भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 470, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 470

४३८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [२० कारिकाव्याख्यायां

प्रत्यक्षम्, तथा चेह भूतले घटो नास्तीति ज्ञानमिति । यथा वा स्मरणमज्ञायमा- नकरणजं साक्षान्मनोजन्म । कुतस्तर्हि न साक्षात्कार्यनुभवरूपम् ? । संस्काराति- रिक्तसन्निकर्षाभावादिति वक्ष्यामः। बोधनी । मिति तत्रैवोदाहरणान्तरमाह यथा वा इति । यदि स्मरणं साक्षान्मनेन्द्रियजं तर्हि सुखादिज्ञान- वदस्य साक्षात्कारित्वानुभवत्वे न किमिति स्त इत्याह कुत इति । प्रकाशः। दिति, मनसा व्यवहितव्यापारेण सिद्धसाधननिरासार्थम्, उपनीतभाननिरासार्थं वा। कुत इति। साक्षादिन्द्रियसन्निकर्षजन्यस्य प्रत्यक्षत्वव्याप्तत्वादित्यर्थः । संस्कारेति । संस्कारान्यः सन्निकर्षः प्रकाशिका । (१) तत्पर एतेन प्राङ्नास्तीत्यादिग्रन्थ इत्यर्थः । अरुचिबीजन्तु सन्मुखार्थत्याग एवेति । इन्द्रियजन्यत्वेति । इन्द्रियसन्निकर्षजन्यत्वेत्यर्थः । तेन नोत्तरविरोधः । तथा च ज्ञानाकरणकत्वं साक्षात्त्वप्रयोजकमिति भावः । इन्द्रियसन्निकर्षजेति । चक्षुष्कृतिर्गतिमत्संयोगजन्या चलघटसंयोगाश्रयत्वादित्यनुमितेर्ज्ञायमानकारणतापक्षे इन्द्रियसन्निकर्ष- जन्यत्वादित्यर्थः । ननूदाहतानुमितौ साक्षात्कारित्वं कुतः ? इन्द्रियसन्निकर्षात्मककरणजत्वप्रयोज्य- त्वात् साक्षात्कारित्वस्य, तथा च कथं साक्षात्कारित्वप्रसङ्ग इत्यत आह असाक्षात्कारित्व- स्येति । तथा च साक्षात्कारित्वप्रयोजकाज्ञातकरणकत्वाभावादेव तत्रासाक्षात्कारित्वमिति भावः । ननु असाक्षात्कारित्वं परोक्षत्वम् तच्च जातिरेव कुतो नैत्यत आह अनुभवत्वेनेति । स्मृतेरपि परोक्षत्वादिति भावः । इदञ्च वस्तुगतिमभिरुद्ध्य, वस्तुतस्तु जातित्वेऽपि ज्ञायमानकरणकत्वप्रयोज्य- त्वमेव तदिति नोक्तानुमितौ तदभावो नापि स्मृतिवृत्ति तदिति अनुभवत्वेन संकर इत्यवधेयम् । न चेति । इन्द्रियत्वेनेन्द्रियजन्यत्वं साक्षात्त्वप्रयोजकं, तथाचेन्द्रियाजन्यतया नाभावधीः साक्षात्क- रिणीति भावः । तत्रासिद्धिमाह प्रकृतेरपीति । तत्त्वात् = इन्द्रियजन्यत्वादित्यर्थः । वायोरतीन्द्रि- यतया त्वद्दुषनीतत्वमसम्भवतीति तदर्थमाह वायोरिति । तथा च धीरिति । यद्यपि रूपाभावधीः साक्षात्कारित्वेनैव नैयायिकाभिमतेति तस्या उक्तसामग्रीव्यभिचार एव, तथापि या धीः स्वरूपसद- नुपलब्धिजन्यत्वेनोभयसिद्धेत्यत्र तात्पर्य्यम् । साक्षात्कारित्वेनाभिमताया इति । स्वरूपसदनु- पलब्धिजन्यत्वेनोभयसिद्धाया इत्यर्थः । यदि चेति । तथाचानुपलब्धेः प्रतियोगिग्राहकेन्द्रियजन्या- धिकरणज्ञानसहकारिकारणविरहादिन्द्रियजन्यैव वायौ रूपाभावधीरिरिति भावः । प्रत्यक्षश्चेति । एतावता स्वरूपसदनुपलब्धेर्ग्राहकत्वमात्रंसिद्धावपि पूर्वोक्तयुक्त्यवष्टम्भेन प्रत्यक्षत्वसिद्धिरिति ध्येयम् । चक्षुषेति । तथा च नाश्रयग्रहे किन्तु तत्सन्निकर्ष एवेन्द्रियमन्यथासिद्धमिति भावः । सन्निकर्षेण यदीन्द्रियमन्यथासिद्धं तदा घटोऽपि नेन्द्रियग्राह्यः स्यादिति न तेन तदन्यथासिद्धिरित्याशयेन मूलं हन्तेवमिति । क्वचिदेतदाशयनेवेदिका सन्निकर्षो हीत्यादि पङ्क्तिका प्रकाश एव पठितेति । अकारणमेवेति । अप्रयोजकमेवेत्यर्थः । परम्पराकारणं कारणकारणमित्यर्थः । महान्धकार इति मूलं स्पर्शननेन्द्रिययोग्यालोकाभावप्रतिपादनाय । ननु प्रतीयत एवेति आकाशं, त्वचापि गृह्यत इति मतमाश्रित्येदमुक्तम् । नालोकसन्निकर्षेति । तत्र यद्यपि महान्धकारे ज्ञानाभावादित्यपि दूषणम्, तथापि तस्मिन्स ?–त्रुटिः ) । इदञ्च ज्ञायमानकारणत्वपक्षे न चाप्रयोजकत्वं निर्व्यापारत्वस्य विपक्षबाधकत्वात्, न च तयाप्तत्यकरणत्वप्रसङ्ग एवेत्यस्ति बाधकोऽपि तर्क एवेत्यत आह इन्द्रियेति । तथा


(१) इयं व्याख्या सिंहावलोकनन्यायेन ४२७ पृष्ठतो द्रष्टव्या ।