न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 468, कुल 608 में से
संदर्भ में पढ़ेंशब्दध्वंसादिनोक्तोत्तरत्वात्। अपिच प्रतियोगिग्राहकेन्द्रियेणाधिकरणधर्मप्रतीतिर- नुपलब्धेरङ्गमिति, तद्रहितायास्तस्याः कार्यव्यभिचाराद्व्यवस्थाप्येत, व्याप्तिवलाद्वा?। न तावदुक्तरूपानुपलब्धिस्तां विना अभावप्रत्ययमजनयन्ती दृश्यते। नापि व्याप्तेः। तथासति वायौ रूपाभावप्रत्ययस्तामाक्षिपेत्, एवम्भूतत्वात्। अनाक्षेपे चा, न तत्कारणको भवेद् न वा भवेत्। ततो न भवत्येव, लिङ्गात्तदुत्पत्तिरिति चेत्। ननु लिङ्गमपि सैव, न तत्त्वान्तरम्। यथा योनिसम्बन्धोऽलिङ्गदशायामिन्द्रियस- बोधनी। प्रमाणं वायो रूपाभावश्चाक्षुष इत्यभ्युपगच्छ । न च कथं नामाचाक्षुषो वायौ रूपाभावश्चाक्षुषः स्यां- दिति शङ्कावकाशः शब्दप्रध्वंसप्रत्यक्षत्वसाधनेनाधिकरणप्रत्यक्षत्वस्यानङ्गत्वप्रतिपादनेन दत्तोत्तरत्वा- दित्याह न शब्देति । तदेवं यदि प्रतियोगिग्राहिणेन्द्रियेणाधिकरणसमवेतं धर्मोपलम्भः तद्वि- षयाभावग्रहे हेतुः ततो वायौ रूपाभावप्रतीतिर्न स्यात् अनुमानस्तत्प्रसिद्धेरित्युक्तम्, इदानीं तत्रैव दूषणन्तरमाह अपि च इति। तद्रहिताया वस्त्वन्तरप्रतीतिरहितायास्तस्या अनुपलब्धेः कार्य- व्यभिचारात्सत्यामनुपलब्धौ कदाचित्कार्यस्याभावग्रहणस्यानुत्पत्तेः तत्प्रतीतिरप्यङ्गममिति व्यवस्था- प्येत व्यतिरेकाभावेऽप्यन्वयव्याप्तिवलाद्वेति। तत्र प्रथमे दूषणं न तावत् इति। + प्रति + + प्रतियोगिग्राहकेन्द्रियसन्निकर्षैः सहितानां प्रतीतिद्वये दूषणं - नापि व्याप्तेः इति । सत्यां हि व्याप्तौ भवन् रूपाभावप्रत्ययः तां वस्त्वन्तरप्रतीतिमाक्षिपेदेवम्भूतत्वादभावप्रत्ययस्य वस्त्वन्तरप्र- तीतिव्यासत्वात् । यदि नाक्षिपेत् तर्ह्यभावप्रत्ययो वस्त्वन्तरप्रतीतिहेतुको न स्यात्स्वयं वा न भवेत् तत्कारणकस्य वस्त्वन्तरग्रहणस्याभावात् । अस्ति चायं चायाविति प्रतिक्षिप्तमपि पक्षं दूषणान्तर- विवक्षयोपक्षिपत्ति तत इति। ततः प्रमाणान्तरभूताया अनुपलब्धेर्वायौ रूपाभावप्रतीतिर्न भवती- त्येव किंतु लिङ्गभूताया तदा च वस्त्वन्तरप्रतीतिर्नापेक्षणीयेति। लिङ्गमपि इति । न हि तस्या एव कदाचिद्वस्त्वन्तरप्रतीतिरपेक्षणीयाऽन्यदापि युक्तमिति। ननु यथा ह्यलिङ्गदशायां मातापितृसं- बन्धश्चक्षुःसंनिकर्षमपेक्षते ब्राह्मण्यज्ञानेन तु लिङ्गावस्थायां तथेहापि स्यादित्याह यथा इति । न प्रकाशः। योगिमत्तयाऽनुपलम्भाद्वायौ रूपाभावः प्रत्यक्षत्वान्नानुमेयः, शब्दाभावप्रत्यक्षत्वव्यवस्थापन या आश्र- ययोग्यतायास्तद्धर्मग्रहस्य चाभावप्रत्यक्षताऽङ्गत्वनिरासादिति परिहरति शब्देति। व्याप्तिवलाद्वेति। कार्यकारणभावस्य व्याप्तिविशेषत्वेन गोवृषन्यायात् तां विनां याः व्याप्तिस्तद्वलादित्यर्थः। तां विनेति। अधिकरणवृत्तितद्धर्मप्रतीतिं विनेत्यर्थः। एवम्भूतत्वाद् व्याप्यत्वादित्यर्थः। अनाक्षेपे चेति। अधिकरणवृत्तितद्धर्मप्रतीत्यनाक्षेपे वा नाभावधीस्तद्धेतुका तद्व्याप्या वा । तथात्वे वा हेतुं विना व्यापकं विना वा न भवेदित्यर्थः। **ततः-**अधिकरणधर्मप्रतीतीत इत्यर्थः। सैव- अनुपलब्धिरेवेत्यर्थः। यथेति। यथा विशुद्धमातापितृयोनिरुजत्वं लिङ्गालिङ्गदशायामिन्द्रियसम्बन्धनिरपेक्षसापेक्षं, तथानुप- प्रकाशिका। न अनुपलब्धिलिङ्गात्सुमेयो वायौ रूपाभाव इति समुदायार्थः। न च ज्ञानप्रत्यक्षत्वमङ्गीकृत्य ममैक- देशिनः प्रत्यवस्थानमुचितमिति वाच्यम्। अनुपलब्धेः कारणत्वेऽपि निर्व्यापारत्वेनाकरणत्वादिति भावः। तद्रहिताया इत्यादेः कार्यकारणभावपरत्वादाइ कार्यकारणोति। सैवेति। तच्च दूषित- मिति भावः। तथेति। अधिकरणधर्मप्रतीतिनिरपेक्षा तत्सापेक्षा चेत्यर्थः। सा अधिकरणधर्म- मकरन्दः। ^सैवेति। तच्च दूषितमिति भावः। तथेति। अनुपलब्धिरप्यधिकरणधर्मज्ञाननिरपेक्षासापेक्षा स्यादित्यर्थः।