न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 49, कुल 608 में से
संदर्भ में पढ़ेंप्रथमस्तबके ] ईश्वरनिरूपणाक्षेपसमाधानम् । १६ कुलधर्मादिवदाखंसारं प्रसिद्धानुभावे भगवति भवे सन्देह एव कुतः ? किं निरूपणीयम् । तथापि, न्यायचर्चयमीशस्य मननव्यपदेशभाक् । उपासनैव क्रियते श्रवणानन्तरागता ॥ ३ ॥ श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेष्विदानीं मन्तव्यो भवति, बोधनी । बह्वृचत्वाद्यवान्तरजातिः । कुलधर्मः=प्रतिकुलं व्यवच्छिन्नः शिखासन्निवेशादिः । यथा जात्या- दयः संसारमभिव्याप्य प्रमाणसिद्धाः, एवमीश्वरोऽपि । किं निरूपणीयम् ? न किञ्चिदित्यर्थः । समाधत्ते—तथापि न्यायेति । तत्रैव हि सन्दिग्धविषयत्वनियमो न्यायस्य यत्र दृष्टमेव संशयनिरासः प्रयोजनम् , अयं तु विहितोपासनात्मकत्वाददृष्टरूपस्वर्गापव- र्गादिफल इति सिद्धेऽपि विषये प्रवर्त्तत इति भावः । विहितत्वप्रदर्शनार्थ—मननेति । “मन्तव्य” इति मननं विहितम् , मननाख्या चेयं न्यायचिन्तेति । यद्वा, यद्युपासनेयं न्यायचर्चा, न तु संशयनिरासफला, तर्हि श्रवणादिचतुर्विधायां कतमेयमित्यत उक्तं— मननेति । श्रवणानन्तरेति मननस्यावसरप्राप्तिर्दर्शिता इति । तद् व्याचष्टे—श्रुतो हीति । प्रकाशः । तथा च जातिगोत्रादिवत्संसारमभिव्याप्य श्रुत्यादिप्रमाणसिद्धे परमात्मनि न सन्देहः, अतस्तत्रे- श्वरे किं निरूपणीयमित्यर्थः । तथापि धर्मिणि भगवति विहितमनने प्रकाराकाङ्क्षायां तत्र विप्रति- पत्त्या सन्देहोऽस्तीति मनसिकृत्य मननरूपोपासनैव क्रियते इति समाधत्ते— तथापीति । न्यायेन चर्चा न्यायचर्चा अनुमितिरूपा, उपासनैवेति सम्बन्धः । श्रवणानन्तरा- गतेत्यनेन श्रुतिप्रामाण्यग्राहकन्यायनिरूपणमपि सूचितम् । श्रवणानन्तरागतेति संगृहीतं विवृ- णोति । श्रुतो हीति । श्रुतिमूलकत्वात् स्मृतेरपि तत्समानविषयतया स्वबोधदार्थार्थं श्रवण प्रकाशिका । मनुभावोऽसाधारणीं कारणतामाहेति व्याख्यानेन विरोध इति वाच्यम् । तत्रानुभावोऽनुभावशब्दार्थो- ऽसाधारणकार्यरूपो नान्तरीयकत्याऽसाधारणीं कारणतामाहेत्यर्थात् , इह तु पदार्थव्याख्यानादिति । तत्र विप्रतिपत्त्येति । इदं च तथापि (१)विप्रतिपत्ति विनेत्यादिवक्ष्यमाणं मनसिकृत्योक्तम् । वस्तुतो मननरूपानुमितौ सन्देहोऽनङ्गमेवेति स्वयमेवोक्तेरिति । श्रुतिमूलकत्वादिति । अत्र मिश्राः “श्रोतव्यः श्रुतिवाक्येभ्य” इत्यादि नियमविध्यवष्टम्भेनेदमुक्तम् । वस्तुतस्तस्य नियमविधित्वेऽदृष्ट- कल्पनाभिया श्रुतिवाक्यपदमजहत्स्वार्थलक्षणया आत्मप्रतिपादकप्रमाणवाक्यपरम् । अत एवोत्तरो- त्तरप्रतिपत्तिरेव पूर्वपूर्वप्रतिपत्तेर्द्वारमिति सिद्धान्तः । अत एव “द्रष्टव्य” इत्यादिपाठक्रमत्यागो- मकरन्दः । श्रुतिमूलकत्वादिति । एतच्च ‘श्रोतव्यः श्रुतिवाक्येभ्य’’ इति नियमविध्यवष्टम्भेनो क्तम् । वस्तुतस्त्वात्मप्रतिपादकप्रमाणवाक्यपरमेव श्रुतिपदम् । अन्यथा अदृष्टार्थकतापत्तेः । पूर्व- टिप्पणी । प्रणीयेति । प्रणयनं हि तत्प्रत्यक्षजनककण्ठताल्वाद्यभिघातविशेषः । तथा च वेदस्य नित्यत्वपक्षेऽपि तत्सम्भवोऽनित्यत्वपक्षेऽपि चेति न क्षतिः । स्मृतेरपि तत्समानविषयतयेत्यादि । इदं तु ( १ ) संशयं विनेति मुद्रितप्रकाशे पाठः ।