न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 50, कुल 608 में से
संदर्भ में पढ़ें२० व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ३ कारिकाव्याख्यायां “श्रोतव्यो मन्तव्यः" इति श्रुतेः , आगमेनानुमानेन ध्यानभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥ इति स्मृतेश्च ॥ ३ ॥ बोधनी । प्रज्ञा=साक्षात्कारः, योगं=योगफलं निःश्रेयसमिति ॥ ३ ॥ प्रकाशः । उपयोग उक्तः । उत्तमो योगः = आत्मतत्त्वसाक्षात्कारः ॥ ३ ॥ ननु भगवति सन्देहाभावेन सिद्धसाधनात् कथमनुमितिः ? । सिद्धसाधनं हि स्वार्थानुमाने न दोषः प्रमाणसंप्लवस्य संस्थापनादिति चेद् । न । विनिगमकाभावात् , प्रकाशिका । ऽपि, अन्यथाऽदृष्टमेव तत्रापि द्वारमिति किमिति पाठिकक्रमत्यागः । एवं च स्त्रीशूद्रादीनामपि पुराणादिना श्रवणे मोक्षाधिकार इति वदन्ति । तच्चिन्त्यम् । (१)अदृष्टकल्पनाभिया श्रुतार्थपरित्यागे रथकारशब्देऽपि लक्षणापत्तेः । 'द्रष्टव्य' इत्यादौ तु क्रमत्यागमात्रं, तत्त्यागद्वारा श्रुतार्थपरित्यागः (१)अदृष्टकल्पनाभियाऽसिद्ध एव, “अग्निहोत्रं जुहोति” यवागूं पचतीत्यादावाद्यप्रतिपत्तिरूपद्वारवति उत्तरोत्तरप्रतिपत्तिर्द्वारमित्यदृष्टद्वारकत्वेऽपि विशेषणज्ञानत्वेन द्वारत्वायुुक्तमिति । अत एव त्रिसूत्री टीका ‘तपःप्रभाव एव हि तादृशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त” इति । अन्यथा शूद्रादीनामप्यधिकारे तदुपदेशेन पापाननुत्पत्या तद्विरुद्धेतेति । निबन्धेऽप्येवमेवेति । योगो निदिध्या- सनमेवेत्यन्वय इत्यत आह । आत्मतत्त्वसाक्षात्कार इति ॥ ३ ॥ विनिगमकेति । सिद्धेः पक्षताविघटकतया दूषणत्वस्योभयत्राविशेषादित्यर्थः । ननु सिद्धेर- नुमितिप्रतिबन्धकत्वे मानाभावः, यावत् परामर्शमनुमित्यविरोधादिति परार्थानुमान एवार्थान्तरतया मकरन्दः । पूर्वप्रतिपत्तौ हि उत्तरोत्तरप्रतिपत्तिद्वारकता । सा च श्रुतिमात्रजनितश्रवणसाध्यतायां नियमापूर्व- कल्पनया भज्येत । द्रष्टव्य इति अदृष्टद्वारकत्वाभयेन पाठिकक्रमोल्लङ्घनमपि नोचितं तस्य स्या- दिति पुराणस्मृत्यादिना श्रुते मननादभिमतसिद्धिर्भवत्येवेत्याहुः । ननु योगो निदिध्यासनमेवेत्य- न्वय इत्यत आह । उत्तम इति ॥ ३ ॥ विनिगमकेति । सिद्धयभावरूपायाः पक्षताया अनुमितिहेतुत्वे तदभावादनुमित्यभावस्यो टिप्पणी । “श्रोतव्यः श्रुतिवाक्येभ्य” इत्यादिनियमविध्यवष्टम्भेन, अन्यथा स्मृतेरपि श्रवणे प्रतिपत्तेरविशेषात् तस्या अपि प्रामाण्याच्च श्रुतिमूलकत्वादित्युपादानमफलं स्यात् , तथापि मुख्यतया श्रुतिवा- क्येभ्य एवायं श्रोतव्यः । अवबोधदार्ढ्यार्थं श्रुतिमूलायाः स्मृतेरपीति भावः ॥ ३ ॥ नन्वित्यादिग्रन्थे शङ्कते सिद्धसाधनं हीत्यादि । ननु सिद्धसाधनस्यादोषत्वात् ज्ञानधाराप्रसङ्ग इत्यत आह--प्रमाणसंप्लवेत्यादि । यावत् प्रमाणं प्रत्यक्षस्थल इवात्रानुमानस्थलेऽपि ज्ञानाधारा सम्पद्यत एव, प्रमाणसंप्लवकारणाभावान्नेष्यत इत्यर्थः । यद्वा सिद्धसाधनस्यादोषत्वे ग्रन्थकारसम्मतिमाह । प्रमाणेति । संप्लवः = सङ्करः । व्यवस्था- पनाद् भाष्यकारेणेति शेषः । इति चेन्न विनिगमकाभावादिति । सिद्धेः पक्षतावि- ( १ ) अक्लृप्तेत्यादर्शपुस्तके पाठः ।