात् सहकारिवैचित्र्यानुपपत्तिरिति। ननु परोक्षत्वेऽपि वस्त्वन्तरग्रह- णापेक्षानुपलब्धिजन्यस्य प्रकारान्तरेणासौ जातिभेदो भविष्यतीत्याह पारोक्ष्य इति। न इति। परोक्षापरोक्ष्यव्यतिरेकिणो ज्ञानान्तरजातिभेदस्याप्रामाणिकत्वादिति। संभाव्यते इति। यद्यपि न प्रमाणोपलम्भ इति शेषः। सम्भाव्यताम् इति। न हि संभावनामात्रसिद्धं जातिभेदमाश्रित्यास्मिन् जातिभेदे वस्त्वन्तरग्रहापेक्षानुपलब्धिः कारणमंस्मिंस्तु तन्निरपेक्षेति कारणनियमः शक्यनिश्चय इति। तृतीयं हेतुमनूद्य व्याचष्टे अज्ञातकरणत्वात् इति। साक्षादनन्यत्रचरितार्थेनेन्द्रियेण जन्य-
प्रकाशः। लब्धिरपि स्यादित्यर्थः। कार्येति। दृष्टान्तस्य तत्सापेक्षस्याऽपरोक्षज्ञानजनकत्वं तन्निरपेक्षस्य च परोक्षज्ञानजनकत्वम्। अत्र तु लिङ्गानुपलब्धिजन्याभावज्ञाने जातिभेदाभावाल्लिङ्गानुमितौ व्यभि- चारात्सा कारणं न स्यात्। तद्वदपरोक्षजात्यङ्गीकारे च तत्रेन्द्रियजन्यत्वमावश्यकमित्यर्थः। न च जातिं विनाऽपि व्याप्त्यादिज्ञानविनाकृतानुपलब्धिजन्याभावज्ञाने सा कारणमिति वाच्यम्। अनुप- लब्धिजन्यज्ञानत्वेनैव तल्लिङ्गकानुमितिवद्विवादपदेऽपि तदकारणत्वानुमानात्। इन्द्रियान्यथा- सिद्धेर्निरोसादिति भावः। सम्भाव्यतामिति। कार्यजातिसम्भावनया तज्जातीयनियतस्य कारणत्वस- म्भावनायामपि तत्रानिश्चयादित्यर्थः। यदज्ञायमानेति। नन्विदमनुमित्यादावनैकान्तिकं तस्याज्ञायमानमनःकरणकत्वात्। न च ज्ञायमानकरणजन्यत्वं लिङ्गं, लिङ्गादेरजनक तया तज्ज्ञानस्याज्ञायमानस्यैव करणत्वात्। नापि ज्ञाना- साधारणकारणकत्वाभावो लिङ्गम्, अभावज्ञाने प्रतियोग्यादिज्ञानजन्यतया तदसिद्धेः। सविकल्पक- मात्रस्यैव विशेषणज्ञानजन्यत्वाच्च। मैवम्। लिङ्गादिज्ञानाजन्यानुभवत्वस्य लिङ्गत्वात्। साक्षा-
प्रकाशिका। प्रतीतिः। अनुपलब्धिजन्यज्ञानत्वेनैवेति।
मकरन्दः। लिङ्गादीति। अत्रानुभवपदं व्यर्थं स्मरणस्यापि दृष्टान्तत्वेन साध्यवत्त्वाभ्युपगमात् अत एव परिमले ज्ञानत्वस्येति पाठ इति वदन्ति। वस्तुतो यथाश्रुतसाध्ये मनसैव सिद्धसाधनप्रसङ्गान्मनो- भिन्नेन्द्रियत्वमिन्द्रियत्वेनेन्द्रियजत्वं वा तदर्थः। तथा च स्मरणे व्यभिचारादनुभवपदमिति। द्वितीयदृष्टान्तेऽनुशयप्रकाश एवायं प्रकाशकृत इति प्रतिभाति। अत एवाह साक्षादिति। यद्यप्यात्ममनो- योगलक्षणतद्व्यापारस्य न व्यवधानमन्यथा चक्षुरादावपि तथात्वेन वाधापत्तेः, तथापि निरुक्त एव तात्प- र्यार्थम्। यथाश्रुतमभिप्रेत्याह साक्षादिति। विपक्ष इति। तथा चाप्रयोजकत्वपरोऽयं ग्रन्थ इत्यर्थः। भावविषयत्वोपाधिपरस्तु नेत्याह।
४३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां
