भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 459, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 459

Here is the line-by-line transcription of the Sanskrit text from the image into Devanagari Markdown:

तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४२७ अनुपलब्धिस्तु न बाधिकेति चिन्तितम् । न च प्रत्यक्षादेरतिरिच्यते । तदुच्यते- प्रतिपत्तेरपारोक्ष्यादिन्द्रियस्याानुपक्षयात् । अज्ञातकरणत्वाच्च भावावेशाच्च चेतसः ॥ २० ॥ या हि साक्षात्तारिणी प्रतीतिः सेन्द्रियकरणिका, यथा रूपादिप्रतीतिः । तथैहं- बोधनी । एवमर्थापत्तिर्न बाधिका न भिद्यते चानुमानादित्युक्तम् । अनुपलब्धेस्त्वबाधकत्वस्य चिन्ति- तत्पूर्वत्वादन्तर्भाव एवं चिन्तनीय इत्याह अनुपलब्धिस्तु इति । तत्तर्विदिह भूतले घटो नास्तीति प्रतीतेरि न्द्रियकत्वे चतुरो हेतूनुपन्यस्यति प्रतिपत्तेरिति । विप्रतिपन्ना प्रतीतिरिन्द्रियकरणिक अपरो- क्षरूपत्वात् रूपादिबुद्धिवदिति । अनन्यथोपक्षीणेन्द्रियान्वयव्यतिरेकानुविधायित्वात् अज्ञातकरणत्वाच्च । तथेयं प्रतीतिर्भावात्मप्रमाणसहकृतेन मनसा जायते वाह्यार्थानुभवत्वात् । भावरूपं च प्रमाणमिन्द्रिय- मेव परिशिष्यत इति भावः । भावावेशो भावप्रमाणसहकार इति । तत्राद्यं हेतुं विवृणोति या हि प्रकाशः । अनुपलब्धिस्तु स्वरूपसती परमात्मनो योग्यत्वाभावान्न बाधिका, ज्ञाताऽप्यनुमानरूपतया न बाधिका, अनुमानबाधकत्वस्य निरस्तत्वादित्याह- अनुपलब्धिस्त्विति । घटोपलम्भे घटाभावाज्ञानादनुपलब्धिरवश्यं हेतुरिति सैव करणमाव- श्यकत्वात् । न च प्रतियोग्यनुपलब्धिमात्रं न करणं, प्रतियोगिज्ञानस्याभावधीहेतुत्वात्, नाऽपि प्रतियोगिसत्त्वप्रमाविरहः, अत्यन्ताभावग्रहे तदप्रसिद्धेरिति वाच्यम् । यादृश्यास्त्वैन्द्रियसहका- रित्वम् , तादृश्याः करणत्वात् , न तु इन्द्रियमपि तत्करणं, गौरवादिति प्रसङ्गागतं निरस्यति न चेति । अभावस्य यथायथं प्रत्यक्षादिगम्यत्वादित्यर्थः । तत्र प्रत्यक्षगम्यत्वे मानमाह प्रतिपत्तेरिति । जन्यापरोक्षज्ञानस्येन्द्रियजन्यत्वनियमादित्यर्थः । तंत्र चान्वयव्यतिरेकतया योग्यानुपलब्धेः सहकारित्वं न निषिद्धयते इति भावः । इन्द्रियस्येत्यादि । इन्द्रियव्यापारस्यानन्यथासिद्धत्वादज्ञातकरणजन्यज्ञानत्वाच्चेत्यर्थः । भावावेशाच्चेति । अस्मदा- दिवाह्यानुभवस्य भावभूतकरणसचिवमनोजन्यत्वनियमादित्यर्थः । इन्द्रियकरणिकेति । यद्यप्यत्र मनसा सिद्धसाधनम् । न चेन्द्रियत्वेन तज्जन्यत्वं साध्यम् । प्रकाशिका । नापीति । अधिकरणविशेष्यकप्रतियोगिसत्त्वप्रमाविरहकरणमित्यर्थः, तेन नानाधिकरणान्तरे ति- योगिमत्वप्रमायामप्यभावधीः। प्रमापदञ्चाहार्यज्ञाननिवारणाय । अत्यन्तेति । वायौ रूपाभावप्रतीति- स्थले प्रतियोग्यप्रसिद्धेरित्यर्थः । न चाधिकरणे तादृशप्रमाविशेष्यत्वाभावः करणं समवायाभावस्थले प्रतियोग्यप्रसिद्धेः, न चाधिकरणविशेष्यकानाहार्य्यतादृशज्ञानाभावः तथा, तथा च तादृशभ्रममादाय सङ्गतिरिति वाच्यम् । यंत्राधिकरणे स्वस्य न तादृशो भ्रमस्तदधिकरणे तदभावग्रहापत्तेः, स्वीयत्वस्याज्ञानविशेषणत्वात् , अन्यथा पुरुषान्तरीयं भ्रमदशायामभावग्रहापत्तेरिति दिक् । तादृश्या इति । तथा च स्वीयतत्तत्कालीनाधिकरणज्ञानेऽनाहार्यप्रतियोगिसत्त्वप्रकारकत्वाभावः करणमिति मकरन्दः । नापीति । अधिकरणे इति शेषः । अत एवाह अत्यन्तेति । वायौ रूपान्त्यन्ताभावग्रहे अधिकरणे प्रतियोगिप्रमाऽसिद्धेरित्यर्थः । गौरवादिति । उभयकारणकल्पने गौरवादित्यर्थः ।