न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 467, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३५ श्रय एव । आत्माश्रयेतरेतराश्रयचक्रकप्रवृत्तिप्रसङ्गात् । न चाज्ञातस्योपलम्भाद्य- भावस्य लिङ्गत्वम् । न च प्राक्प्रध्वंसाभावः सत्तामात्रेणोपलम्भाभावमावेदयतीति युक्तम् । लिङ्गाभावस्य तथात्वेऽतिप्रसङ्गात् । अविनाभावबलेन तु नियमे तत्प्र- तिसन्धानापत्तेः । न ह्यविनाभावः सत्तामात्रेण ज्ञानहेतुं नियमयति, धूमादा- वपि तथाभावप्रसङ्गादिति । ज्ञानप्रत्यक्षत्वेन त्वद्दिशा अविष्यतीति चेन्न । बोधनी । ज्ञानाभावादिति । न च व्यवहाराभावमात्रेणोत्यादेरपरा व्याख्या—न केवलमनैकान्तिकः असिद्धश्च व्यवहाराभाव इत्याह न च इति । उक्तस्यैवानैकान्तिकत्वस्यानुभाषणं दृष्टान्तार्थमिति व्यवहारस्वरूप- निरूपणपुरःसरं व्यवहाराभावं निरूपयंस्तस्यासिद्धिमेवाह तद्विषयस्तु इति । ननु विद्यमान एवानुपलम्भो यदि रूपाभावं गमयेत् अविनाभावेन तत एते दोषाः प्रादुष्युः, न त्वेवमित्याशङ्कयाह न चाज्ञातस्य इति । तथा सति लिङ्गत्वं न स्यादिति भावः । ननूपलम्भलिङ्गस्य प्राक्प्रध्वंसा- भावो लिङ्गिन उपलम्भस्याभावं गमयिष्यतीत्याह न च इति । स हि लिङ्गाभाव इत्येव लिङ्गिनोऽभावं गमयेदविनाभावेन वा ! प्रथमे धूमाभावोऽप्यग्न्यभावं गमयेत्, द्वितीये त्वविनाभावः स्वस्य हेतुस्वरूपस्य च प्रतिसंधानमपेक्षेत, अन्यथाऽतिप्रसङ्गादिति । ननु नैयायिकमतालम्बनेन प्रत्यक्षत्वमभ्युपगच्छामः, ततो भावप्रमाणावगतेनैव ज्ञानाभावेन वायौ रूपाभावमनुमीमह इत्याह ज्ञानप्रत्यक्षत्वेन इति । तर्हि प्रामाणिकं पन्थानमागतो यथा- प्रकाशः । एवेत्यर्थः। आत्माश्रयेति। यदि तद्विषयज्ञानाभावेनैव तद्विषयज्ञानाभावोऽनुमेयस्तदाऽऽत्माश्रयः । अथ तद्विषयज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकव्यवहाराभावेन च तद्विषयकज्ञाना- भावज्ञानं, तदाऽन्योन्याश्रयः । अथ तद्विषयज्ञानाभावात् तद्विषयकव्यवहाराभावज्ञानं, तद्विषयकज्ञाना- भावश्च तद्विषयकप्राक्प्रध्वंसाभावात् , स च तद्विषयकज्ञानाभावात् , तर्हि चक्रकमित्यर्थः । नन्वन्येषामज्ञातानामलिङ्गत्वेऽपि प्राक्प्रध्वंसाभावः सत्त्वयैव ज्ञानाभावं गमयिष्यति । न चायोग्य- प्रतियोगिकत्वेनायोग्योऽस्याभाव इति वाच्यम् । अनुपलब्धेरेव तद्विशेषणवत्त्वादित्यत आह न चेति । स हि व्याप्तिबलेन वा प्रतिपादयेल्लिङ्गाभावत्वमात्रेण वा, कार्य्याभावमात्रतया वा ? तत्रं न मध्यमान्तिमावित्याह लिङ्ग'भावस्येति । धूमाभावस्यापि सत्त्या गमकत्वापातादित्यर्थः । आद्यमा- शङ्कय निराकरोति अविनाभायेति । न ह्युपलम्भाभावो भवतामभावोपलम्भ इत्यत्र शङ्कते ज्ञानेति । प्रत्यक्षेण ज्ञानाभावं ज्ञात्वा तस्माल्लिङ्गाद्वायौ रूपाभावानुमानं स्यादित्यर्थः । मन्मते प्रति- प्रकाशिका । शक्यनिश्चय इति आद्ययोरिति पङ्क्त्यर्थः । तदाश्रयधर्म्मघटितप्रतियोगिकतया प्राक्प्रथाभावाद्- निश्चय इति तदाश्रयेत्याद्युत्तरपङ्क्त्यर्थ इत्याहुः । न चायोग्यप्रतियोगिकत्वेनेति स्वरूपसद्भावो योग्यप्रतियोगिकमेवाभावं गमयतीत्यर्थः । अनुपलब्धेरेवेति । अनुपलब्भस्य ग्राहकत्वे स नियम इत्यर्थः । न ह्युपलम्भाभाव इति । नैयायिकोक्तं शंकत इत्यर्थः । प्रत्यक्षेण स्वरूपसदनुपलब्ध्या । मन्मत इति । मन्मताश्रये रूपाभावो वायौ प्रत्यक्ष एव तदनाश्रये तु ज्ञानाभावोऽयोग्य एवेति मकरन्दः । निश्चयः । एवञ्च तदाश्रयधर्म्माभावस्तद्विषयप्राक्प्रध्वंसाभावः, तस्यापि तदनुमापकत्वे चक्रकादिना सोऽशक्यनिश्चय इत्यत्र तात्पर्यम् । ज्ञानाभावान्तर्भूतो ज्ञानघटितप्रतियोगिकतया ज्ञानाभाववदतीन्द्रिय इत्यर्थः । ज्ञानाभावश्चेति । तज्ज्ञानमित्यर्थः । यद्वा अनुमेय इति पूर्वोक्तमनुषञ्जनीयम् । अनु- पलब्धेरेवेति । प्राक्प्रध्वंसाभावस्त्वयोग्यमपि गमयिष्यतीत्यर्थः ।