प्रत्यक्षम्, तथा चेह भूतले घटो नास्तीति ज्ञानमिति । यथा वा स्मरणमज्ञायमा- नकरणजं साक्षान्मनोजन्म । कुतस्तर्हि न साक्षात्कार्यनुभवरूपम् ? । संस्काराति- रिक्तसन्निकर्षाभावादिति वक्ष्यामः। बोधनी । मिति तत्रैवोदाहरणान्तरमाह यथा वा इति । यदि स्मरणं साक्षान्मनेन्द्रियजं तर्हि सुखादिज्ञान- वदस्य साक्षात्कारित्वानुभवत्वे न किमिति स्त इत्याह कुत इति । प्रकाशः। दिति, मनसा व्यवहितव्यापारेण सिद्धसाधननिरासार्थम्, उपनीतभाननिरासार्थं वा। कुत इति। साक्षादिन्द्रियसन्निकर्षजन्यस्य प्रत्यक्षत्वव्याप्तत्वादित्यर्थः । संस्कारेति । संस्कारान्यः सन्निकर्षः प्रकाशिका । (१) तत्पर एतेन प्राङ्नास्तीत्यादिग्रन्थ इत्यर्थः । अरुचिबीजन्तु सन्मुखार्थत्याग एवेति । इन्द्रियजन्यत्वेति । इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः । तेन नोत्तरविरोधः । तथा च ज्ञानाकरणकत्वं साक्षात्त्वप्रयोजकमिति भावः । इन्द्रियसन्निकर्षजेति । चक्षुष्कृतिर्गतिमत्संयोगजन्या चलघटसंयोगाश्रयत्वादित्यनुमितेर्ज्ञायमानकारणतापक्षे इन्द्रियसन्निकर्ष- जन्यत्वादित्यर्थः । ननूदाहतानुमितौ साक्षात्कारित्वं कुतः ? इन्द्रियसन्निकर्षात्मककरणजत्वप्रयोज्य- त्वात् साक्षात्कारित्वस्य, तथा च कथं साक्षात्कारित्वप्रसङ्ग इत्यत आह असाक्षात्कारित्व- स्येति । तथा च साक्षात्कारित्वप्रयोजकाज्ञातकरणकत्वाभावादेव तत्रासाक्षात्कारित्वमिति भावः । ननु असाक्षात्कारित्वं परोक्षत्वम् तच्च जातिरेव कुतो नैत्यत आह अनुभवत्वेनेति । स्मृतेरपि परोक्षत्वादिति भावः । इदञ्च वस्तुगतिमभिरुद्ध्य, वस्तुतस्तु जातित्वेऽपि ज्ञायमानकरणकत्वप्रयोज्य- त्वमेव तदिति नोक्तानुमितौ तदभावो नापि स्मृतिवृत्ति तदिति अनुभवत्वेन संकर इत्यवधेयम् । न चेति । इन्द्रियत्वेनेन्द्रियजन्यत्वं साक्षात्त्वप्रयोजकं, तथाचेन्द्रियाजन्यतया नाभावधीः साक्षात्क- रिणीति भावः । तत्रासिद्धिमाह प्रकृतेरपीति । तत्त्वात् = इन्द्रियजन्यत्वादित्यर्थः । वायोरतीन्द्रि- यतया त्वद्दुषनीतत्वमसम्भवतीति तदर्थमाह वायोरिति । तथा च धीरिति । यद्यपि रूपाभावधीः साक्षात्कारित्वेनैव नैयायिकाभिमतेति तस्या उक्तसामग्रीव्यभिचार एव, तथापि या धीः स्वरूपसद- नुपलब्धिजन्यत्वेनोभयसिद्धेत्यत्र तात्पर्य्यम् । साक्षात्कारित्वेनाभिमताया इति । स्वरूपसदनु- पलब्धिजन्यत्वेनोभयसिद्धाया इत्यर्थः । यदि चेति । तथाचानुपलब्धेः प्रतियोगिग्राहकेन्द्रियजन्या- धिकरणज्ञानसहकारिकारणविरहादिन्द्रियजन्यैव वायौ रूपाभावधीरिरिति भावः । प्रत्यक्षश्चेति । एतावता स्वरूपसदनुपलब्धेर्ग्राहकत्वमात्रंसिद्धावपि पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वसिद्धिरिति ध्येयम् । चक्षुषेति । तथा च नाश्रयग्रहे किन्तु तत्सन्निकर्ष एवेन्द्रियमन्यथासिद्धमिति भावः । सन्निकर्षेण यदीन्द्रियमन्यथासिद्धं तदा घटोऽपि नेन्द्रियग्राह्यः स्यादिति न तेन तदन्यथासिद्धिरित्याशयेन मूलं हन्तेवमिति । क्वचिदेतदाशयनेवेदिका सन्निकर्षो हीत्यादि पङ्क्तिका प्रकाश एव पठितेति । अकारणमेवेति । अप्रयोजकमेवेत्यर्थः । परम्पराकारणं कारणकारणमित्यर्थः । महान्धकार इति मूलं स्पर्शननेन्द्रिययोग्यालोकाभावप्रतिपादनाय । ननु प्रतीयत एवेति आकाशं, त्वचापि गृह्यत इति मतमाश्रित्येदमुक्तम् । नालोकसन्निकर्षेति । तत्र यद्यपि महान्धकारे ज्ञानाभावादित्यपि दूषणम्, तथापि तस्मिन्स ?–त्रुटिः ) । इदञ्च ज्ञायमानकारणत्वपक्षे न चाप्रयोजकत्वं निर्व्यापारत्वस्य विपक्षबाधकत्वात्, न च तयाप्तत्यकरणत्वप्रसङ्ग एवेत्यस्ति बाधकोऽपि तर्क एवेत्यत आह इन्द्रियेति । तथा
