न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 47, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] ईश्वरे संशयाभावेन तन्निरूपणाक्षेपः । २७ वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याज्ञिकाः, सर्वज्ञ इति सौगताः, निरावरण इति दिगम्बराः, उपास्यत्वेन देशित(१) इति मीमांसकाः, लोकव्यवहारसिद्ध इति चार्वाकाः, यावदुक्तोपपन्न इति नैयायिकाः, किं बोधनी । व्याख्यास्यति। पितामहः = जगतामुत्पादकः । यज्ञपुरुषः = यज्ञाधिष्ठातृदेवता । सर्वज्ञः = क्षणिक- सर्वज्ञः । निरावरणः = सर्वविषयकचैतन्याच्छादकत्वेन स्वकर्मार्जितं शरीरमावरणम् ; यद्वा वस्त्रादिभिरिव शरीरं धर्माधर्माभ्यामाश्रियते पुरुष इति तावेवावरणं, तद्रहितः । उपास्यत्वेन चोदितः चोदनासिद्धमुपास्यत्वं हविःप्रतियोगित्वं स्तुतिप्रतियोगित्वं चैव तस्य रूपं, न तु सर्ववित्त्वसर्व- कर्तृत्वादिकमिति । लोकव्यवहारसिद्धः = राजादिर्दृश्यमानः, चतुर्भुजादिरूपा प्रतिमा वा । याव- प्रकाशः । पितामहो = जनकस्यापि जनकः । यज्ञे प्रधानमिज्यं यज्ञपुरुषः । सर्वज्ञः = क्षणिकसर्वज्ञः । निरावरण इति । आवरणमदृष्टमविद्या स्वकर्मोपार्जितञ्च शरीरमस्य नास्तीत्यर्थः । उपास्य- त्वेनेति । वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरित्यर्थः । लोकेति । यथा लोके व्यवह्रियते चतुर्भुजाद्युपेतदेहवान्, नत्वदृश्य इत्यर्थः । यावदुक्तेति । यावदुक्तेषु यदुपपन्नं युक्तिमत् सर्वज्ञत्वादि, तेनोपपन्नः सम्पन्न इति मध्यपदलोपी समासस्तत्पुरुषः । यावदुक्तेषु उपपन्नः प्रमाणिको धर्मो यस्येति बहुव्रीहिर्वा । न तु यावद्भिरुक्तैरुपपन्नः सहित इत्यर्थः , अद्वैता- थनङ्गीकारेण यावद्यथाव्याख्याताथैस्य नैयायिकैरनङ्गीकारात् । यद्वा सन्देह एव कुत इत्युपसंहारात् सर्वाण्येव दर्शनान्येकार्थपरतया व्याख्यायन्ते । शुद्धधो = दोषहीनः, बुद्धधस्वभावो = घटादिभिन्नत्वे सत्यौपाधिकचैतन्यरहितः, आदौ = प्रकाशिका । यतिस्मेति । पुरुषशब्दस्यार्थमात्रमतिप्रसक्तमत आह । प्रधानमिति । न्यायमतभेदाय व्याचष्टे । क्षणिकेति । एकार्थपरतयेति । अविरुद्धार्थतयेत्यर्थः । घटादीति । औपाधिकं चैतन्य- मकरन्दः । इज्यत्वमात्रमतिप्रसक्तमत आह । प्रधानमिति । न्यायमतसाधारण्यमपाकरोति । क्षणि- केति । एकार्थेति । अविरुद्धार्थेत्यर्थः । घटाद्वाविति । औपाधिकं चैतन्यमन्यत्रोपाधिभूतं चैतन्यं घटादिभिन्नत्वसमानाधिकर णौपाधिकचैतन्यशून्यत्वमित्यर्थः, तथा च परमते विशेषणा- भावात्, स्वमते च विशेष्याभावाद् विशिष्टाभावोऽविशिष्ट इति भावः । मिश्रास्तु औपाधिकं चैतन्यं जन्यचैतन्यम् , एवं च विशिष्टाभावस्तन्मत उभयाभावादस्मन्मते च विशेष्याभावादिति टिप्पणी । ऽसङ्गतिरत आह-प्रधानमिज्यं यज्ञपुरुष इति । न्यायमतभेदायाह । क्षणिकसर्वज्ञ इति । वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरिति । तन्मते मन्त्रादिभिन्नाया इन्द्रा- दिदेवताया अस्वीकारात् , यत इन्द्रोऽपीन्द्राय स्वाहेत्यादिना इन्द्रमुद्दिश्य यजते, स्वमुद्दिश्य स्वकर्तृकत्यागासम्भवात् , इन्द्रान्तरस्वीकारेऽनवस्थानादतो मन्त्र एवोपासितः स्वरूपविशेष- परिणतः फलाय कल्पत इत्यादि तेषाममतमिति । बुद्धस्वभावो घटादिभिन्नत्वे सत्यौपा- धिकचैतन्यरहित इति । अन्यत्रोपाधिभूतचैतन्यात्मकत्वमौपाधिकचैतन्यं घटादिभिन्नत्वञ्च विशेषणम् । तेन परमते घटादिभिन्नत्वे द्वैतापत्त्या विशेष्यवति तन्न; विशिष्टाभावो विशेषणा- ( १ ) उपास्यत्वेन नोदित इति मुद्रितबोधन्युद्धृतः पाठः । ३ न्या० कु०