भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 471, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 471

तृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४३६ तथापि भावविषये इयं व्यवस्था, अभावज्ञानं त्वज्ञातकरणत्वेऽपि न साक्षा- दिन्द्रियजं भविष्यतीति चेन्न । उत्सर्गस्य बाधकाभावेन सङ्कोचाद्यनुपपत्तेः । अन्यथा सर्वव्याप्तीनां भावमात्रविषयत्वप्रसङ्गोऽविशेषात् । तथापि विपक्षे किं बाधकमिति · बोधनी । संस्कार इति । न तावदनुभवत्वं संस्कारातिरिक्तासाधारणकारणाभावान्, नापि साक्षात्का- रित्वमिन्द्रियार्थसन्निकर्षासमुत्थत्वादिति वक्ष्यामश्चतुर्थे परिच्छेदे इति । अज्ञायमानकरणकेन ज्ञानेनेन्द्रियेण भवितव्यमिति व्याप्तिर्भावज्ञानेषु नाभावज्ञानेष्वपीत्याह तथापि इति । न इति । सामान्यतः प्रवृत्ताया व्याप्तेर्बाधकमन्तरेणाभावविषयत्वेन संकोचानुप- पत्तेस्तथापि वा संकोचेऽतिप्रसङ्ग इति । मा भूत्संकोचः तथाप्यज्ञायमानकरणकस्यैव कस्यचिद् ज्ञान- स्यानिन्द्रियजत्वे किं बाधकमित्याह तथापि इति । बाधकं वि + (ना ?) + त्सर्गापवादेऽतिप्रसङ्ग इत्येत- प्रकाशः । प्रत्यक्षत्वप्रयोजकः, स्मरणे तु स एव सन्निकर्षः । प्रत्यभिज्ञाने तु तत्ता स्मृत्युपनीता भासते, न तु संस्कारस्तत्सन्निकर्षः । तज्जन्यत्वे स्मृतित्वापत्तेरित्यर्थः । तथापीति । विपक्षे बाधकाभावादित्यर्थः । न च भावविषयत्वमुपाधिः, अभावज्ञानेऽपि प्रतियोग्यादिभावविषयतया साधनव्यापकत्वात् । नाप्यभावविषयत्वं, अभावस्मरणे साध्याव्याप- कत्वात् । उत्सर्गस्येति । सामान्यत एव व्याप्तिर्भावविषयत्वस्य गुरुत्वादित्यर्थः । तथाप्यु- त्सर्गस्य बाध्यत्वशङ्कानिवारकं किमित्याह, तथापीति । निर्बीजतादृशशङ्कायां सर्वत्र सामान्य- प्रकाशिका । चेन्द्रियमेव करणमिति भावः । नन्विदमिति । न च तत्रापि मनोजन्यतया साध्यमस्त्येवेति वाच्यम् । यथाश्रुते सिद्धसाधनतया विषयप्रत्यासन्नेन्द्रियजन्यत्वस्य साध्यत्वात् । लिङ्गादीति । सिद्धान्तेऽप्यनुभवपदं ज्ञानपरम् । अत एव मूलोक्तद्वितीयदृष्टान्तासङ्गतिः साध्यस्यापि निरुक्तस्य संस्कारलक्षणां प्रत्यासत्तिमादाय स्मरणे सत्त्वात् । कैश्चित्तु सिद्धसाधनापनुत्तये मनोभिन्नेन्द्रियज- न्यत्वमिन्द्रियत्वेनेन्द्रियजन्यत्वं वा साध्यमित्याशयेन व्यभिचारदेशनेयं द्वितीयदृष्टान्ते चारुचिरेव प्रकाशकृतः अत एव सिद्धान्तेऽनुभवपदोपादानं करिष्यति स्मरणे निरुक्तसाध्याभावादिति वदन्ति । मास्तु प्रतियोगिज्ञानत्वेनाभावज्ञानं प्रति जनकत्वं तथाप्यसिद्धिरैवेत्याह सविकल्पकेति । मननेति- व्यवहितव्यापारत्वञ्च विषयाप्रत्यासन्नत्वादिकमेव बोध्यम् । उपनीतेति । तथा चोपनीताभावज्ञानेऽशतः सिद्धसाधनवारणाय साक्षात्पदं ज्ञानादिप्रत्यासत्तिरहितपरमिति भावः । साक्षादिति । यदपि चेन्द्रियत्वेनेन्द्रियजन्यत्वस्य साक्षात् प्रयोजकत्वेनेयं शङ्का तथापीन्द्रियसन्निकर्षासाधारणकारणत्वमेव साक्षात्त्वप्रयोजकमित्यभिप्रायेण शङ्केयमिति भावः । स्मृतित्वापत्तेरिति । इदमुपलक्षणम् । वस्तुतो विशिष्टानुभवं प्रत्यव्यवहितविशेषणज्ञानं कारणमन्यथा स्मरणसमयेऽनुभव एव स्यादिति त- त्राऽपि स्मृतिरेव प्रत्यभिज्ञाकारणमित्यपि द्रष्टव्यम् । विपक्ष इति । तथा चाप्रयोजकत्वपरोऽयं ग्रन्थ इति भावः । ननूपाधिपरत्वेनैव किमिति न व्याख्यात इत्यत आह न चेति । नत्वित्यर्थः । उपाधि- रित्यनन्तरमित्यर्थ इति शेषः । भावाभावविषयतेति काचित्कः पाठः । तत्राभावपदं दृष्टान्तार्थम् अभावस्मरण इति । एतच्च यथाश्रुतसाध्यं विषयप्रत्यासन्नेन्द्रियजन्यत्वं वा विवक्षितम् । साध्यमभिप्रेत्य पौनरुक्तमाशङ्क्याह तथापीति । आत्मादिना सिद्धसाधनवारणायाह । मकरन्दः । न चेति । न त्वित्यर्थः । इत्यर्थ इति शेषः, भावाभावविषयतेति यदि पाठः क्व चित्तदाऽभावपदं सम्पातायातम् । अभावस्मरण इति । एतच्च यथाश्रुते । वस्तुत उपनीताभावप्रत्यक्षे तयात्वम् । अदृष्टा- दिना अर्थान्तरादाह लिङ्गादिति ।