(१) इयं व्याख्या सिंहावलोकनन्यायेन ४२७ पृष्ठतो द्रष्टव्या ।
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३६ तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षा- दिन्द्रियजं भविष्यतीति चेन्न । उत्सर्गस्य बाधकाभावेन सङ्कोचाद्यनुपपत्तेः । अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गोऽविशेषात् । तथापि विपक्षे किं बाधकमिति · बोधनी । संस्कार इति । न तावदनुभवत्वं संस्कारातिरिक्तासाधारणकारणाभावान्, नापि साक्षात्का- रित्वमिन्द्रियार्थसन्निकर्षासमुत्थत्वादिति वक्ष्यामश्चतुर्थे परिच्छेदे इति । अज्ञायमानकरणकेन ज्ञानेनेन्द्रियेण भवितव्यमिति व्याप्तिर्भावज्ञानेषु नाभावज्ञानेष्वपीत्याह तथापि इति । न इति । सामान्यतः प्रवृत्ताया व्याप्तेर्बाधकमन्तरेणाभावविषयत्वेन संकोचानुप- पत्तेस्तथापि वा संकोचेऽतिप्रसङ्ग इति । मा भूत्संकोचः तथाप्यज्ञायमानकरणकस्यैव कस्यचिद् ज्ञान- स्यानिन्द्रियजत्वे किं बाधकमित्याह तथापि इति । बाधकं वि + (ना ?) + त्सर्गापवादेऽतिप्रसङ्ग इत्येत- प्रकाशः । प्रत्यक्षत्वप्रयोजकः, स्मरणे तु स एव सन्निकर्षः । प्रत्यभिज्ञाने तु तत्ता स्मृत्युपनीता भासते, न तु संस्कारस्तत्सन्निकर्षः । तज्जन्यत्वे स्मृतित्वापत्तेरित्यर्थः । तथापीति । विपक्षे बाधकाभावादित्यर्थः । न च भावविषयत्वमुपाधिः, अभावज्ञानेऽपि प्रतियोग्यादिभावविषयतया साधनव्यापकत्वात् । नाप्यभावविषयत्वं, अभावस्मरणे साध्याव्याप- कत्वात् । उत्सर्गस्येति । सामान्यत एव व्याप्तिर्भावविषयत्वस्य गुरुत्वादित्यर्थः । तथाप्यु- त्सर्गस्य बाध्यत्वशङ्कानिवारकं किमित्याह, तथापीति । निर्बीजतादृशशङ्कायां सर्वत्र सामान्य- प्रकाशिका । चेन्द्रियमेव करणमिति भावः । नन्विदमिति । न च तत्रापि मनोजन्यतया साध्यमस्त्येवेति वाच्यम् । यथाश्रुते सिद्धसाधनतया विषयप्रत्यासन्नेन्द्रियजन्यत्वस्य साध्यत्वात् । लिङ्गादीति । सिद्धान्तेऽप्यनुभवपदं ज्ञानपरम् । अत एव मूलोक्तद्वितीयदृष्टान्तासङ्गतिः साध्यस्यापि निरुक्तस्य संस्कारलक्षणां प्रत्यासत्तिमादाय स्मरणे सत्त्वात् । कैश्चित्तु सिद्धसाधनापनुत्तये मनोभिन्नेन्द्रियज- न्यत्वमिन्द्रियत्वेनेन्द्रियजन्यत्वं वा साध्यमित्याशयेन व्यभिचारदेशनेयं द्वितीयदृष्टान्ते चारुचिरेव प्रकाशकृतः अत एव सिद्धान्तेऽनुभवपदोपादानं करिष्यति स्मरणे निरुक्तसाध्याभावादिति वदन्ति । मास्तु प्रतियोगिज्ञानत्वेनाभावज्ञानं प्रति जनकत्वं तथाप्यसिद्धिरैवेत्याह सविकल्पकेति । मननेति- व्यवहितव्यापारत्वञ्च विषयाप्रत्यासन्नत्वादिकमेव बोध्यम् । उपनीतेति । तथा चोपनीताभावज्ञानेऽशतः सिद्धसाधनवारणाय साक्षात्पदं ज्ञानादिप्रत्यासत्तिरहितपरमिति भावः । साक्षादिति । यदपि चेन्द्रियत्वेनेन्द्रियजन्यत्वस्य साक्षात् प्रयोजकत्वेनेयं शङ्का तथापीन्द्रियसन्निकर्षासाधारणकारणत्वमेव साक्षात्त्वप्रयोजकमित्यभिप्रायेण शङ्केयमिति भावः । स्मृतित्वापत्तेरिति । इदमुपलक्षणम् । वस्तुतो विशिष्टानुभवं