भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 461, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 461

तृतीयस्तवके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४२६ ननु क्व नाम ज्ञातानुपलब्धिरसाक्षात्कारिणीमभावप्रतीतिं जनयति । तद् यथा निपुणतरमनुसृतौ मया मन्दिरे चैत्रो न चोपलब्ध इति श्रुत्वा श्रोताऽनुमिनोति, नूनं नासीदेवेति । एतेन प्राङ्नानास्तिताऽपि व्याख्याता । ननु तथाप्यवान्तर- जातिभेदोऽस्तु अज्ञातानुपलब्धिजन्ये साक्षात्कारस्तु कुत इति चेत्। कारणविरोधात्- बोधनी। स्यादेवं यदि ज्ञातानुपलब्धिः क्वचिदसाक्षात्कारं जनयेत्, न चैवमस्तीत्याशयेनाह ननु क्व नाम इति । तत्रोदाहरणनोत्तरयति तद्यथा इति । न हि तदा देशान्तरस्थस्य श्रोतुर्योग्यानुपलब्धिरस्ति किं त्वाप्तवाक्यावगतयाऽनुमिनोतीति । एवं प्रातः कालेऽनुपलब्धस्य मैत्रस्य मध्यन्दिनसमयभाविप्रातस्त- नाभावज्ञानमप्यनुमानफलमेव मध्यन्दिनानुसंवीयमानप्रास्तनानुपलब्धिलभ्यत्वादित्याह एतेन इति । नन्वस्तु ज्ञातानुपलब्धिजन्यादज्ञातानुपलब्धिजन्यस्य जातिभेदः स तु साक्षात्काररूप इति कुत इत्याह ननु इति । न हि विधाद्वयव्यतिरेकेण ज्ञानावान्तरजातिभेद इत्यभिप्रायेणाह कारणविरोधा- प्रकाशः। विनाप्यभावधीरिति व्यभिचारादिन्द्रियमकरणमित्यत आह एतेनेति । यथा शब्दावगतानुपलब्ध्या लिङ्गेनाभावानुमानं, तथा प्राङ्नास्तितास्थलेऽप्यभावधीर्लिङ्गजेत्यर्थः । ननु तत्रास्मरणं न लिङ्गं, न हि यावदनुभूतं तावदेव ग्रहणयोग्यमपि स्मर्यत एवेति नियम इति, मैत्रस्य तद्गेहसत्त्वेऽप्यननु- भवात् संस्कारानुत्पादात्तदनुद्बोधाद् वा तदस्मरणस्योपपत्तेः । न । कश्चिद्विषयविशेष एव हि तादृशो यो गेहादिनिष्ठतया अनुभूयत एव, तदनुभवेन च संस्कारो जन्यत एव, स च न नश्यति । नाऽपि तदुद्बोधकान्तरापेक्षा । विलक्षणविषयविशेषमाहात्म्यात् । यथा श्रीविश्वनाथायतने भगवन्तं श्रीविश्वनाथमनुभवतः, तथा मैत्रमपि प्रेक्षम् । प्रयोगश्च-तद्गेहं तदा मैत्राभाववत् तत्तुल्यपरिमाण- घटादिस्मरणेऽपि तद्गतया अस्मर्यमाणत्वात्, यदेवं तदेवं, यथा पटाभाववद् भूतलमिति । स्मरणाभावश्च संयुक्तविशेषणतया मनोवेद्य एवेति भावः । केचित्तु यत्र सामान्याभावेन लिङ्गेन विशेषाभावानुमानं, तत्र ज्ञातानुपलब्धिरनुमानाङ्गमिति तत्परोऽयं ग्रन्थ इत्याहुः । ननु ज्ञातानुपलब्धेरसाक्षात्कारजनकत्वेऽप्यज्ञातानुपलब्धिजन्ये अवश्यं साक्षात्कारित्वमिति न नियमो वैजात्यान्तरेणाप्युपपत्तेरित्याह नन्विति । सर्वत्र असाक्षात्कारित्वस्य ज्ञायमानकरणजन्यत्व- व्याप्तैस्तन्निवृत्तावसाक्षात्कारित्वव्यावृत्तेरवान्तरजातिः साक्षात्कारित्वमेवेत्याह कारणेति । न च साक्षात्कारित्वमिन्द्रियजन्यत्वप्रयुक्तमेवेति वाच्यम् । ज्ञातेन्द्रियसन्निकर्षजेन्द्रियगतिज्ञानस्य साक्षा- प्रकाशिका। कैश्चिदिति । उपलम्भसामान्याभावेन यत्रोपलम्भविशेषाभावानुमानं तत्रैव ज्ञातानुप- लब्धेः कारणत्वमिति इत्यपि दूषणान्तरमाहेत्यर्थः । मकरन्दः। न्याभावेन विशेषाभावानुमानमित्यर्थः । इन्द्रियजन्यत्त्वेति । इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः । तेन नोत्तरविरोधः । इन्द्रियविशिष्टसन्निकर्षहेतुत्वे इन्द्रियहेतुत्वमपीति न विरोध इत्यन्ये । ज्ञायमानक- रणत्वमाश्रित्याह ज्ञातेन्द्रियेति । चक्षुर्गतिमत् गतिशून्यसंयोगित्वादित्यनुमितेरित्यर्थः । नन्वेवम- साक्षात्कारित्वमपि तत्र न स्यादिन्द्रियसन्निकर्षान्यकरणस्य तत्र प्रयोजकत्वादित्यत आह टिप्पणी। तत्परोऽयं ग्रन्थ इत्याहुरिति । एतेनेत्यादिग्रन्थः प्राङ्नास्तिता च, गृहविशेषे चैत्रोपलब्धेः अहं गृहविशेषे तदा चैत्रोपलब्ध्यभाववान् , चैत्रोपलब्धेरभावात् मया चैत्र एव कदापि नोपलब्धः गृहे तदुपलब्धेः का कथा इत्यभिसन्धिः ।

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक) · पृष्ठ 461, कुल 608 में से · BharatKosha