न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 484, कुल 608 में से
संदर्भ में पढ़ें४५२ व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ १ कारिकाव्याख्यायां सिद्धसाधनात्, साध्यसमत्वाच्च। व्यवहारनिषेधे तन्निमित्तविरहौपाधिकत्वात् , बाधितत्वाच्च। न चानधिगतार्थत्वमेव तन्निमित्तं, विपर्ययेऽपि प्रमाव्यवहारप्रस- ङ्गात्। नापि यथार्थत्वविशिष्टमेतदेव, धारावहनबुद्ध्यव्याप्तेः। न च तत्तत्काल- प्रकाशः। साध्यसमत्वादिति। प्रमात्वाभावस्य गृहीतमात्रग्राहित्वरूपतया साध्याविशेषादित्यर्थः। व्यव- हारेति। प्रमाशब्दवाच्यत्वव्यतिरेके साध्ये तत्प्रवृत्तिनिमित्तरहितत्वमुपाधिरित्यर्थः। न चायमु- पाधिः साधनाध्यापक इत्याह न चेति। धारावहनेति। इन्द्रियार्थसन्निकर्षाधारस्तृतीयक्षण- स्तदिन्द्रियार्थसन्निकर्षजज्ञानोत्पत्त्याधारः, अव्यासक्तमनसो यावत्सहकारिसाकल्ये सत्यनाद्येन्द्रियस- न्निकर्षाधारक्षणत्वाद् द्वितीयक्षणवदिति धारावहनबुद्धौ मानमाहुः। ननु सूर्यगत्यादिरूपकालावच्छेदकोपाधिविशिष्टतत्तदर्थविषयत्वेन तासामप्यधिकविषयकत्वम् , एकस्मिन् क्षणे यौगपद्यनिषेधेन तस्यावश्यकत्वादित्यत आह न चेति। 'घटोऽयं घटोऽयमित्यादि- प्रकाशिका। ज्ञानत्वेनैव हेतुत्वात् क्रमसम्भव एव, तथापि फलबलेन तत्तद्व्यक्तित्वेनैव उत्तरोत्तरं तत्- ज्ञानं प्रति विशेषसामग्रीत्वमिति भावः। यद्यपि स्वरूपसत एव क्रमिकक्षणोत्पत्तिकत्वेनैव क्रमोप- पत्तिः, तथापि प्रथमज्ञानोत्पत्तिकाल विनिगमकाभावेन द्वितीयज्ञानस्यैवोत्पत्तिः स्यादिति भावः। इन्द्रियार्थेति। सन्निकर्षोत्पत्त्यधिकरणक्षणतृतीयक्षण इत्यर्थः। इतरसामग्रीसहकृतत्वं च प्रथमक्षण- पदार्थविशेषणम्। तेन प्रतिबन्धाकरणेनोत्पत्त्यव्यवधानेन यत्र सन्निकर्षेण ज्ञानं जनितं तत्र तृतीयक्षणे ज्ञानोत्पत्तेरपि नाभिमतासिद्धिरित्यर्थान्तरमिति प्रत्युक्तम्, साध्ये च पुरुषान्तरीयज्ञानमादा- यार्थान्तरमिति तदिति सन्निकर्षविशेषणम्। द्वितीयक्षणोत्पन्नज्ञानस्य तृतीयक्षणसत्त्वेनार्थान्तरमित्यु- त्पत्तीति। व्यासङ्गदशायां व्यभिचार इत्यव्यासक्तेति। व्यासङ्गदशायां ज्ञानोत्पादेऽपि तद्दि- न्द्रियार्थसन्निकर्षज्ञानाभावाद्भवति व्यभिचारः। यद्यपि व्यासङ्गदशायां तदिन्द्रियमनःसंयोगाभा- वायावदित्यादि विशेषणादेव न व्यभिचार इत्यव्यासक्तेत्यादि व्यर्थम्। तथापि तदितरयावत्सह- कारिसाकल्यमेव विशेषणं यावदित्यादिना विवक्षितम्। आलोकादिकिञ्चित्कारणसमवधानदशायां व्यभि- चार इति यावदिति विशेषणम्। साकल्ये समवधान इत्यर्थः। सन्निकर्षोत्पत्तिक्षणे व्यभिचार इत्य- नाद्येति क्षणविशेषम्। इन्द्रियपदं तदिन्द्रियपरमतो न पुरुषान्तरीयसन्निकर्षमादाय व्यभिचारः । इन्द्रिये व्यभिचार इति क्षणपदम्। नन्वेकक्षणोत्पन्नज्ञानद्वयस्थले द्वितीयज्ञाने तथाप्यव्याप्तिरत आह एकस्मिन्निति। ननु ज्ञानस्य क्षणविषयत्वे विषयीभूतनियामकाभावादेकक्षणेपि ज्ञानद्वयापत्तिरत मकरन्दः। तृतीयक्षण इति सन्निकर्षापेक्षया। एतच्च विनश्यदवस्थप्रथमज्ञानाधारत्वेनार्थान्तरप्रसङ्गिनि- रासाय तन्त्रे उत्पत्तीति। व्यासङ्गाधारक्षणे व्यभिचारवारणाय अव्यासक्तेति। यद्यपि तदा ज्ञानमुत्पद्यत एव, तथापि तदिन्द्रियार्थसन्निकर्षज्ञानाभावाद् व्यभिचारः। यद्यप्येवं व्यासङ्गाभावस्यापि हेतुत्वाद् यावत्सहकारीत्यादिविशेषणाभावादेव न व्यभिचार इति तद्वैय्यर्थ्यम्, अन्यथा तदा ज्ञानोत्पत्त्यवश्यम्भावापत्तेः। तथापि तदतिरिक्तयावत्सहकारिविवक्षापक्षे तद् द्रष्टव्यम्, प्रतिबन्धकाभावकारणतावच्छेदकत्ववादिमतेनेदमित्यन्ये। आलोकादिकिञ्चित्सहका- रिविरहदशायां व्यभिचारादाह यावदिति। साकल्यसमवधान इत्यर्थः। सन्निकर्षोत्पत्त्याधारक्षणे व्यभिचारादाह अनाद्येति क्षणविशेषणम्। इन्द्रियपदं तदिन्द्रियपरम्, अतो नेन्द्रियान्तरसन्निक- र्षमादाय व्यभिचारः। ज्ञानोत्पत्त्यनाधारेन्द्रिये व्यभिचारादाह क्षणेति। टिप्पणी। ऽङ्गीकारदतो नासङ्गतिः। अनाद्येन्द्रियसन्निकर्षेति। इन्द्रियसन्निकर्षोत्पत्तिक्षणे व्यभिचार-