प्रत्यव्यवहितविशेषणज्ञानं कारणमन्यथा स्मरणसमयेऽनुभव एव स्यादिति त- त्राऽपि स्मृतिरेव प्रत्यभिज्ञाकारणमित्यपि द्रष्टव्यम् । विपक्ष इति । तथा चाप्रयोजकत्वपरोऽयं ग्रन्थ इति भावः । ननूपाधिपरत्वेनैव किमिति न व्याख्यात इत्यत आह न चेति । नत्वित्यर्थः । उपाधि- रित्यनन्तरमित्यर्थ इति शेषः । भावाभावविषयतेति काचित्कः पाठः । तत्राभावपदं दृष्टान्तार्थम् अभावस्मरण इति । एतच्च यथाश्रुतसाध्यं विषयप्रत्यासन्नेन्द्रियजन्यत्वं वा विवक्षितम् । साध्यमभिप्रेत्य पौनरुक्तमाशङ्क्याह तथापीति । आत्मादिना सिद्धसाधनवारणायाह । मकरन्दः । न चेति । न त्वित्यर्थः । इत्यर्थ इति शेषः, भावाभावविषयतेति यदि पाठः क्व चित्तदाऽभावपदं सम्पातायातम् । अभावस्मरण इति । एतच्च यथाश्रुते । वस्तुत उपनीताभावप्रत्यक्षे तयात्वम् । अदृष्टा- दिना अर्थान्तरादाह लिङ्गादिति ।
४४० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां चेत्। नन्विदमेव तावत्। अन्यदप्युच्यमानमाकर्णय। तद् यथा अकारणकका- र्यप्रसङ्गो, रूपाद्युपलब्धीनामपि वाऽनिन्द्रियकरणत्वप्रसङ्गः। न ह्यनुमित्यादिभिरु- पलभ्यमानकरणिकाभिश्चक्षुरादिव्यवस्थापनम्, अपि त्वनुपलभ्यमानकरणिकाभी रूपाद्युपलब्धिभिरेव। यद्यपि साक्षात्कारिताऽपि तत्रैव पर्यवस्यति, तथापि प्रथ- मतोऽनुपलभ्यमानकरणत्वमेव प्रयोजकं चक्षुरादिकल्पने। न ह्युपलभ्यमाने कर- णान्तरे साक्षात्कारिणीष्वपि तासु चक्षुराद्यनुपलभ्यमानं कश्चित्कल्पयिष्यत्। अत एव साक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमुपागमन् धीराः। संस्कारस्त्व- र्थविशेषप्रत्यासत्तावुपयुज्यते, इन्द्रियाणां प्राप्यकारित्वव्यवस्थापनात्। भावावेशाच्च चेतसः। सर्वत्र हि बाह्यार्थानुभवे जनयितव्ये भावभूतप्रमाणा- बोधनी। देव तावद् बाधकं किमन्यन्मृग्यत इत्याह नन्विदम् इति। नन्वन्वतः सिद्धायां याप्तावेव तद्वक्तुं युक्तं तत्सिद्धिश्च विपक्षे बाधकादित्याशङ्क्याह अन्यदपि इति। इह घटो नास्तीति बुद्धिरतीन्द्रि- यजा निर्हेतुकैव स्यात् हेत्वन्तरासंभवादिति बाधकान्तरमाह रूपादीति। तासामपीन्द्रियजत्व- मज्ञातकरणत्वाधीनसिद्धीति भावः। तमेव स्फोरयति न हि इति। उपलभ्यमानकरणिकास्रनुमि- त्यादिषु इन्द्रियस्य कारणत्वेनाव्यवस्थापनादनुपलभ्यमानकरणिकासु रूपादिबुद्धिषु तद्व्यवस्थाप- नादज्ञातकरणत्वमेवेन्द्रियत्वे प्रयोजकमिति निश्चीयत इति। ननु रूपादिबुद्धीनां चक्षुरादिकारणत्व- कल्पने तासां साक्षात्कारित्वमेव प्रयोजकं न त्वज्ञातकरणत्वमित्यत्राह यद्यपीति। रूपादिबुद्धीनां सत्यपि साक्षात्कारित्वे प्रथमतः कार्यदर्शनसमय एव कारणमपेक्षमाणः कारणान्तराज्ञानेनैव चक्षु- रादि कल्पयति, नतु तासां साक्षात्कारित्वमप्यनुसंधाय, ततश्च प्रथमभाविनो ज्ञातकारणत्वस्यैव प्रयोजकत्वमिति तदेव व्यतिरेकमुखेन स्फोरयति नहि इति। अत एव इति। यत एवाज्ञातकार- णत्वमेव प्रयोजकमैन्द्रियकत्वे न तु साक्षात्कारित्वमत एवेति। संस्कारकरण एव स्मृतेः नतु मनं इति चेत् तत्राह संस्कारस्तु इति। करणस्य मनइन्द्रियस्य विषयप्राप्तिरूपतया संस्कार उपयु- ज्यते, न