न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 483, कुल 608 में से
संदर्भ में पढ़ेंचतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४५१ न ह्यधिगतेऽर्थे अधिगतिरेव नोत्पद्यते, कारणानामप्रतिबन्धात्। न चोत्पद्य- मानाऽपि प्रमातुरनपेक्षितेति न प्रमा, प्रामाण्यस्यातदधीनत्वात् । नापि पूर्वावि- विशिष्टतामात्रेणाप्रामाण्यम् । उत्तराविशिष्टतया पूर्वस्याप्यप्रामाण्यप्रसङ्गात् । तद- नपेक्षत्वेन तु तस्य प्रामाण्ये तदुत्तरस्यापि तथैव स्यादविशेषात् । छिन्ने कुठारा- दीनामिव परिच्छिन्ने नयनादीनां साधकतमत्वमेव नास्तीत्यपि नास्ति, फलोत्पा- दानुत्पादाभ्यां विशेषात् । तत्फलं प्रमैव न भवति, गृहीतमात्रगोचरत्वात् स्मृति- वदिति चेत्। न। यथार्थानुभवत्वनिषेधे साध्ये बाधितत्वात् । अनधिगतार्थत्वे प्रकाशः। यार्थ्येऽपि स्वकारणीभूतान्यूनानतिरिक्तविषयानुभवयाथार्थ्यापेक्षा, न त्वनुभवस्येत्यर्थः। अतदधी- नत्वात्- प्रमात्रपेक्षानधीनत्वादित्यर्थः । पूर्वाविशिष्टता पूर्वज्ञानान्यूनानतिरिक्तविषयतेत्यर्थः । यदि चोत्तरज्ञानानपेक्षं पूर्वज्ञानमिति स्वविषये तत् प्रमाणं, तदा पूर्वज्ञानानपेक्षमुत्तरमपि तथेत्याह तदनपेक्षत्वेनेति । यद्यप्युत्तरज्ञानं विशिष्टज्ञानत्वेन विशेषणज्ञानाऽऽत्मकपूर्वज्ञानापेक्षम् , अन्यथा सामग्रीतौल्ये धारावाहिधियां क्रमो न स्यात् । तथापि विशेषणमात्रविषयतया तथा, न विशिष्टवि- षयतयेति भावः । फलोत्पादेति । छिन्ने छिदा न सम्भवति, ज्ञाते तु ज्ञानान्तरं सम्भवत्येवेत्यर्थः । प्रकाशिका। आहान्यूनेति । धारावाहिकबुद्धेरनपेक्षत्वाभावो मा भूदिति स्वकारणीभूतेति । अन्यूनविषय- कत्वेन च कारणत्वं विवक्षितमिति नोक्तदोषः, अनतिरिक्तपदं यद्यस्ति तदप्यविवक्षितार्थम् । न च पूर्वज्ञानप्रामाण्यापेक्षा धारावहनस्थले नोत्तरज्ञान इत्येवानातिप्रसङ्गे किमिति तथा कारणता विवक्षितेति वाच्यम् । तदपेक्षितत्वं हि तन्नियतत्वम्, तच्च तत्राप्यस्त्येव स्मृतावपि तदेव तत्, अनुमितौ लिङ्ग- परामर्शप्रामाण्याधीनप्रामाण्यापातादतिव्याप्तिरित्यतोऽप्यन्यूनपदं समानाधिकरणपदमधिकं प्रवेशनी- यम् । अन्यथा वक्तृयथार्थवाक्यार्थज्ञानाधीनप्रामाण्याधीनप्रामाण्ये शाब्दे ज्ञानेऽतिव्याप्तेरिति । तदा पूर्वज्ञानानपेक्षमिति । अन्यूनविषयकत्वेन पूर्वज्ञानस्याकारणतया निरुक्तापेक्षा नास्तीत्यर्थः। इदमेवाग्रे व्यक्तीकरिष्यति । न विशिष्टविषयतयेति । क्रमो न स्यादिति । यद्यपि विशेषण- मकरन्दः। नन्वेवमनुभवोऽपि प्रमा न स्यात्, तस्यापि विशेषणज्ञानादिसापेक्षत्वादित्यत आह स्वकार- णीभूतेति । एतच्च धारावाहिके तादृशपूर्वज्ञानयाथार्थ्यापेक्षयाथार्थ्यतया उत्तरकालेऽतिव्याप्तिवारणा- यान्यूनानतिरिक्तविषयकत्वेन कारणत्वं विवक्षितम् । तस्य च विशेषणमात्रविषयतया तथात्वमिति नोक्तदोषः । न च तत्सापेक्षमेव याथार्थ्यं तस्येति वाच्यम् । तत्सापेक्षत्वं हि तन्नियतत्वम् , तच्च तत्रापि । स्मृतावपि तदेव तत् । लिङ्गज्ञानयाथार्थ्यापेक्षितवमादायातिव्याप्तिवारणायान्यूनेति । वस्तुतः पूर्वोक्तातिव्याप्तिवारणार्थमपि तत् । अनतिरिक्तपदं चिन्त्यम् , अतएव परिमले नास्तीति । किञ्च स्मृतावपि पूर्वानुभवस्यान्यूनविषयतयैव जनकत्वम् । अतिरिक्तविषयानुभवादपि तदंशे संस्का- रोद्बोधे स्मृतिदर्शनात् । एवञ्च वक्तृवाक्यार्थज्ञानयाथार्थ्यापेक्षित्यमादाय शाब्दानुभवेऽतिव्याप्तिरि- त्यपि चिन्त्यम् । अन्यथेति । यद्यपि विशेषणज्ञानत्वेनैव हेतुत्वम् तथापि क्रमासम्भवः, तथापि फलंबलेन तत्त- द्विशेषणज्ञानत्वेन विशेषसामग्रीत्वमिति क्रम इति भावः । न च स्वरूपसत्क्रमिकक्षणोत्पत्तिकत्वेन क्रमः, सामग्रीतौल्ये तदेव नेत्याशयात् ॥ टिप्पणी । तथापि विशेषणमात्रविषयतयेति । अनधिगतार्थविषयकत्वप्रामाण्यवादिनं विशेषण- विषयत्वेनापि प्रामाण्याङ्गीकारात् तद्वति तत्प्रकारकत्वप्रामाण्यवादिनामेव विशिष्टविषयकत्वे प्रामाण्या-