भारतकोश
न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)

Nyayakusumanjali of Udayanacharya with Commentary

आचार्य उदयन द्वारा

DevanagariHindipublished608 पृष्ठ

पृष्ठ 48, कुल 608 में से

संदर्भ में पढ़ें
पृष्ठ 48

१८ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकावतरणिकायां बहुना, कारवोऽपि यं विश्वकर्मेत्युपासते, तस्मिन्नेवं जातिगोत्रप्रवरचरण बोधनी । दुक्तोपपन्नः=तया यानि विशेषणान्युक्तानि तेषुयावदुपपन्नं तेनोपपन्नः । यद्वा, यावदुक्तेन यथाश्रुतेन न तु व्याख्यातेनोपपन्नः, यथा शुद्धः = देहादिरहितः, बुद्धः = बोधे कर्त्ता कर्म वा, आदिविद्वान्=नित्यज्ञातलोकव्यवहारः । सिद्धः=सर्वजनप्रसिद्धिगम्यः, सुगममन्यत्। जातिर्ब्रा- ह्मणत्वादिः। गोत्रं=कूटस्थऋषिनाम्ना सङ्कीर्त्तनम्। प्रवरः=वंश्यऋषिगणानुकीर्त्तनम् । चरणः = प्रकाशः । सर्गादौ, विद्वान् = ज्ञानवान् , सिद्धो = नित्यः, सम्प्रदायप्रद्योतको वेदं प्रणीय सर्गादिसमुत्पन्नाध्यापकः, अनुग्राहकः = कुलालादिकृतेऽपि घटादौ सहकारीत्यादिक्रमेण । नचैवमैकमत्येन दर्शनभेदानुपपत्तिः । (१) फलैकमत्येऽपि प्रकारभेदात् । सर्वथा विरोधाभावे विचा- रोपयोगिसंशयस्याप्यभावप्रसङ्गात् । यद्यपि मीमांसकानीश्वरसांख्यमते नेश्वरे सम्प्रतिपत्तिः, तथा- प्युपास्यत्वेन धर्मिणि सम्प्रतिपत्तिरस्त्येव । कारुः=शिल्पी । विश्वं सर्व्वमुत्पत्तिमत् कर्म्म कार्य्यं यस्य स तथा । जातिः = ब्राह्मणत्वादि । गोत्रं=काश्यपादि । ऋषय एव यज्ञे व्रियमाणाः प्रव- राः । चरणं = शाखा । अनुभावोऽसाधारणं कार्यं वेदादि । अत एव भवत्यस्मादिति भवः । प्रकाशिका । मन्यत्रोपाधिभूतचैतन्यात्मकत्वं तद् घटादिभिन्नत्वं च प्रतियोगिविशेषणं तेन विशिष्टाभावः परमते विशेषणाभावात्, अस्मन्मते च विशेष्याभावाद्विशिष्ट इति भावः । मिश्रास्तु औपाधिकं चैतन्यं जन्यचैतन्यमित्यर्थः, एवं च विशिष्टाभावोऽस्मन्मते विशेष्याभावात्, परमते चोभयाभावाद्विशिष्ट इति वदन्ति । तच्चिन्त्यम् । तथासति विशेष्याभावमात्रस्यैवोभयसाधारये विशेषणोपादानानुप- पत्तेः । यत्तु घटाद्यतिप्रसङ्गवारणार्थमेव विशेषणपदसद्भावस्यैव च विशेषणन्तदभिधेयमिति । तत्तु- च्छम् । अतिप्रसङ्गस्यादोषत्वात् । अन्यथा दोषहीन इत्यादावपि तद्विशेषणोपादानापत्तेः । किञ्चाभा- वविशेषणतायां वेदान्तिमतसाधारण्यानुपपत्तिरेव । फलैकमत्येऽपीति । उक्तधर्मेणाविरोधेऽपि धर्मा- न्तरेण विरोधादित्यर्थः । तमेवोपपादयति । सर्वथेति । अनुभावोऽसाधारणमिति । न च पूर्व- मकरन्दः । वदन्ति । तच्चिन्त्यम् । तथा सति विशेष्याभावस्यैवोभयमतसाधारणत्वे विशेषणवैयर्थ्यापत्तेः । यत्तु घटाद्यतिप्रसङ्गवारणार्थमेव सत्यन्तमिति । तच्चिन्त्यम् । तदतिप्रसङ्गस्यादोषत्वात् । अन्यथा दोषहीनत्वनित्यत्वादावपि तथात्वप्रसङ्गादिति । फलैक्येति । उक्तप्रकारावच्छिन्नधर्मिण्यैकमत्येऽपि प्रकारान्तरभेदेन दर्शनभेदादित्यर्थः । तदेवोपपादयति । सर्वथेति । टिप्पणी । भावात् । स्वमते द्वैताङ्गीकारेण घटादिभिन्ने तत्र विशिष्टाभावो विशेष्याभावादित्यविशिष्ट एव विशिष्टाभाव इति । न च चैतन्यात्मकत्वमात्रमुपेयं न्यायमते चैतन्यस्येश्वरधर्मत्वेन तदात्मक- त्वाभावादिति वाच्यम् । साङ्ख्यमतसाधारणाय तदुपादानात्, तन्मते चेतनस्य घटादिभिन्नत्वात् चैतन्यात्मकत्वाच्च विशिष्टाभावसत्त्वासम्भवात् । तदुपादानप्रकृतेः कार्यजनने स्वतन्त्रत्वेन चेत- नस्याकारणतया चैतन्यस्यान्यत्र कार्यजनने प्रयोजकत्वलक्षणोपाधित्वासम्भवात् । न्यायवेदान्तमत- योरिश्वरस्य कारणतयोपादानसाक्षात्कारत्मकस्य मायावृत्तिप्रतिविम्वितचैतन्यात्मकस्य च ज्ञानपदा- भिधेयस्य चैतन्यस्य कार्यजननप्रयोजकत्वेनास्त्युपाधित्वमिति भावः । सम्प्रदायप्रद्योतको वेदं (१) फलैक्येऽपीति पाठान्तरम् ।