तु कारणत्वेनेति। तुरीयं हेतुमनूद्य व्याचष्टे भावावेशाच्च इति। बहिः स्मरणादन्तःसुखाद्यनुभवाच्चान्यत्र सर्व- त्रैन्द्रियलिङ्गादिभावात्मककरणसहायमेव मनः प्रवर्त्तमानं दृष्टमतो व्याप्तिवलादभावानुभवेऽपि किमपि भावरूपं कारणमाविश्य मनः प्रवर्त्तत इत्यनुमीयते, तच्च कारणमिन्द्रियमेवावशिष्यत इत्यर्थः। ननु प्रकाशः। व्याप्त्युच्छेद इत्याह। नन्विदमिति। उत्सर्गस्य बाधकं चिन्त्येत्याशङ्केत्यर्थः। अकारणकेति। अज्ञातकरणकत्वावच्छिन्नज्ञानं प्रतीन्द्रियस्य करणत्वादिन्र्दियं विना तन्न स्यादित्यर्थः। न हीति। ज्ञातकरणकज्ञानेन करणतया नेन्द्रियं कल्प्यते, किन्त्वज्ञातकरणकज्ञानेनेत्यर्थः। ननु नाज्ञायमानकर- णकज्ञानत्वेन चक्षुरादिकल्पनम्, अपि तु साक्षात्कारिज्ञानत्वेनेत्यत आह यद्यपीति। तत्रैव इन्द्रियकरणकत्व एवेत्यर्थः। यदि च साक्षात्कारिज्ञानमेवेन्द्रियसिद्धौ मानं स्यात्; तदा स्मृतेस्त- दभावान्नमनःकरणत्वं नानुमीयेतेत्याह अत एवेति। न चैवं स्मृतेः साक्षात्कारित्वापत्तिः। संस्कारातिरिक्तसन्निकर्षाभावादित्युक्तत्वात्। ननु स्मृतौ संस्कार एव कुतो न करणमित्यत आह संस्कारस्त्विति। इन्द्रियाणामप्राप्तानां ज्ञानाजनकत्वात्, संस्कारस्य च निर्व्यापारत्वेनाकरणत्वा- दित्यर्थः। भावावेशादिति। भावरूपासाधारणकारणसाहित्यनियमादित्यर्थः। तथा चाभावप्रमायां मनो भावभूतासाधारणकारणसहकृतमेव करणमिति भावः। प्रयोगश्च लिङ्गाद्यजन्या अभावप्रमा
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४१ विष्टमेव चेत् उपयुज्यते नातोऽन्येति व्याप्तिः । तथैव शक्तेरवधारणात् । न ह्यनु- पलब्धिमात्रसहायं तदभावे ऽप्यनुभवमाधातुमुत्सहते । शब्दलिङ्गादेरपेक्षादर्शनात् । न च यत्र यदपेक्षं यस्य जनकत्वमुपलब्धं, तदेव तस्यैव तदनपेक्षं जनकमिति न्याय- सहम् । आर्द्वेन्धनसंवन्धमन्तरेणापि दहनाद् धूमसम्भावनापत्तेः । तथाच गतं कार्य- कारणभावपरिग्रहव्यसनेन ॥ २० ॥ अपि च प्रतियोगिनि सामर्थ्याद्व्यापाराद्व्यवधानतः ॥ अक्षाश्रयत्वाद्दोषाणामिन्द्रियाणि विकल्पनात् ॥ २१ ॥ बोधनी । भावानामुपलम्भ एवार्थं नियमः, अभावानुभवे तु बहिरस्वतन्त्रमनुपलब्धिमात्रसहायं भविष्यती- त्यत्राह नहि इति । अभावानुभवेऽपि शाब्दलैङ्गिकादौ मनसः शाब्दादिभावरूपकारणापेक्षादर्शना- दिति । अन्यत्र तथादर्शनेऽपीह घटो नास्तीत्यत्रानुपलब्धिमात्रसहायं भविष्यतीत्याह न च इति । यद्वा भावानुभवे भावकारणापेक्षमप्यभावानुभवे तन्निरपेक्षमेव मनो भविष्यतीत्यत्र दोषान्तरमाह न च इति । तथा च इति । अपेक्षणीयत्वेनावधृतस्याभावेऽपि कार्योत्पत्त्यभ्युपगमे न किञ्चित्कस्य- चित्कार्यं कारणमिति वा परिगृह्येताविशेषादिति ॥ २० ॥ अपरानपि चतुरो हेतूनुपन्यस्यति अपि च प्रतियोगिनि इति । इन्द्रियाणि पक्षः, अभाव- प्रकाशः । भावभूताऽसाधारणकरणसहकृतमनोजन्या अस्मदाद्यभावप्रमात्वात् लिङ्गादिजन्याभावप्रमाव- दिति । अत एव—भावप्रमायां तथात्वेऽप्यभावप्रमायां योग्यानुपलब्धिमात्रापेक्षं मनः करणं स्याद् विपक्षे बाधकाभावा-दित्यपि निरस्तमित्याह न हीति । न च भावत्वमतन्त्रं गौरवात्, अन्यथा लिङ्गाद्यपि तत्र मानं न स्यादिन्द्रियसहकृतस्यैव मनसो बाह्यानुभावकत्वादिति वाच्यम् । वायौ रूपाभावबुद्धेरनुपलब्धिकरणत्वाभावव्यवस्थापनेन गौरवस्यापि न्यायत्वादिति भावः ॥