न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 460, कुल 608 में से
संदर्भ में पढ़ेंभूतले घटो नास्तीत्यपि। साक्षात्त्वमस्या असिद्धमिति चेन्न। एकजातीय- त्वे ज्ञाताज्ञातकरणत्वानुपपत्तेः। न हि तस्मिन्नेव कार्ये तदेव करणमेकदा ज्ञात- मज्ञातञ्चैकदोपयुज्यते, लिङ्गेन्द्रिययोरपि व्यत्ययप्रसङ्गाज्ज्ञानस्याकारणत्वप्रस- ङ्गाच्च। न हि तदतिपत्त्यापि भवतस्तत्कारणत्वं, व्याघातात्। तस्माज्ज्ञातानु- पलब्धिजन्यस्यासाक्षात्कारित्वात् तद्विपरीतकारणकमिदं तद्विपरीतजातीयमिति न्याय्यम्॥
बोधनी। इति। प्रतिज्ञायासिद्धो हेतुरित्याह-साक्षात्कारित्वम् इति। न इति। नास्तीति बुद्धयः काश्चिदज्ञातकरणिकाः, काश्चिद् ज्ञातकरणिकाः, तत्र यद्युभयेऽप्यसाक्षात्कारजातीयाः तत इदं कारणवैचित्र्यं न स्यादिति। विपर्ययेऽनिष्टमाह लिङ्गेति। असाक्षात्कारिज्ञानजनकस्यापि लिङ्गस्य सत्ताया हेतुत्वं साक्षात्कारहेतोरपीन्द्रियस्य ज्ञायमानतया हेतुत्वं च प्रसज्येतेति। किं च यद्यज्ञातादपि करणाज्जातीयमेव ज्ञानं जायेत तदा तत्र कारणमेव तज्ज्ञानं भवेत् व्यतिरेकाभावादित्याह ज्ञानस्य इति। यत एवं तस्माज्ज्ञातानुपलब्धिजन्यस्यासाक्षात्कारित्वमभ्युपगच्छतामवश्यमज्ञातानुपलब्धिज- न्यस्य साक्षात्कारित्वमवर्जनीयमित्याह तस्मात् इति।
प्रकाशः। साक्षात्प्रतीतिकरणस्यैवेन्द्रियतया तेनैव तदनवच्छेदादात्माश्रयात्। तथापि रूपाभावादिप्रतीतेर्ब- हिरिन्द्रियान्तरराजन्यबहिर्विषयकजन्यसाक्षात्कारित्वाच्चाक्षुषत्वादित्वं साध्यमिति भावः। अनुपलब्धेरपि ज्ञातानुपलब्ध्यन्तरगम्यत्वेनानवस्थानात् क्वचिदज्ञाता चैव करणमुपेयेत्यशियेनाह एकैति। अज्ञातकर- णकानुभवत्वं साक्षात्त्वव्यवस्थापकम्, अतः स्मृतेरज्ञातकरणकत्वेऽपि न तदिति भावः। यदि च नैवं, तदा लिङ्गमपि साक्षात्कारमिन्द्रियमप्यनुमिति जनयेदित्याह लिङ्गेति। ज्ञातकरणकत्वं ज्ञान- करणकत्वं लिङ्गादेरजनकत्वादिति व्यभिचारादभावज्ञाने तत्करणं न स्यादित्याह ज्ञानस्येति। तद्विपरीतेति। अज्ञातयोग्यानुपलब्धिकरणकं साक्षात्कारजातीयमित्यर्थः। ननु आङ्गनास्तितायामिन्द्रियं
प्रकाशिका। भावः। साक्षादिति। तथा चेन्द्रियत्वं न साक्षात्कारिकारणतावच्छेदकमात्माश्रयादिति साध्या- प्रसिद्धिरिति भावः। स्मृत्यजनकज्ञानकारणमनःसंयोगाश्रयत्त्वादिना तन्निर्वचने यद्यपि नोक्तदोषः, तथापि समाधिसौलभ्यादाह तथापीति। रासनसाक्षात्कारे व्यभिचार इत्यजन्यान्तम्। अत्रापि अप्रसिद्धिवारणाय बहिःपदम्। सुखादिसाक्षात्कारे व्यभिचार इति बहिर्विषयकेति। ईश्वरज्ञाने व्यभिचार इति जन्यपदम्। तच्च लौकिकपरमन्यथोपनीतघटादिगोचरमानससाक्षात्कारे व्यभि- चारात्। यद्वा बहिर्विषयजन्यसाक्षात्कारत्वं हेतुः, स्वार्थे कन्प्रत्ययः। अस्तु सर्वत्र ज्ञातेवानुपलब्धिः कारणमत आह अनुपलब्धेरपीति।
मकरन्दः। साक्षादिति। तथा चेन्द्रियत्वं न साक्षात्प्रतीतौ कारणतावच्छेदकमात्माश्रयादिति तत्साधने बाध इति भावः। यद्यपि स्मृत्यजनकज्ञानकारणमनोयोगाश्रयत्त्वादिना तन्निर्वचने नोक्तदोषः, तथापि समा- धिसौकर्यादाह तथापीति। अत्र रासनप्रत्यक्षे व्यभिचारवारणायाजन्यान्तम्। एतच्च रूपाभाव- बुद्धौ चाक्षुषत्वसाधने रसाभावबुद्धौ रासनत्वसाधने चाक्षुषप्रत्यक्ष एव तद्वारणीय तदित्यवधेयम्। अप्रसिद्धिवारणाय प्रथमबहिःपदम्। मनोमात्रकरणके व्यभिचारादाह बहिर्विषयकेति। ऐशे व्यभिचारादाह जन्येति। अनुमित्यादौ व्यभिचारादाह साक्षात्कारित्वादिति। न चोपनीतवि- षये मानसप्रत्यक्षे व्यभिचारः, जन्यपदेन लौकिकत्वस्य विवक्षितत्वात्। वस्तुतो बहिर्विषयकजन्ये- त्यत्र स्वार्थिककन्प्रत्ययाद्वहिर्विषयजन्यत्वं विवक्षितम्, तस्य च विषयाजन्यत्वादिति। नन्वस्तु तर्हि सर्व्वत्र ज्ञातेवानुपलब्धिः करणमित्यत आह अनुपलब्धेरपीति। सामान्याभावेन उपलम्भसामा-