न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 475, कुल 608 में से
संदर्भ में पढ़ेंतृतीयस्तबके ] अनुपलब्धेर्मानान्तरत्वखण्डनम् । ४४३ चेन्न । यथा क्रियया विना यस्य यत्कारणत्वं न निर्वहति, तं प्रति तस्या एव व्यापारत्वात्। न च धूमाद्युपलब्धिमन्तरेण चक्षुषो वह्निज्ञानकारणत्वं न निर्वहति, संयोगवदिति । अस्ति च भावाभावविपर्ययः । सोऽयं यस्य दोषमनुविधत्ते, तदेवेवात्र करण- मिति न्याय्यम् । न चानुपलब्धिः स्वभावतो दुष्टा, नाप्यधिकग्रहणप्रतियोगिस्मरणं वा स्वभावतो दुष्टम् । अनुत्पत्तिदशायामनुत्पत्तेरुत्पत्तिदशायाञ्च स्वार्थप्रकाशन- स्वभावतया अपराद्वृत्तेः । असंस्पृष्टयोरधिकरणप्रतियोगिनोः संस्पृष्टतया प्रतिभानं दुष्टम्, संस्पृष्टयोश्वासंस्पृष्टयेति चेत् । नन्वेवमेव विपर्ययः । तथा च आत्मा- श्रयो दोषः । तस्माद् दुष्टेन्द्रियस्य तद्विपर्ययसामर्थ्ये अदुष्टस्य तत्समीचीनज्ञान- सामर्थ्यमपि । तथा च प्रयोगः—इन्द्रियमभावप्रमाकरणं, तद्विपर्ययकरणत्वात्, यद् यद्विपर्ययकरणं तत् तत्प्रमाकरणं यथा रूपप्रमाकरणं चक्षुरिति । बोधनी । पारलक्षणमपि दृष्टोपवलिगतमित्याह न इति । न हि यद्येन जन्यते तत्सर्वं तस्य व्यापारः, किन्तु येन विना यस्य यदुत्पादनं न संभवति स एव तस्य कारणस्य तस्मिन् कार्ये जनयितव्येऽवान्तर- व्यापारः । न च वह्निसंयोगमन्तरेणैव धूमोपलम्भमन्तरेण चक्षुर्न वह्निज्ञानमुत्पादयति पुरोवर्तिनि वह्नौ तमन्तरेणैव तदुत्पादनदर्शनादिति । तृतीयं विवृणोति अस्ति च इति । अस्ति तावद्विद्यमान एव वस्तुनि नास्तीति विपर्ययात्मं- कोऽभावप्रत्ययः यस्मिन् दुष्टे सति भवति तदेवाद्दुष्टं समीचीनाभावज्ञानकारणं भवितुं युक्तमिति । ततः किमायातमिन्द्रियकरणत्वस्येत्यत्राह न च इति । न तावदनुपलब्धेरभावात्मिकाया दोषाश्रयत्वं संभवति । न चाधिकरणग्रहणस्य प्रतियोगिस्मरणस्य वा स्वगतो दोषः संभवति । कार्यप्रतिबन्धको हि दोषः, तयोस्तावदुत्पन्नयोरर्थप्रकाशात्मनः कार्यस्य केनापि प्रतिबन्धाग्रोगात् अनुत्पन्नयोश्च कार्याभावस्य स्वभावानिवन्धनत्वेन दोषानधीनत्वात्तस्मादिन्द्रियदोषादेवाभावविपर्यय इति शिष्यत इति भावः । दुष्टं हेत्वन्तरमाशङ्कते असंस्पृष्टयोरिति । अभावे भावविपर्ययो दृष्टान्तार्थ इति । नन्वेवम् इति । तथा प्रतिभानमेव विपर्ययो न त्वन्यस्तावत्साध्यः, तथा च ततो विपर्ययोत्पत्तौ विपर्ययादेव विपर्यय इति स्यादिति परिशेषसिद्धमुपसंहरति तस्मात् इति । उक्तमर्थं प्रयोगमा- रोपयति तथा च इति । प्रकाशः । क्रियया व्यापारेणेत्यर्थः । संयोगवदिति, व्यतिरेकदृष्टान्तः । यथा संयोगं व्यापारं विना चक्षुषो वह्निशाक्षात्कारकरणत्वं न निर्वहति, न तथा धूमपरामर्शं विनेत्यर्थः । न च वह्निज्ञानमात्रे तस्य व्यापारत्वाभावेऽपि वह्न्यनुमितौ व्यापारत्वं स्यादिति वाच्यम् । शाब्दलिङ्गपरामर्शादपि वह्न्यनु- मानादिति भावः । न चेति । न चानुपलब्धेर्लिङ्गाभासादिवद् दोषस्वभावत्वाभावेऽपि पित्तादि- दोषसाहित्यमेवेन्द्रियस्येव दुष्टत्वं स्यादिति वाच्यम् । लिङ्गाभासाद्यजन्यभ्रमत्वेन इन्द्रियकरणकत्वा- नुमानादित्यर्थात् । अनुत्पत्तीति । अधिकरणादिज्ञानाभावकाले स्वाभावादेव दुष्टत्वाभावात्, तदुत्पत्तिक्राले तु स्वार्थविषयत्वमवावितमेवेत्यर्थः । आत्माश्रय इति । दोषाद् भ्रमो भ्रमस्यैव दोषत्वमिति तस्मादेव स स्यादित्यात्माश्रय इत्यर्थः ॥ तद्विपर्य्येयेति । न च यद् यद्विपर्ययजनकं तत्तत्प्रमांजनकमिति पित्तादिदोषेऽनैकान्तिकम् । इन्द्रियत्वेन दोषान्यत्वेन वा हेतुविशेषणात् । किं प्रकाशिका । जातिपरमित्यवधेयम् । इन्द्रियत्वेनेति । अत्र प्रमास्वरूपयोग्यत्वं साध्यमतो न फलानुपहितव्यक्तौ