२०॥ प्रतियोगिनीति । इन्द्रियाणीति धर्मिनिर्देशः, करणमिति साध्यं, प्रकरणात् । प्रतियोगि- प्रकाशिका । असाधारणेति । लिङ्गादीति । अनुमित्यादवंशे सिद्धसाधनवारणाय प्रथमं विशेषणम् । घटादिप्रमायां तद्वारणायाभावेति । अभावस्मरणे बाधवारणाय प्रमापदम् । असाधारणकार- णपदेन कारणाभिधानादन्यथा प्रतियोगिज्ञानमादाय सिद्धसाधनापत्तेः । न चैवमपि दुःखसुखाभाव- प्रमायां बाधः अभावपदेन बाह्याभावस्योक्तत्वात् । साध्ये च भावपदमनुपलब्ध्या सिद्धसाधनवारणाय । शरीरादिना सिद्धसाधनवारणाय साधारणेति । प्रतियोगिज्ञानादिना सिद्धसाधनवारणाय कारणपदं करणपरं बोध्यम् । क्वचित् पाठ एव तथा । हेतावीश्वरज्ञानवारणायास्मदादीति । तच्च लौकिकं परमन्यथा मानसे घटाभावज्ञाने व्यभिचारात् । सुखाभावप्रमायां व्यभिचार इत्यभावेति बाह्येत्यर्थः । अत एव नाभावपदवैयर्थ्याशङ्कापि । स्मरणे व्यभिचार इति प्रमापदं तच्चानुभवमात्रपरम् भ्रमेऽपि साध्यम् ॥ २० ॥ मकरन्दः । एतच्चानुमित्याद्यंशे सिद्धसाधनवारणाय । घटादिप्रमांशे तद्वारणायाभावेति । स्मृत्यंशे बाधवारणायाह प्रमेति । अनुपलब्धधा अर्थन्तरादाह भावेति । शरीरादिनाऽर्थान्तरादाह असाधारणेति । प्रतियोगिज्ञादिनाऽर्थान्तरादाह करणेति । अनुभवकरणेत्यर्थः । अन्यथा पक्षे हेतौ च प्रमात्वपर्य्यन्तस्य वैयर्थ्यापत्तेः । यदि न कारणेति पाठः, तदाऽपि तत्रैव तात्पर्य्यम् । ईश्वरप्रमायां व्यभिचारादाह अस्मदादीति । सुखाभावप्रमायां व्यभिचारादाह अभावेति । बाह्याभावेत्यर्थः । प्रमापदं स्मृतौ व्यभिचारवारणाय अनुभवपरं, भ्रमेऽपि साध्यसत्त्वात् ॥ २० ॥ ५६ न्या० कु०
An accurate, line-by-line Markdown transcription of the provided Sanskrit text:
३४२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ २१ कारिकान्याख्यायां यद्धि प्रमाणं यद्भावावगाहि, तत् तदभावावगाहि यथा लिङ्गं शब्दो वा। घटाद्यवगाहि चेन्द्रियमिति। अन्यथा हि शब्दादिकमपि नाऽभावमावेदयेद्, भाव एव सामर्थ्यावधारणात् । न चैवमेव न्याय्यम् । देवदत्तो गेहे नास्तीति शब्दाद्, मया तत्र जिज्ञासमानेनापि न दृष्टो मैत्र इत्यवगतानुपलब्ध्यनुमानादप्यवगतेः। ग्राहयतु वाश्रयमिन्द्रियं, तथापि न तेनेदं व्यवधीयते व्यापारत्वात्, अन्यथा सर्वसविकल्पकानां प्रत्यक्षत्वाय दत्तो जलाञ्जलिः स्यात् । नन्वेवं सति धूमोपलम्भोऽप्यस्य व्यापारः स्यात्, तथा च गतमनुमानेनापीति बोधनी। ज्ञानकारणमिति साध्यमध्याहार्यमभावप्रतियोगिनि घटादौ समर्थत्वात् शब्दलिङ्गादिन्द्रियस्यावान्तर- व्यापारत्वादधिकरणग्रहणेन व्यवधानाभावात् । इदं चाभावग्रहणेऽधिकरणग्रहणस्योपयोगमङ्गी- कृत्योक्तम् , अभावविषयविपर्ययज्ञानहेतूनां दोषाणामिन्द्रियाश्रयत्वात् अघटं भूतलमिति विशिष्टबुद्धे- रिन्द्रियहेतुत्वाच्चेति । तत्रायं व्याचष्टे यद्धि इति । भावग्राहिणः प्रमाणस्य तदभावेऽपि सामर्थ्या- नङ्गीकारेऽनिष्टमाह अन्यथा इति । शब्दादेरप्यभावानापादकत्वमस्त्वित्यत्राह न चैवमेव इति । मैत्रो नास्तीत्याप्तवाक्यान्न दृष्ट इत्याप्तवाक्यावगतानुपलब्धिलिङ्गादपि तदभावावगतेरिति । द्वितीयं विवृणोति ग्राहयत्विति । आश्रयग्रहणव्यापृतमपीन्द्रियमभावबुद्धेः कारणं तस्येन्द्रियावान्तरव्यापार त्वेनतद्व्यवधायकत्वादिति । यद्यवान्तरव्यापारोऽपि व्यवदध्यात् ततः सविकल्पकज्ञानानां प्रत्यक्षत्वं न स्यात् निर्विकल्पकज्ञानव्यवहितत्वादिन्द्रियस्येत्याह अन्यथा इति । यदि व्यवधानेनेन्द्रियमेवाभावज्ञाने कारणं स्यात् तर्ह्यवान्तरव्यापारीकृतधूमज्ञानमिन्द्रियमेवाग्निं ग्राहयेत् , तत्र चाभावप्रमाणवदनुमानमपि दत्तजलाञ्जलि स्यादित्याह ननु इति । तदवान्तरव्या- प्रकाशः। ग्राहकं मानं तदभावग्राहकमपि, यथा लिङ्गाद्यतीन्द्रियभावग्राहकमभावधीकरणमित्यर्थः । ननु प्रति- योगिग्राहकत्वमतन्त्रम् , अनन्यथासिद्धत्वस्योपाधित्वात् । इन्द्रियं त्वाश्रयग्रहे अन्यथासिद्धमित्यत आह व्यापारेति । अभावभ्रमस्य दुष्टकरणजन्यत्वादुपलब्धेश्च स्वरूपतो दुष्टत्वाभावात् पित्ता- दिना दुष्टमिन्द्रियं तत्करणमित्याह अद्येति । किञ्चाधिकरणाभावयोर्विशिष्टधीर्नेन्द्रियजन्या प्रभा- वबुद्धित्वात् , नानुपलब्धिजन्या भावबुद्धित्वात् , नोभयजन्या जातिसङ्करप्रसङ्गादित्यभयग्राहक- मिन्द्रियं मन्तव्यमित्याह विकल्पनादिति ॥ यद्धीति । ननु न व्यक्तिधर्मोऽयं नियमः। भावग्राहकलैङ्गिकादिव्यक्तैरेवाभावग्राहकत्वात् । नाऽपि तज्जातीयं तथा, उपमाने व्यभिचारात् , सुरभि चन्दनमितिवदुपनीताभावभानेन सिद्धसा- धनंच । मैवम् । चक्षुष्टादिकमभावग्राहकवृत्ति, भावग्राहकवृत्तिजातित्वात् शब्दत्ववत् । उपमान- त्वञ्च न जातिः, योगजधर्मजन्यजन्यस्वविषयकसविकल्पकाजन्य-सामान्यलक्षणप्रत्यासत्त्यजन्य- जन्याभावप्रमित्यसाधारणकारणतावच्छेदकं चात्र साध्यं विवक्षितमिति नोपनीताऽभावभानेन सिद्ध- साधनमित्याशयात् । अन्यथेति । इन्द्रियस्य निर्विकल्पकेनान्यथासिद्धेरित्यर्थः ॥ नन्वेवमिति । वह्नयनुमितावपि धूमज्ञानं चक्षुषो व्यापार एवेति नानुमानसम्भव इत्यर्थः । प्रकाशिका । चक्षुष्टादिकमिति । लिङ्गविधया चक्षुषोऽप्यभावकारणतया सिद्धसाधनं माभूदिति कारणताव- च्छेदकत्वपर्यन्तं साध्यम् । न च गत्वे व्यभिचारः, गकारस्यापि क्वापि गत्कत्वादिति वाच्यम् । न पद- साहित्येन तस्यापि भावग्राहकत्या साध्यंसत्वात् । योगजेति । हेतावपि जातिपदं कारणतावच्छेदक- मकरन्दः। चक्षुष्टादिकमित्यनुमानमन्यञ्च सर्वं प्रत्यक्षप्रकाशे विपश्चितम् ॥ २१ ॥
तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४३ चेन्न । यथा क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात्। न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वह्निज्ञानकारणत्वं न निर्वहति, संयोगवदिति । अस्ति च भावाभावविपर्ययः । सोऽयं यस्य दोषमनुविधत्ते, तदेवेवात्र करण- मिति न्याय्यम् । न चानुपलब्धिः स्वभावतो दुष्टा, नाप्यधिकग्रहणप्रतियोगिस्मरणं वा स्वभावतो दुष्टम् । अनुत्पत्तिदशायामनुत्पत्तेरुत्पत्तिदशायाञ्च स्वार्थप्रकाशन- स्वभावतया अपराद्वृत्तेः । असंस्पृष्टयोरधिकरणप्रतियोगिनोः संस्पृष्टतया प्रतिभानं दुष्टम्, संस्पृष्टयोश्वासंस्पृष्टयेति चेत् । नन्वेवमेव विपर्ययः । तथा च आत्मा- श्रयो दोषः । तस्माद् दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्ये अदुष्टस्य तत्समीचीनज्ञान- सामर्थ्यमपि । तथा च प्रयोगः—इन्द्रियमभावप्रमाकरणं, तद्विपर्ययकरणत्वात्, यद् यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमाकरणं चक्षुरिति । बोधनी । पारलक्षणमपि दृष्टोपवलिगतमित्याह न इति । न हि यद्येन जन्यते तत्सर्वं तस्य व्यापारः, किन्तु येन विना यस्य यदुत्पादनं न संभवति स एव तस्य कारणस्य तस्मिन् कार्ये जनयितव्येऽवान्तर- व्यापारः । न च वह्निसंयोगमन्तरेणैव धूमोपलम्भमन्तरेण चक्षुर्न वह्निज्ञानमुत्पादयति पुरोवर्तिनि वह्नौ तमन्तरेणैव तदुत्पादनदर्शनादिति । तृतीयं विवृणोति अस्ति च इति । अस्ति तावद्विद्यमान एव वस्तुनि नास्तीति विपर्ययात्मं- कोऽभावप्रत्ययः यस्मिन् दुष्टे सति भवति तदेवाद्दुष्टं समीचीनाभावज्ञानकारणं भवितुं युक्तमिति । ततः किमायातमिन्द्रियकरणत्वस्येत्यत्राह न च इति । न तावदनुपलब्धेरभावात्मिकाया दोषाश्रयत्वं संभवति । न चाधिकरणग्रहणस्य प्रतियोगिस्मरणस्य वा स्वगतो दोषः संभवति । कार्यप्रतिबन्धको हि दोषः, तयोस्तावदुत्पन्नयोरर्थप्रकाशात्मनः कार्यस्य केनापि प्रतिबन्धाग्रोगात् अनुत्पन्नयोश्च कार्याभावस्य स्वभावानिवन्धनत्वेन दोषानधीनत्वात्तस्मादिन्द्रियदोषादेवाभावविपर्यय इति शिष्यत इति भावः । दुष्टं हेत्वन्तरमाशङ्कते असंस्पृष्टयोरिति । अभावे भावविपर्ययो दृष्टान्तार्थ इति । नन्वेवम् इति । तथा प्रतिभानमेव विपर्ययो न त्वन्यस्तावत्साध्यः, तथा च ततो विपर्ययोत्पत्तौ विपर्ययादेव विपर्यय इति स्यादिति परिशेषसिद्धमुपसंहरति तस्मात् इति । उक्तमर्थं प्रयोगमा- रोपयति तथा च इति । प्रकाशः । क्रियया व्यापारेणेत्यर्थः । संयोगवदिति, व्यतिरेकदृष्टान्तः । यथा संयोगं व्यापारं विना चक्षुषो वह्निशाक्षात्कारकरणत्वं न निर्वहति, न तथा धूमपरामर्शं विनेत्यर्थः । न च वह्निज्ञानमात्रे तस्य व्यापारत्वाभावेऽपि वह्न्यनुमितौ व्यापारत्वं स्यादिति वाच्यम् । शाब्दलिङ्गपरामर्शादपि वह्न्यनु- मानादिति भावः । न चेति । न चानुपलब्धेर्लिङ्गाभासादिवद् दोषस्वभावत्वाभावेऽपि पित्तादि- दोषसाहित्यमेवेन्द्रियस्येव दुष्टत्वं स्यादिति वाच्यम् । लिङ्गाभासाद्यजन्यभ्रमत्वेन इन्द्रियकरणकत्वा- नुमानादित्यर्थात् । अनुत्पत्तीति । अधिकरणादिज्ञानाभावकाले स्वाभावादेव दुष्टत्वाभावात्, तदुत्पत्तिक्राले तु स्वार्थविषयत्वमवावितमेवेत्यर्थः । आत्माश्रय इति । दोषाद् भ्रमो भ्रमस्यैव दोषत्वमिति तस्मादेव स स्यादित्यात्माश्रय इत्यर्थः ॥ तद्विपर्य्येयेति । न च यद् यद्विपर्ययजनकं तत्तत्प्रमांजनकमिति पित्तादिदोषेऽनैकान्तिकम् । इन्द्रियत्वेन दोषान्यत्वेन वा हेतुविशेषणात् । किं प्रकाशिका । जातिपरमित्यवधेयम् । इन्द्रियत्वेनेति । अत्र प्रमास्वरूपयोग्यत्वं साध्यमतो न फलानुपहितव्यक्तौ